________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० गमकः स्यात् ? न तावदसम्बद्धस्य; अतिप्रसङ्गात् / अथ सम्बद्धस्य; कुतस्तत्सम्बन्धसिद्धिःप्रत्यक्षात् , अनुमानाद्वा ? न तावत्प्रत्यक्षात् ; अस्य नियतदेशकालाऽऽकारगोचरचारितया सार्व- . त्रिकसम्बन्धग्रहणे सामर्थ्याऽभावात् / नाप्यनुमानात् ; अनवस्थाप्रसङ्गात् , तदेपि हि सम्बन्ध ग्रहणे सति प्रवर्तते / किञ्च, अवस्था-देश-कालभेदेन भिन्नार्थक्रियाकारिणां भिन्नसामर्थ्यानां 5 चार्थानां न साकल्येन स्वभावप्रतिबन्धोऽवधारयितुं शक्यः, सहस्रशोऽप्यामलिक्यादेः कषायरसे समुपलभ्यमानेऽपि क्षीराद्यवसेकेन माधुर्यस्याप्युपलम्भात् / तदुक्तम् “अवस्थादेशकालोदिभेदाभिन्नासु शक्तिषु / भावानामनुमानेन प्रतीतिरतिदुर्लभा // " [ वाक्यप० 1 / 32 ] इति / न च साध्ये सत्येव साधनस्योपलम्भात् तदभावेऽनुपलम्भात् तत्सम्बन्धसिद्धिः तदनुपलम्भ१० स्यातिदूरासन्नत्वादौ प्रमातुरशक्तत्वे करणस्याऽसामर्थ्य प्रमेयाऽभावे च संभवात् / यत्र हि अनग्नौ धूमो न दृश्यते तत्र प्रमातुः शक्त्यभावः, करणस्य सामर्थ्यविरहः, विषयस्याभावो वाऽनुपलम्भे कारणमिति / उक्तञ्च “यत्नेनानुमिताप्यर्थः कुशलैरनुमातृभिः / अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते // " [वाक्यप० 1 / 34] 15 किञ्च, अनुमानस्य धर्मी, धर्मः, तत्समुदायो वा साध्यः स्यात् ? तत्राद्यपक्षोऽनुप पन्नः; धुर्मिणोऽध्यक्षसिद्धत्वेन साधनानर्थक्यप्रसङ्गात् , हेतोरनन्वयत्वानुषङ्गाच्च ; न खलु 'यत्र यत्र धूमः तत्र तत्र पर्वतः' इत्यन्वयोऽस्ति / द्वितीयपक्षेऽपि धर्मः सामान्यरूपः, विशेषरूपो वा साध्यः स्यात् ? तत्र सामान्यरूपे सिद्धसाधनम् , अग्निमात्रे कस्यचिद् विप्रतिपत्त्यभावात् ? नच तत्प्रतीतौ किञ्चित्प्रयोजनम् , नहि अग्नित्वं दाहपाकादौ गोत्वं' 20 वा वाहदोहादावुपयुज्यमानं प्रतीतम्। किञ्च, सामान्यात्प्रतीतात् प्रवर्तमानः कथं नियत दिगभिमुखमेव अवश्यं प्रवर्तेत ? नहि सामान्यं नियतदिक्कं व्यापित्वाभावप्रसङ्गात् / अथ सामान्यस्य व्यक्तिं विनाऽनुपपत्तेः, प्रतीते तस्मिन् अन्यथानुपपत्त्या व्यक्तिप्रतीते दिनियमेन प्रवृत्तिः / ननु किमभिमतया व्यक्तथा विना नोपपद्येत, व्यक्तिमात्रेण वा ? न तावदभिमतया; 1 अनुमानमपि २-कालानां भे-भां० , वाक्यपदीय / 3 व्यक्तिषु ब०, भा० / इयं कारिका तत्त्वसमहे (का० 1460) न्यायमअर्याञ्च (पृ० 119) प्रसिद्धिरतिदुर्लभा' इति कृत्वा उद्धृता,सन्मति० टी० पृ० 70, स्या० रत्ना० पृ० 262 इत्यादिषु च प्रकृतपाठेनैव / 4 स्यापिदरा-ब०, ज० ।५-वेऽपि सं-भां० / ६-मितोऽर्थः- आ०, ज० / -मितोऽर्थः स्यात् कु-ब०, भामती पृ० 367, न्यायमं० पृ. 120, तत्त्वसं० पृ. 426 / 7 "धर्मिणि साध्ये हेतोरनन्वयित्वम् , नहि यत्र धूमः तत्र पर्वतः इत्यन्वयः / " न्यायमं० पृ० 118 / “अपि च अनुमानस्य धर्मी, धर्मः, तत्समुदायो वा साध्यः स्यात् ?" स्या० रत्ना० पृ० 262 / ८-त्वं वाह-भां०।९प्रवर्तते ब०, ज० / १०-तीतिर्दि-भां० /