________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः / वास्तवं हि न सामान्य नाम किञ्चन विद्यते॥७॥ भूयोदर्शनगम्यापि न व्याप्तिरवकल्पते / सहस्रशोऽपि तदृष्टौ व्यभिचारावधारणात् // 8 // बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः / देशकालादिभेदेन दृश्यते पुनरन्यथा // 9 // भूयोदृष्टयौ च धूमोऽग्निसहचारीति गम्यताम् / अनग्नौ तु स नास्तीति न भूयोदर्शनाद्गतिः१०॥ 5 न चाप्यदृष्टिमात्रेण गमकः सहचारिणः / तत्रै नियतत्वं हि तदन्याऽभावपूर्वकम् // 11 // नियमेश्चानुमाङ्गत्वं गृहीतः प्रतिपद्यते / ग्रहणञ्चास्य नान्यत्र नास्तितानिश्चयं विना // 12 // दर्शनाऽदर्शनाभ्यां तु नियमग्रहणं यदि / तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम् // 13 // अनग्निश्च कियान् सर्व जगज्ज्वलनवर्जितम् / तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः१४ तदेवं नियमाभावात् सत्यपि ज्ञप्त्यसंभवात् / अनुमानप्रमाणत्वदुराशा परिमुच्यताम् // 15 // 10 अनुमानविरोधो वा यदि वेष्टविघातकृत् / विरुद्धाव्यभिचारी वा सर्वत्र सुलभोदयः // 16 // अत एवानुमानानामपश्यन्तः प्रमाणताम् / तद्विस्रम्भनिषेधार्थमिदमाहुर्मनीषिणः // 17 // प्रत्यक्षमेव प्रमाणमगौणत्वादिति / " [ ] अत्र प्रतिविधीयते / यत्तावदुक्तम्-'प्रत्यक्षमेव प्रमाणम्' इत्यादि; तदसमीक्षिताभिधा ___ नम्; यतोऽविसंवादकत्वं प्रमाणस्य लक्षणम् , तस्य च अनुमानादौ 15 तत्प्रतिविधानम्- विद्यमानत्वात् कथं प्रत्यक्षमेव प्रमाणम्' इत्यवधारणं घटते ? तथाहि अनुमानं प्रमाणम् अविसंवादकत्वात् प्रत्यक्षवत् / न खलु प्रत्यक्षेऽविसंवादकत्वादन्यतः प्रामाण्यं प्रसिद्धम, एतच्चान्यत्राप्यविशिष्टम अनुमानादिनाप्यवगतेऽथे विसंवादाऽसम्भवात् / 1 'तदृष्टे' न्यायमं० पृ. 119 / 'न दृष्टौ / स्या. रत्ना० पृ० 264 / 2 ‘दृष्ट्वा' न्यायमं० पृ० 119 / 3 'नचापि दृष्टिमात्रेण ' न्यायमं० पृ० 116 / 4 तत्रैवं ब०, ज० / 5 'नियमस्यानुमाङ्गत्वं गृहीत्वा प्रतिपद्यते / स्या. रत्ना० पृ. 264 / 'नियमश्चानुमानाङ्ग' न्यायमं० पृ० 120 / नियतश्चा-भां०। 6 'अनाग्ने च क्रिया सर्वम् ' स्या. रत्ना० पृ. 264 / 7 ‘सति वा' न्यायमं० पृ० 120 / 8 क्लप्त्यसंभवात् ज० / 9 यदिचेष्ट-ब०, ज०, न्यायमं० पृ० 120 / 10 विरुद्धाव्यभिचारस्तु' स्या० रत्ना० पृ० 264 / 'विरुद्धाव्यभिचारो वा' न्यायमं० पृ० 120 / 11 एताः सप्तदशापि कारिकाः न्यायमचर्या (पृ० 119, 120 ) अपिच' इति कृत्वा, स्याद्वादरत्नाकरे तु (पृ० 263, 264) द्वितीयाम् अन्तिमाञ्च कारिकां मुक्त्वा समुद्धृताः / 12 “नहि प्रत्यक्षेपि तत्प्रमाणवादिना अन्यत् प्रामाण्यव्यवस्थानिवन्धनं शक्यमादर्शयितुम् अन्यत्र अविसंवादात् / " तत्त्वसं० पं० पृ० 428 / 13 अनुमानेऽपि / * पृ. 67 पं० 16 /