________________ 72 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० चारस्य / नहि लक्षणकाराणां लाघवेन शब्दरचनां कुर्वतां धर्मिणि पक्षशब्दोपचारमात्रेण अनुमानस्य गौणत्वं भवति अतिप्रसङ्गात् / बाध्यमानत्वञ्च-सम्यगनुमानस्य, अनुमानाभासस्य वा ? प्रक्षमपक्षोऽनुपपन्नः; सत्यधूमादिसाधनादग्न्याद्यनुमाने बाधाऽसम्भवात् / अनुमानाभासस्य तु बाधासम्भवे तस्यैव गौणत्वं युक्तं न सम्यगनुमानस्य; अन्यथा प्रत्यक्षाभासस्य बाधोपलम्भात् सम्यक्प्रत्यक्षस्यापि गौणत्वप्रसङ्गः स्यात् / साध्यसाधनयोः प्रतिबन्धग्राहकप्रमाणाभावश्चाऽसिद्धः; तर्काख्यप्रमाणात्तद्ग्रहणप्रसिद्धः / तथा च 'तत्सम्बन्धग्रहणे प्रत्यक्षं प्रवर्तेत अनुमानं वा' इत्यादि प्रत्याख्यातम् , सार्वत्रिकसम्बन्धप्रतिपत्तौ च यथा तस्य सामर्थ्य तथा वक्ष्यते / किञ्च, 'प्रत्यक्षमेव प्रमाणं नानुमानम्' इति विधिनिषेधप्रतिपत्तौ प्रत्यक्षस्य सामर्थ्यम् , 10 अगौणत्वादिलिङ्गस्य वा ? न तावत्प्रत्यक्षस्य; नहि तद् इन्द्रियादिसामग्रीतः समुपजातम् 'अह मेव प्रमाणं नानुमानम्' इत्यत्रार्थे समर्थम् , प्रतिनियतरूपादिप्रतिपत्तावेव अस्य सामर्थ्यसम्भवात् / अगौणत्वादिलिङ्गस्यापि तत्प्रतिपत्तौ सामर्थ्यम् अनुमानाऽप्रामाण्येऽनुपपन्नम् / अप्रमाणेन च व्यवस्थां कुर्वाणस्य उन्मत्तत्वप्रसङ्गः, नहि प्रमाणादृते प्रमेयव्यवस्था युक्ता अतिप्रसङ्गात्। .. __ किञ्च, 'प्रत्यक्षमेव प्रमाणम्' इत्यभ्युपगच्छता प्रत्यक्षमात्रं प्रमाणमभ्युपगम्यते, तद्वि१५ शेषो वा ? प्रथमपक्षे द्विचन्द्रादिप्रत्यक्षस्यापि प्रामाण्यप्रसङ्गः। द्वितीयपक्षे तु कोऽयं तद्विशेषो नाम ? यथार्थता इति चेत् ; तर्हि 'यथार्थ प्रत्यक्षं प्रमाणं नाऽयथार्थम्' इति यदा परः प्रतिपाद्यते तदा काश्चित् प्रत्यक्षव्यक्तीः परिधृत्य यथार्थाश्चाङ्गीकृत्य, 'यदीदृशं प्रत्यक्षं तत्प्रमाणं नान्यादृशम्' इति प्रतिपादनीयः, एतच्च प्रमाणान्तराद्विना न प्रतिपादयितुं शक्यम् , न खलु पुरोर्तिवर्तमानप्रतिनियतरूपादिविषयोपरूढाभिः प्रत्यक्षव्यक्तिभिः एतत्प्रतिपादयितुं पार्यते / 20 परश्च बुद्धिमत्त्वेन स्तम्भादिभ्यो विलक्षणः प्रतिपाद्यमानार्थग्रहणसमर्थो निश्चितः प्रतिपाद्यः, न च तन्निश्चये अनुमानादन्यस्य सामर्थम् ; प्रत्यक्षस्य रूपादिमदर्थप्रतिपत्तावेव सामर्थ्यात् / ___कथञ्च अनुमानानभ्युपगमे स्वव्यवस्थापितप्रमाण-प्रमेयव्यतिरिक्तप्रमाणप्रमेयस्य स्वर्गाsपूर्वदेवतादेश्च निषेधः प्रत्यक्षस्य अत्राऽसामर्थ्यात्? प्रमाणादृते प्रमेयसिद्धौ चातिप्रसङ्गात्। किञ्च, अनुमानापह्नवः तत्स्वरूपाभावात् , निरवद्यतल्लक्षणाभावाद्वा स्यात् ? न तावत् स्वरूपाभावात्; 25 तत्स्वरूपस्य अखिललोकप्रसिद्धत्वात् / यत् स्वरूपमखिललोकप्रसिद्धं न तस्यापह्नवो युक्तः यथा 1 तर्कस्य / २-पि प्रति-भां० / 3 परिहृत्य भां० / 4 पुरोवर्तमान-भां० / 5 “उक्तञ्चप्रमाणेतरसामान्यस्थितेरन्यधियोगतेः / प्रामाणान्तरसद्भावः प्रतिषेधाच कस्यचित् / " प्रमेयक पृ० 46 पू० / सम्मति० टो० पृ० 554 / स्या० रत्ना० पृ० 268 / 6 “किमयम् अनुमानस्वरूपाक्षेप एव क्रियते उत तत्तार्किकोपलक्षिततल्लक्षणाक्षेप इति ? तत्रानुमानस्वरूपञ्च अशक्यनिह्नवमेव सर्वलोकप्रसिद्धत्वात्। अबलाबालगोपालहालिकप्रमुखा अपि। बुद्धयन्ते नियतादादर्थान्तरमसंशयम् / / " न्यायमं० पृ० 120 / स्या. रत्ना० पृ. 268 / 7 न तत्स्वरू-भां० /