________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्र [1 प्रत्यक्षपरि० सिद्धो भेदः / ययोविभिन्नस्वरूपत्वं तयोः परस्परतो भेदः यथा जलानलयोः, विभिन्नस्वरूपत्वञ्च विशदेतरस्वभावतया प्रत्यक्षपरोक्षयोरिति / के पुनर्बुद्धेशद्याऽवैशये यदुपेतत्वेन प्रत्यक्षतरयोर्भेदः स्यात् ? इति चेदुच्यते अनुमानायतिरेकेण विशेष प्रतिभासनम् / तशय मतं वुद्धेरवेशद्यमतः परम् // 4 // विकृतिः-तत्र सांव्यवहारिकम् इन्द्रियानिन्द्रियप्रत्यक्षम् , मुख्यम् अतीन्द्रियज्ञानम् / तदस्ति सुनिश्चिताऽसंभवद्वाधकप्रमाणत्वात् सुखादिवत् / यावज्ज्ञेयव्यापिज्ञानरहितसकलपुरुषपरिषत्परिज्ञानस्य तदन्तरेणाऽनुपपत्तेः, तदभावतत्त्वज्ञो न कश्चित् अनुपलब्धेः खपुष्पवत् / न वै जैमिनिः अन्यो वा तदभावतत्त्वज्ञः सत्त्वपुरुष१० ववक्तृत्वादेः रथ्यापुरुषवत् / पुरुषातिशयप्तम्भवेऽतीन्द्रियार्थदर्शी किन्न स्यात् ? अत्र अनुपलम्भमप्रमाणयन् सर्वज्ञादिविशेषाऽभावे कुतः प्रमाणयेद् अभेदात् ? साधकबाधकप्रमाणाऽभावात् तत्र संशीतिः इत्यनेन प्रत्युक्ता; बाधकस्यैवाऽसम्भवात् / सर्वत्र वाधकोऽभावेतराभ्यां भावाऽभावव्यवहारसिद्धिः, तत्संशयादेव सन्देहः / तत एव अनुभवप्रामाण्यव्यवस्थापनात् इत्यलमतिप्रसङ्गेन / 15 अनुमानादिभ्योऽतिरेकेण आधिक्येन वर्णसंस्थानादिविशेषरूपतया अर्थग्रहणलक्ष णेन प्रचुरतरविशेषान्वितार्थावधारणरूपेण वा यद् विशेषाणां नियकारि काव्याख्यानम्- तदेशकालसंस्थानाद्यर्थाकाराणां प्रतिभासनं तवुद्धवैशद्यम भिप्रेतम् / अस्मात् परम् अन्यथाभूतं यद्विशेषाऽप्रतिभासनं तद् अवैशद्यम् इति / स्वरूपापेक्षया च सर्व ज्ञानं विशदमेव, परिस्फुटरूपतया स्वरूपस्य सर्वज्ञा२० नानां स्वसंवेदने प्रतिभासनात् / बहिरर्थस्तु केषाञ्चिज्ज्ञानानां परिस्फुटरूपतया प्रतिभाति केषा ञ्चित्तु तद्विपरीततया, अतस्तदपेक्षया तेषां वैशद्यावैशये प्रतिपत्तव्ये / 1 "प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशंद्यम् / " परीक्षामुख 2 / 4 / " अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वमिति / " प्रमाणनयतत्त्वा० 2 / 3 / जैनतर्कभा० पृ० 114 / "वैशद्यम् इदन्त्वेन अवभासनम् / " जैनतर्कवा०पू०पृ०९५ / “प्रमाणान्तरानपेक्षेन्दन्तया प्रतिभासो वा वैशद्यम् / " प्रमाणमी० 1 / 1 / 14 / 2 बाधकभावे-ज० वि० / 3 " सर्वसंवित्तेः स्वसंवेदनस्य कथञ्चित् प्रमाणत्वोपपत्तेः तदपेक्षायां सर्वं प्रत्यक्षम् न कश्चित् प्रमाणाभासः / " अष्टसह. पृ०२४६ / तत्त्वार्थश्लोक पृ० 170 / “बहिरर्थग्रहणापेक्षया हि विज्ञानानां प्रत्यक्षेतरव्यपदेशः, तत्र प्रमाणान्तरव्यवधानाऽव्यवधानसद्भावेन वैशद्येतरसम्भवात् नतु स्वरूपग्रहणापेक्षया तत्र तदभावात् / " प्रमेयक पृ० 59 पू० / स्या० रत्ना० पृ० 318 / लघी० वृ० पृ० 13 / प्रमाणमी० पृ० 17 // 4 सर्वज्ञानं आ०, ब०, ज० /