________________ लघो० 113 ] प्रत्यक्षैकप्रमाणवादः ___ यच्च ‘अगौणत्वात् ' इत्युक्तम्। , तत्र अनुमानस्य कुतो गौणत्वम्-अविशदस्वभावत्वात , स्वार्थनिश्चये परापेक्षत्वात, विसंवादकत्वात् , प्रत्यक्षपूर्वकत्वात् , अर्थादनुत्पद्यमानत्वात् , अवस्तुविषयत्वात् , धर्मिणि पक्षशब्दोपचरात् , बाध्यमानत्वात, साध्यसाधनयोः प्रतिबन्धप्रसाधकप्रमाणाऽभावाद्वा ? तत्र न तावदविशदस्वभावत्वात् ; वैशद्यस्य प्रमाणलक्षणत्वाऽभावात् / यदि हि तत् प्रमाणलक्षणं स्यात् तदाऽनुमानादेस्तन्निवर्तमानं प्रामाण्यमादाय निवर्तते इत्यप्रामा- 5 ण्यमस्योपपन्नं स्यात्, न चैतत्तल्लक्षणम् ; द्विचन्द्रादिज्ञाने वैशद्यसद्भावेऽपि प्रामाण्याऽसम्भवात् / स्वार्थनिश्चये परापेक्षत्वमप्यस्याऽसम्भाव्यम् ; प्रत्यक्षवत्तस्य तन्निश्चये परनिरपेक्षत्वात्। अनभ्यासावस्थायामनुमानस्यार्थनिश्चये परापेक्षत्वं प्रत्यक्षेऽपि तुल्यम् / विसंवादकत्वमप्यस्यानुपपन्नम् ; सम्यगनुमानेन प्रतिपन्ने वस्तुनि विसंवादाऽसम्भवात् / तदाभासेन प्रतिपन्ने तस्मिन् विसंवादे तस्यैव गौणत्वं युक्तं नान्यस्य, अन्यथा प्रत्यक्षाभासे विसंवाददर्शनात सत्यप्रत्यक्षेऽपि 10 गौणत्वप्रसङ्गः स्यात् / प्रत्यक्षपूर्वकत्वञ्च असिद्धम् ; अनुमानस्य ऊहाख्यप्रमाणपूर्वकत्वेन वक्ष्यमाणत्वात् / किञ्च, लिङ्गादेवानुमानमुत्पद्यते, तत्कथं प्रत्यक्षात्तदुत्पत्तिसम्भवः तस्य लिङ्गप्रतिपत्तावेव व्यापारात् ? अस्तु वा प्रत्यक्षादेव तदुत्पत्तिः; तथापि न गौणत्वं तस्य तत्सामग्रीत्वात् , स्वसामग्रीतश्चोपजायमानस्य गौणत्वे प्रत्यक्षस्यापि तत्प्रसङ्गः। किञ्च, प्रत्यक्षपूर्वकत्वेनानुमानस्य गौणत्वे प्रत्यक्षस्यापि कस्यचिदनुमानपूर्वकत्वेन गौणत्व- 15 प्रसङ्गः, दृश्यते हि साध्यमर्थमनुमानानिश्चित्य प्रवर्तमानस्य अनुमानपूर्विका प्रत्यक्षप्रवृत्तिः / अर्थादनुत्पद्यमानत्वेनास्य गौणत्वे तु अध्यक्षस्यापि तत्प्रसङ्गः; तस्याप्यर्थादनुत्पत्तेः प्रतिपादयिष्यमाणत्वात् / अवस्तुविषयत्वञ्च अस्यासिद्धम् , प्रत्यक्षवत् सामान्यविशेषात्मकार्थगोचरत्वा• तस्य / नह्यवस्तुभूतापोहविषयमनुमानं सौगतवज्जैनैरिष्टम् ; तत्र तद्विषयत्वस्य प्रतिक्षेप्य॑मानत्वात् / धर्मिणि पक्षशब्दोपचारतोऽपि नास्य गौणत्वसिद्धिः; सक्षेपतः शब्दरचनार्थत्वात्तदुप- 20 1 “अथ अस्पष्टस्वरूपत्वात् स्वार्थनिश्चये परापेक्षत्वात् प्रत्यक्षपूर्वकत्वात् अर्थादनुपजायमानत्वात् अवस्तुविषयत्वात् , बाध्यमानत्वाद् , साध्यसासाधनयोः प्रतिबन्धसाधकप्रमाणाभावाद्वा तस्य अप्रामाण्यमुच्यते।" स्या० रत्ना० पृ. 266 / 2 “यथैव हि प्रत्यक्षं साक्षात् स्वार्थपरिच्छित्तौ नानुमानाद्यपेक्षं तथा अनुमानम् अनुमेयनिर्णीतौ न प्रत्यक्षापेक्षम् उत्प्रेक्षते / " प्रमाणप० पृ. 64 / स्या. रत्ना० पृ० 266 / 3 “ऊहाख्यप्रमाणपूर्वकत्वाचास्य अध्यक्षपूर्वकत्वम् असिद्धम् / " प्रमेयक० पृ० 46 पू० / स्या. रत्ना. पृ. 267 / 4 “किश्च, प्रत्यक्षपूर्वकत्वेन अनुमानस्याप्रामाण्ये प्रत्यक्षस्यापि कस्यचिदनुमानपूर्वकत्वेन अप्रामाण्यानुषङ्गः" / स्या. रत्ना० पृ. 267 / प्रमेयक. पृ० 46 पू० / “प्रत्यक्षवत् सामान्यविशेषात्मकार्थगोचरत्वात्तस्य / " स्या० रत्ना० पृ० 267 / प्रमेयक० पृ० 45 उ० / 5 तद्विषयस्य आ०, भां० / 6 प्रतिसेत्स्यमा-ब० ज० / 7 “पक्षधादिपदानि यदि नाम व्याख्यातृभिः गौणानि प्रयुक्तानि किमेतावता प्रमाणं गौणीभवेत् ? शब्दान्तरेण हि तल्लक्षणाभिधाने न कश्चिद् गौणतादिप्रमादः / " न्यायमं० 10 123 / पृ० 67 पं० 16 /