________________ 69 लघी० // 3] प्रत्यक्षैकप्रमाणवादः व्यक्त यन्तरेऽप्यस्य सम्भवात्। व्यक्तिमात्रप्रतीतौ च इष्टव्यक्तिप्रतीत्यर्थ पुनयनान्तरं कर्त्तव्यम् , तत्रापि च अयमेव पर्यनुयोगः इत्यनवस्था / विशेषरूपस्य च साध्यत्वे अनन्वय एव हेतुः, नद्यत्रत्येदानीन्तनेन खादिरादिस्वभावेन चाग्निना 'अग्निमान् पर्वतो धूमवत्वात् ' इत्यादौ विशेषे साध्ये हेतोरन्वयो घटते, महानसादौ तथाविधसाध्येन धूमादेर्व्याप्त्यप्रतीतेः / अनुमानविरोधस्य इष्टविघातकृतो विरुद्धाव्यभिचारिणो वा सर्वत्रानुमाने सम्भाव्यमानत्वाच्च न विशेषस्यापि साध्य- 5 त्वम् / तन्न धर्मोपि साध्यः / नापि तत्समुदायः; तस्याप्यन्यत्रानन्वयात् , नहि 'यत्र यत्र धूमः तत्र तत्र अग्निमान् पर्वतः' इत्यन्वयः प्रतीतः / तदुक्तम्""विशेषेऽनुगमाऽभावात् सामान्ये सिद्धसाधनात् / तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः॥१॥ साहचर्ये च सम्बन्धे विश्रम्भ इति मुग्धता / शतकृत्वोऽपि तदृष्टौ व्यभिचारस्य संभवात् // 2 // देशकालदशाभेदविचित्रात्मसु वस्तुषु / अविनाभावनियमो न शैक्यो लब्धुमञ्जसा // 3 // 10 भवनप्यविनाभावः परिच्छेत्तुं न शक्यते / जगत्त्रयगताशेषपदार्थालोचनाद्विना // 4 // न प्रत्यक्षीकृता यावद्भूमाग्निव्यक्तयोऽखिलाः। तावत्स्यादपि धूमोऽसौ योऽनग्नेरिति शङ्कयते५ ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादृशः / किं दिव्यचक्षुषां तेषामनमाने प्रयोजनम् // 6 // १-छत्रेदानी-आ०, ब०, ज० / 2 " अनुमानविरोधस्य विरुद्धानाञ्च साधने / सर्वत्र सम्भवात् किञ्च विरुद्धाव्यभिचारिणः // 1459 // " तत्त्वसं० / “मूलानुमानविषयापहारेण अनुमानविरोधस्य विशेषविरुद्धापराभिधानस्य इष्टविघातकृतः सन्देहहेतोः विरुद्धाव्यभिचारिणो वा सर्वत्रानुमाने सम्भाव्यमानत्वाच दुष्प्रापं प्रामाण्यम् / " स्या. रत्ना० पृ. 263 / " इष्टस्य शब्देनाऽनुपात्तस्य विघातं करोति विपर्ययसाधनात् इति इष्टविघातकृत्" न्यायबि० पृ.१०३ / 3 "हेतोर्यदात्मीयं लक्षणं तयुक्तयोहत्वोः एकत्र धर्मिणि विरोधिनः परस्परविरुद्धसाध्यसाधकत्वेन उपनिपाते सति विरुद्धाऽव्यभिचारी इति विरुद्धाऽव्यभिचारिणो लक्षणम् / " हेतुबिन्दुटी० पृ. 204 / “विरुद्धाव्यभिचारी यथा-अनित्यः शब्दः कृतकत्वात् घटवत्, नित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति, उभयोः संशयहेतुत्वात् द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव / " न्यायप्र० पृ० 4 / “हेत्वन्तरसाधितस्य विरुद्धं यत् तन्न व्यभिचरति स विरुद्धाव्यभिचारी। यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य विरुद्धसाधनात् , अव्यभिचारी च स्वसाध्याव्यभिचारात् विरुद्धाव्यभिचारी।" न्यायबि० पृ० 111 / 4 “धर्मविशिष्टे धर्मिणि साध्ये तदुभयमघटमानमेव नाग्निविशिष्टधराधरधर्मतया धूमः प्रथम (1) उपलब्धुं शक्यते / न चाप्येवमन्वयः-यत्र धूमः तत्र अग्निमान् पर्वत इति / " न्यायमं० पृ० 118 / 5 न्यायमं० पृ० 109, स्या० रत्ना पृ० 263 / 'सामान्य सिद्धसाध्यता' प्रकरणपं० पृ० 71 / 'विशेषेऽनुगमाभावः सामान्य सिद्धसाधनम् / तत्त्वोप० पृ० 88, प्रमेयक० पृ० 45 उ०, सन्मति० टी० पृ० 554 / प्रमेयकमलामार्तण्डस्य टिप्पण्या (पृ० 45 उ० नं० 20 ) तु "नानुमानं प्रमाणं स्यात् निश्चयाभावतस्ततः। एतद्रपेण उत्तरार्द्धस्य पूर्तिः दृश्यते / “यथाहः-विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता, / अनुमानभङ्गपङ्केऽस्मिन्निममा वादिदन्तिनः // " शास्त्रदी० पृ. 63 / “विशेषेऽनुगमाभावः सामान्य सिद्धसाध्यता / इत्यादिदोषदुष्टत्वात् न च नोऽनुमितिः प्रमा // 144 // " बृहदा० वा० पृ० 1401 / 6 न शक्यो वस्तुमाह च' न्यायमं० पृ. 119 / ७'तेषामनुमानप्रयोजनम् ' न्यायमं० पृ० 119 /