________________ लघी० 113] प्रत्यक्षकप्रमाणवादः यंत, तस्यैव तं प्रति साधकतमत्वात् , अन्यथा तदपेक्षानुपपत्तेः / न पुनस्तत्त्वज्ञानमात्रस्य सन्निकर्षादेर्वा तत् समयंत तदभावात् / तत्कारणत्वात्तस्यापि तत्समयेंत इति चेदत्राह'वस्तुबल' इत्यादि / वस्तुबलायातो विकल्पसामर्थ्यसिद्धोऽनुभवः, अनुभवहेतुश्च सन्निकर्षादिः, सन्निकर्षादिहेतुश्च विशिष्टाऽऽहार-देशादिः, तस्याप्यभावे विकल्पानुपपत्तेः / वस्तुबलायातं च तत् सनिकर्षाऽऽहारादिः तस्मादनुभवात् अर्थान्तरंच तस्यापि,न केवलमनुभवस्यैव तत्कारण- 5 त्वोपपत्तेः विकल्पजनकत्वोपपत्तेः / कथम् ? इत्याह-परम्परया। तथाहि-विशिष्टाहारदेशादेः सन्निकर्षः, ततोऽनुभवः, ततो विकल्प इति, अतस्तस्यापि तदुपपत्तेः प्रमाणता स्यात् / नचैवम् , अतः प्रकृतोपसंहारमाह-'तन्न' इत्यादि / यतएवं तत् तस्मात् नाज्ञानस्य प्रमाणता स्वपरयोः प्रमाणान्तरापेक्षणात् , अज्ञानमिव अज्ञानम् निर्विकल्पकदर्शनम् , साक्षात् सन्निकर्षादिर्वा, तस्य प्रमाणता न / किं सर्वथा सा तस्य न ? इत्यत्राह-अन्यत्रोपचारात् / मुख्यतो 10 नास्ति उपचारादस्ति इत्यर्थः / कस्य तर्हि मुख्यतः प्रमाणता ? इत्यत्राह- ज्ञानस्यैव इत्यादि / ज्ञानस्यैव नेतरस्य निर्विकल्पकदर्शनादेः / किं विशिष्टस्य ? विशदनि सिनः परमुखाऽ प्रेक्षितया स्वरस्वरूपयोः स्पष्टप्रतिभासस्य प्रत्यक्षत्वम् प्रत्यक्षप्रमाणता। इतरस्य अविशदनिर्भासिनः परोक्षता परोक्षप्रमाणता / ... ननु प्रत्यक्षव्यतिरिक्तस्य प्रमाणान्तरस्यैवाऽसंभवात् कस्य परोक्षरूपता प्ररूप्यते ? प्रत्यक्ष- 15 'प्रत्यक्षमवैकं प्रमाणम्, मेव हि प्रमाणम् अगौणत्वात् , नानुमानं तद्विपर्ययात् ; तथाहि-पक्षध इति चाकिमतस्योप- मत्वं हेतोः स्वरूपम् , पक्षश्च धर्मधर्मिसमुदायात्मा, तदनिश्चये कथं तद्ध• - पादनम् - मतायाः निश्चयः ? तन्निश्चये वा अनुमानवैयर्थ्यम् / अतोऽवश्यं पक्षधर्मव्यवहारसिद्धये तत्समुदाये रुढोऽपि पक्षशब्दस्तदेकदेशे धर्मिण्युपचरणीयः, अतः पक्षस्यापि गौणत्वं, हेतोरपि गौणत्वम् / यो हि धर्मिधर्मः स पक्षधर्म इत्युच्यते, अतो गौणरूपत्वात् गौण- 20 कारणजन्यत्वाद्वा गौणमनुमानम् / / किञ्च, अर्थनिश्चयात्मकं प्रमाणं भवति, अनुमानाच्च अर्थनिश्चयो दुर्लभः; तथाहि-प्रतीयमानादर्थादर्थान्तरप्रतीतिः अनुमानम् , प्रतीयमानश्वार्थोऽर्थान्तरस्य सम्बद्धस्य, असम्बद्धस्य वा . १-प्यभावो विकल्पोऽनु-ब०, ज० / 2 तत्करणतोप-ब०, ज० / तत्कारणतोप-भां० / 3 नैतस्य ब०, ज० / ४-ररूप-भां० / 5 " तथाचाहुः-प्रमाणस्य अगौणत्वाद् अनुमानादर्थनिश्चयो दुर्लभः" न्यायमं० पृ० 118 / तत्त्वार्थश्लो० पृ० 179 / सन्मति० टी० पृ० 554 / प्रमेयक० पृ० 45 उ० / स्या. रत्ना० पृ० 261 / 6 “तस्मादवश्यं पक्षधर्मान्वयव्यवहारसिद्धये धर्मविशिष्टे धर्मिणि रूढःपक्षशब्दः तदेकदेशे धर्मिणि गौण्या वृत्त्या वर्णनीयः / " न्यायमं० पृ. 119 / स्या. रत्ना. पृ० 261 / 7 यतो हि आ० / ८-निश्चायकं ब०, ज०, भां० / 9 “प्रतीयमानश्वार्थः अर्थान्तरे सम्बद्धस्तस्य गमको भवेत् , असम्बद्धो वा ?" स्या. रत्ना० पृ. 261 /