________________ लघी०१।४] सन्निकर्षवादः तच्चेदं वैशद्यलक्षणलक्षितं प्रत्यक्षं द्विप्रकारं भवति-गौणम् , मुख्यन्चेति / तत्र गौणं 'सांव्यवहारिकम्' इत्यादिना व्याचष्टे / संव्यवहारे नियुक्तं विवृतिव्याख्यानम्- सांव्यवहारिकम् गौणमित्यर्थः / किं तत् ? इन्द्रियानिन्द्रिय प्रत्यक्षम् / अयमर्थः-यद् इन्द्रियाणां चक्षुरादीनाम अनिन्द्रियस्य च मनसः कार्यम् अंशतो विशदं विज्ञानं तत् सांव्यवहारिकं गौणप्रत्यक्षम् इत्यर्थः / 5 ननु च 'इन्द्रियानिन्द्रियप्रत्यक्षम्' इत्यनेन सांव्यवहारिकप्रत्यक्षस्य सामग्रीप्ररूपणमयुक्तम् / तत्कारणस्य आत्मार्थालोकादेरत्रासमहात् ; इति चेन्न ; असाधारणस्यैव तत्कारणस्यात्र प्ररूपयितुमभिप्रेतत्वात् / नचात्मनः समनन्तरप्रत्ययस्य वा प्रत्यक्षं प्रत्यसाधारणकारणवं संभवति ; प्रत्ययान्तरेऽप्यस्याविशिष्टत्वात् / नाप्यर्थालोकयोः ; तयोर्ज्ञानकारणत्वस्याने प्रतिषेत्स्यमानत्वात् / नापि सन्निकर्षादेः / तत्र तत्कारणत्वस्य प्रागेव प्रतिषेधात् , अव्यापकत्वा- 10 चास्य न तत्कारणत्वम्, नहि चक्षुरूपयोः सन्निकर्षोऽस्ति अप्राप्यकारित्वाच्चक्षुषः।। ननु चास्याऽप्राप्यकारित्वप्रतिज्ञा प्रमाणविरुद्धा; तथाहि-प्राप्यकारि चक्षुः बाह्येन्द्रिय त्वात, यद् बाह्येन्द्रियं तत्प्राप्यकारि प्रतिपन्नम् यथा त्वगादि, बाह्येसन्निकर्षः प्रमाणम् ' . न्द्रियञ्च चक्षुः, तस्मात् प्राप्यकारि / नचायमसिद्धो हेतुः ; पक्षे इति नैयायिकमत प्रवर्तमानत्वात् / नापि विरुद्धः; संपक्षे सत्त्वात् / नाप्यनैकान्तिकः; 15 :- प्रतिपादनम् सपक्षवद् विपक्षेऽप्यप्रवृत्तेः / नच मनसा व्यभिचारः; बाह्यविशेषणात्। 'इन्द्रियत्वात्' इत्युच्यमाने हि मनसा व्यभिचारः स्यात् , तत्परिहारार्थ बाह्यविशेषणम् / नापि कालात्ययापदिष्टः; प्रत्यक्षागमाभ्यामबाधित विषयत्वात् / नापि प्रकरणसमः; प्रकरणचिन्ताप्रवर्तकस्य हेत्वन्तरस्यासम्भवात् / अथ मतम्-अधिष्ठानदेश एव चक्षुः नान्यत्र, अधिष्ठानपिधाने विषयाग्राहकत्वात; यद् यद् अधिष्ठानपिधाने विषयाग्राहकं तत्तत् अविष्ठानदेश 20 एव यथा घ्राणादि, अधिष्ठानपिधाने विषयाग्राहकञ्च चक्षुः, तस्मात् तद्देश एव, अतः कथमस्य प्राप्यकारित्वं स्यादिति ? तदपि न सङ्गतम् ; यतः 'अधिष्ठानदेश एव' इति कोऽर्थः ? किम् अधिष्ठानदेशे सत् , उत अधिष्ठानादव्यतिरिक्तम्, ततोऽन्यत्र असदिति वा ? तत्राद्यपक्षोऽयुक्तः; अधिष्ठानदेशे सत्त्वस्य प्राप्यकारित्वाविरोधात्, नाधिष्ठानदेशे सतः स्पर्शनादेः प्राप्यकारित्वविरोधो दृष्टः / द्वितीयविकल्पोऽप्यनुपपन्नः; अधिष्ठानादव्यतिरिक्तत्वस्य 25 1 प्रत्यसाधारणत्वम् आ० / 2 “अथ प्राप्यकारित्वे चक्षुषः किं प्रमाणम् ? इन्द्रियत्वमेव, प्राप्यकारि चक्षुः इन्द्रियत्वात् घ्राणादिवत् / " न्यायवा० पृ. 36 / न्यायवा० ता०टी० पृ०१२२ / "प्राप्तप्रकाशकं चक्षुः व्यवहितार्थाऽप्रकाश कत्वात् प्रदीपवत् , बाह्येन्द्रियत्वात् त्वगिन्द्रियवत् / " प्रश. कन्दली पृ० 23 / “चक्षुःश्रोत्रे प्राप्यार्थ परिच्छिन्दाते बाह्येन्द्रियत्वात् त्वगिन्द्रियवत् / " न्यायवा० ता०टी०पृ०७३ / 3 “इह केचिदाहुः-अप्राप्यकारि चक्षुः अधिष्टानाऽसम्बद्धार्थग्राहकत्वात्.. तदसत् ; अधिष्ठानासम्बद्धार्थसाहित्वस्य प्रदीपेनानै कान्तिकत्वात् / श. किरणाव. पृ० 74 /