________________ लघी० 13.] प्रत्यक्षकप्रमाणवादः प्रत्यक्षस्य, अखिललोकप्रसिद्धञ्चानुमानस्य स्वरूपमिति / न चेदमसिद्धम् ; अबलाबालगोपालादीनां धूमाद्यर्थात् पावकाद्यर्थान्तरे निरारेकं प्रत्ययप्नतीतेः / कथं वा तस्वरूपापलापे 'प्रत्यक्षमेव प्रमाणमगौणत्वात्' इत्यभिधतः स्ववचनविरोधो न स्यात् ? निरवद्यतल्लक्षणाभावोऽप्ययुक्तः; 'साधनात् साध्यविज्ञानमनुमानम्' इत्यादेः निरवद्यतल्लक्षणस्य अग्रे प्रतिपादयिष्यमाणत्वात् / किञ्च, यदि परप्रणीतं तल्लक्षणं सावधं तदा तत् 5 स्वयमनवद्यमावेद्यताम् , न पुनस्तद्वेषेण लक्ष्यमप्यनुमानमपह्नोतुं युक्तम् , नहि प्रेक्षावान् यूकाभयात् परिधानपरित्यागं विदधाति / . यदप्युक्तम्-'अवस्थादेशकालादिभेदात्' इत्यादि ; तदप्युक्तिमात्रम् ; उहाख्यप्रमाणप्रसादात् सम्यगवधृतायां व्याप्तौ विप्लवाऽभावात् , प्रमातुरेव हि तत्रापराधो नानुमानस्य / ___ॐ यदपि 'विशेषेऽनुगमाभावः' इत्याद्युक्तम् ; तदप्ययुक्तम् ; व्याप्ति-प्रयोगकालापेक्षया 10 साध्यस्य भेदात् / 'व्याप्तौ हि साध्यं धर्मः, प्रयोगकाले तु तद्विशिष्टो धर्मी' इति वक्ष्यति, तंत्र कथमनुगमाभावः सिद्धसाधनं वा स्यात् ? ____ यच्चान्यदुक्तम्-'सर्वत्रानुमानेऽनुमानविरोधादेः संभाव्यमानत्वात्' इत्यादि; तदप्ययुक्तम् ; समीचीनसाधने प्रयुक्ते अनुमानविरोधादेरसम्भवात् / न खलु धूमादिसाधने पर्वताद्यग्निमत्त्वसिद्धौ प्रयुक्ते ‘पर्वतोऽयमग्निमान् न भवति पर्वतत्वात् तदन्यपर्वतवत्' इत्यनुमानविरोधस्य, 15 'अत्रत्येन वा अग्निना अग्निमान न भवति धूमवत्त्वात महानसवत्' इति विरुद्धाऽव्यभिचारिणः, 'धूमादिसाधनं यथैवाग्निमत्त्वं पर्वतादेः साधयति तथा निर्मूल(?)निवृक्षप्रदेशाग्निनापि अग्निमत्त्वं साधयति, महानसादौ तथादर्शनात्' इतीष्टविघातकृतो वा संभवः; प्रत्यक्षादिविरुद्धत्वेन अस्यानुमानाभासत्वात् / निर्बाधं हि प्रमाणं कस्यचित् साधकं बाधकं वा युक्तं नान्यत्, अतिप्रसङ्गात् / ततोऽनुमानादेः प्रमाणान्तरत्वोपपत्तेः सूक्तम् ‘अविशद- 20 निर्भासिनः परोक्षता' इति / तथा च प्रत्यक्ष-परोक्षयोः विभिन्नस्वरूपत्वात् परस्परतः . 1 प्रत्यक्षप्रतीतेः भा० / 2 “साधनात् साध्यविज्ञानमनुमानं.....।" न्यायवि० पृ० 400 पू० / 3 “तदेवमनुभवसिद्धत्वादनुमानस्वरूपमिव तस्य लक्षणमपि तान्त्रिकविरचितमवाचकं लक्षणं तत्स्वयमनवद्यमावेद्यतां नतु तद्वेषेण लक्ष्यमप्यनुमानं निहोतुयुक्तम् / " न्यायमं० पृ० 123 / 4 “सम्यगवधृतायां व्याप्तौ विप्लवाभावात् , प्रमातुरेव तत्रापराधो नानुमानस्य / " न्यायमं० पृ. 123 / “तदाहुःप्रमातुरपराधोऽयं विशेष यो न पश्यति। नानुमानस्य दोषोस्ति प्रमेयाऽव्यभिचारिणः / " स्या. रत्ना० पृ० 269 / 5 “साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी / " परीक्षामुख 3 / 25 / “व्याप्तौ तु साध्यं धर्मएव / " परीक्षामुख 3 / 32 / 6 तत क-ब०, ज०, भां० / 7 “प्रयोजकहेतौ प्रयुक्त एवम्प्रायाणामनवकाशात् / न विशेषविरुद्धश्च न चास्तीष्टविघातकृत्। हेती सुप्रतिबद्धेहि नैताः सन्ति बिडम्बनाः // " 'न्यायमं० पृ० 124 / “वस्तुबलप्रवृत्तानुमाने विषये न विरुद्धाव्यभिचारी च संभवति / " तत्त्वसं० पृ. 430 / 8 निपलनि-भां। पृ०६८५०७। पृ० 69 पं० 8 / 069 पं. 4 / 10