________________ लघी० 113] विपरीतख्यातिरूपस्य विपर्ययज्ञानस्य सिद्धिः अन्याकारायाः प्रतीतेः अन्यदालम्बनं युक्तम् अतिप्रसङ्गात् / शुक्तिकालम्बनत्वे चास्याः कथं भ्रान्तत्वं स्यादिति ? अत्र प्रतिविधीयते / यत्तावदुक्तम्-'किमालम्बनम्' इत्यादि, तत्रास्तु तावद् रजतमेवा लम्बनम्। नचैवमसत्ख्यातित्वप्रसङ्ग; देशान्तरादौ रजतस्य विद्यतत्परिहार: मानत्वात् / असत्ख्यातौ हि एकान्तेनाऽसतोऽर्थस्य प्रतिभासन- 5 मिष्यते, अत्र तु देशान्तरादौ सतः, इत्यनयोर्महान् विशेषः / ननु तत्रासतो रजतस्य चक्षुषाऽ सन्निकृष्टस्य कथमिदन्तया प्रतिभासः स्यात् ? इत्यप्यनुपपन्नम् ; अतद्देशकालस्याप्यस्य दोषवशात् सन्निहिततया प्रतिभासविषय॑तोपपत्तेः, अतएव तत्प्रतीतेविपरीतख्यातित्वम् / न चातद्देशकालस्यास्य ग्रहणे विश्वस्य ग्रहणप्रसङ्ग इत्यभिधातव्यम् ; सहशार्थदर्शनोद्भूतस्मृत्युपस्थापितस्यास्य प्रतिभासाभ्युपगमात् / नच विश्वस्य तदुपस्थापितत्वमस्ति, अतः कथं तद्ग्रह- 10 णाशङ्काऽपि ? तदुपस्थापनञ्च चेतसि परिस्फुरतोऽर्थस्य बहिरवभासनमुच्यते, न पुनः पशोरिव रज्वा नियन्त्रितस्योपढौकनम् / न चैतावतेयम् आत्मख्यातिः असख्यातिर्वा वक्तव्या; विज्ञानाद्विभिन्नस्यार्थस्य अत्रावभासनात् , अत्यन्ताऽसतोऽर्थस्य प्रतिभासाभावाच्च / ननु 'रजतमिदम्' इत्यादिज्ञानस्य प्रत्यक्षरूपतया स्मृत्यनपेक्षत्वात् कथं तदुपस्थापितार्थावभासित्वम् ? इत्यप्यसमीक्षिताभिधानम् ; प्रत्यक्षरूपत्वाऽभावात्तस्य, प्रत्यभिज्ञानस्वरूपं हि 15 तत् दृष्ट-दृश्यमानार्थसङ्कलनात्मकत्वात् ‘स एवायं देवदत्तः' इत्यादिज्ञानवत् / प्रत्यभिज्ञानयं च दर्शनस्मरणकारणकत्वात् युक्ता तदपेक्षा / न चास्य प्रत्यभिज्ञानत्वाभ्युपगमे अपसिद्धान्तप्रसङ्गः; 'वृक्षोऽयम्' इत्यादिज्ञानानां प्रत्यभिज्ञानत्वेन वक्ष्यमाणत्वात् / ततः स्थितं स्मृत्युपस्थापितं रजतमस्याः प्रतीतेरालम्बनमिति, नि[हितनिजाकारा परिगृहीतरजताकारा शुक्तिकैव वा ; त्रिकोणत्वादिविशेषग्रहणाभावाद्धि सा निगूहितनिजाकारा, चाकचिक्यादिसदृशधर्म- 20 1 "शुक्तिकाप्रतीतौ तु शुक्तिरेव न रजतम् अत्र भ्रमार्थः कः ?' न्यायमं० पृ० 177 / स्या. रत्ना० पृ० 137 // 2 “नन्वत्र चोदितम् असत्ख्यातिरेव सा भवेदिति; नैतत् साधु; देशान्तरादौ रजतस्य विद्यमानत्वात् / असत्ख्यातिपक्षे हि-तत्रैकान्तादसतोऽर्थस्य किं देशान्तरचिन्तया। किं कुर्मस्तादृशस्यैव वस्तुनः ख्यातिदर्शनात् // यस्तु देशान्तरेप्यों नास्ति कालान्तरेपि वा / न तस्य ग्रहणं दृष्टं गगनेन्दीवरादिवत् // " न्यायमं० पृ. 184 / स्या० रत्ना० पृ. 137 // ३-यत्वोपपत्तेः ब०, ज०। 4 रजतस्य 5 “उक्तमत्रसदृशपदार्थदर्शनोद्भुतस्मृत्युपस्थापितस्य रजतस्यात्र प्रतिभासनम् इति / नचास्य उपस्थापनं पशोरिव रज्वा संयम्य ढोकनम्, अपि तु हृदये परिस्फुरतोऽर्थस्य बहिरवभासनम् / नचैतावतेयम् आत्मख्याति रसख्यातिवी इति वक्तव्यम् ; विज्ञानाद्विच्छेदप्रतीतेः, अत्यन्तासदर्थप्रतिभासाभावाच इति / " न्यायमं० पृ० 184 / स्या. रत्ना० पृ० 138 / ६-स्य द-भां०। 7 “अतएव पिहितस्वाकारा परिगृहीतपराकारा शुक्तिकैव अत्र प्रतिभातीति भवतु पक्षः।" न्यायमं० पृ० 184 / स्या. रत्ना० पृ. 138 / 8 "त्रिकोणत्वादिविशेषग्रहणाभावाच्च निगृहितनिजाकारेत्युच्यते रजतविशेषस्मरणाच परिगृहीतरजताकारा इति / " न्यायमं० पृ० 185 / पृ. 64 पं० 17 /