________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० दर्शनोपजनितरजतस्मरणारोपितरजताकारत्वाच्च परिगृहीतरजताकारेति / कथं रजताकारस्य प्रत्ययस्य शुक्तिकालम्बनत्वमतिप्रसङ्गात् ? इत्यप्यचोद्यम् ; अङ्गुल्यादिना हि कर्मतया निर्दिश्यमानं ज्ञानस्यालम्बनमुच्यते ,तच्च शुक्तावस्त्येव, कथमन्या तज्ज्ञानेन असौ अपेक्ष्यते ? सा हि अनेनावश्यमपेक्षणीया, अन्यथा तदसन्निधानेऽपि तज्ज्ञानोत्पत्तिः स्यात् / अपेक्षा च कारण५ त्वेन भवेत् , विषयत्वेन वा इति चिन्त्यम् ? न तावत् कारणत्वेन; आलोकाभाववत् शुक्त्य भावेऽपि रजतज्ञानानुत्पत्तिप्रसङ्गात् , तथा च सत्यरजतज्ञानाय दत्तो जलाञ्जलिः / अतः कारणत्वेन अत्रापेक्षाऽनुपपत्तेः विषयत्वेनैवासौ युक्ता / ननु यदि शुक्तिकाऽत्र रजताकारेण प्रतिभासते तदा रजतस्याविद्यमानत्वाद् असत्ख्यातिरियं स्यात् / तदसाम्प्रतम् ; सादृश्यस्य अत्राऽ पेक्ष्यमाणत्वात् / रजतसाधारणं हि शुक्लभास्वराकारमपेक्ष्य इदं विज्ञानमुत्पद्यते, असत्यातिस्तु 10 न सादृश्यमपेक्ष्योत्पद्यते, खे खपुष्पख्यातिवत् / तदेवं विपर्ययज्ञानस्य विपरीतख्यातिस्वरूपस्य अप्रामाण्यप्रसिद्धः सूक्तम्-'संशयविपर्ययकारण' इत्यादि / न केवलं संशयविपर्ययकारणज्ञानस्य भावाऽविरोधात् न वै ज्ञानमित्येव प्रमाणम् , किन्तु अकिश्चित्करस्य च क्षणक्षय-स्वर्गप्रापणसामर्थ्यादिज्ञानस्य विवृतिव्याख्यानम्- भावाऽविरोधात् , अन्यथा क्षणक्षयादिज्ञानस्यापि प्रामाण्यप्रस ङ्गात् तत्रानुमानमनर्थकं स्यात् / ननु तत्रं निश्चयाजनकत्वान्न तत्प्रमाणम् एतदेवाह-नहि इत्यादि / हि यस्मात् न तत्त्वस्य परमार्थस्य ज्ञानमित्येव यथार्थनिर्णयसाधनम् अपि तु किञ्चिदेव, तदेव च प्रमाणम् / तदुक्तम् - “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता"'' [ ] इत्यपरः-दिङ्नागादिः / अत्रोत्तरमाह-तेनापि इत्यादि / न केवलं तत्त्वज्ञानमात्रप्रामाण्यवादिना अपि तु तेनापि दिङ्नागादि२० नाऽपि उक्तदोषभयात् तत्त्वनिर्णय प्रति साधकतमस्यैव ज्ञानस्य निश्चयात्मनः प्रामाण्यं सम १-स्य शु-भां० / 2 “किन्तु इदमिति अङ्गुल्या निर्दिश्यमानं कर्मतया यज्ज्ञानस्य जनकं तदालम्बनम् इत्युच्यमाने न कश्चिद्दोषः / " न्यायमं० पृ० 185 / स्या० रत्ना० पृ० 138 / ३-ते एतच्च ब०,ज० / -ते एवं तच्च भा० / ४-था रजतज्ञानेन भां० / ५-ते अने-भां० / ६-पि ज्ञानोभा० / 7 " पुरोवस्थितं धर्मिमात्रं भास्वररूपादिसादृश्योपजनितरजतविशेषस्मरणमत्र प्रतिभाति इति ब्रमः / " न्यायमं० पृ. 185 / 8 "असख्यातिस्तु न त तुका खपुष्पज्ञानवत् / " प्रमेयक. पृ० 15 पू० / ९-विपर्यास-ब०, ज.। 10 क्षणक्षयादौ / 11 “अत्र अपरः सौगतः प्राह-'यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता' इति धर्मोत्तरस्य मतमेतत् / " सिद्धिवि० पृ० 91 उ० / तत्त्वार्थश्लो. पृ० 177, 200, 319 / प्रमेयक० पृ. 10 उ० / सन्मति० टी० पृ० 512 / स्या० रत्ना० पृ० 86 / शास्त्रवा० टी० पृ. 151 उ०। “यत्रैवांशे विकल्पं जनयति तत्रैवास्य प्रमाणता इति वचनात् / " न्यायाव० टी० पृ. 31 /