________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० ___ अपरे अलौकिकार्थख्याति प्रतिपद्यन्ते / ते हि प्राहुः-यस्मादुक्तप्रकारेण ख्यात्यन्तराणि विचार्यमाणानि नोपपद्यन्ते तस्माद् अलौकिकस्यान्तर्बहिर्वाऽनिरूपित भ्रमस्थले अलौकिकार्थ कार्थ- स्वरूपस्यार्थस्य ख्यातिरभ्युपगन्तव्या इति / तदविचारितरमणीयम्; ख्यातिवादिनो निरास: ___ यतः किमिदम् अलौकिकत्वन्नाम अर्थस्य-किमन्यरूपत्वम, अन्य५ क्रियाकारित्वम् , अन्यकारणप्रभवत्वम् , अकारणप्रभवत्वं वा ? न तावद् अन्यरूपत्वम् ; यादृश मेव हि सत्यस्य रूपं प्रतिभाति तादृशमेव असत्यस्यापि, अन्यरूपावभासित्वे च विपरीतख्यातेरेव 'अलौकिकार्थख्यातिः' इति नाम कृतं स्यात् / नाप्यन्यक्रियाकारित्वम् अन्यस्य अन्यसाध्यक्रियाकारित्वे कारणान्तरपरिकल्पनानर्थक्यप्रसङ्गात् , एकस्मादेव कारणात् सकलकार्याणा मुत्पत्तेः / एतेन अन्यकारणप्रभवत्वपक्षोऽपि प्रत्युक्तः / अकारणप्रभवत्वेऽपि सद्रूपत्वम् , असद्र१० पत्वं वा अर्थस्य स्यात् ? सद्रूपत्वे नित्यत्वप्रसङ्गः, सतः कारणादनुत्पद्यमानस्याऽनित्यत्वानुप पत्तेः / अथ असद्रूपः; कथम् 'इदं रजतम्' इति विधिरूपतया तत्प्रतीतिः ? न खलु घटस्य असद्रूपत्वे 'अयं घटः' इति विधिरूपा प्रतीतिः स्वप्नेऽपि प्रतीयते / अथाऽसपस्याप्यर्थस्य कुतश्चिद् विभ्रमनिमित्तात् सद्रूपतया प्रतीतिः; तर्हि विपरीतार्थख्यातिरियम् नालौकिकार्थख्यातिः स्यात् / तन्नोऽलौकिकार्थख्यातिपक्षोऽपि क्षेमङ्करः / तदेवं शुक्तिकायां रजतज्ञाने परोपवर्णितख्यात्यन्तराणां विचार्यमाणानामनुपपत्तेः विपरीतख्यातिरेव अत्र प्रतिपत्तव्या। ननु विपरीतख्यातिरपि विचार्यमाणा नोपपद्यते / तथाहि-तस्याः किमालम्बनं रजतम् , शुक्तिका वा ? यदि रजतम् ; तदा असत्ख्यातिरियं स्यान्न विपरीतख्याती विपरीतख्यातिः असतस्तत्र रजतस्य प्रतिभासनात् / अथ अन्यदोषापादनम् देशकालं सदेव तत् तत्र प्रतिभाति अंतो न तद्दोषः ; तदयुक्तम् ; एवं सति 'इदं रजतम्' इत्युल्लेखेन ज्ञानानुत्पत्तिप्रसङ्गात् / नहि अतद्देशकाले रजते असन्निकृष्टे चाक्षुषं ज्ञानं भवितुमर्हति, अन्यथा सर्वत्र तदुत्पत्ति प्रसक्तेर्विश्वस्यापि तँद् ग्राहक स्यात्। तन्न अस्याः रजतमालम्बनम् / नापि शुक्तिका; रजताकारेण उत्पद्यमानत्वात, न च 1 “तत्र व्यवहारप्रवर्तकं लौकिकमुच्यते अन्यद् अलौकिकम् इति।” न्यायमं० पृ० 187 / "किम् अन्यस्वभावत्वमर्थस्य, अन्यार्थक्रियाकारित्वम् , अन्यकारणजन्यत्वम् , अकारणजन्यत्वं वा ? स्या० रत्ना० पृ. 135 / 2 'अकारणप्रभवत्वम् ' इति नास्ति भां० / 3 -रणत्व प्र-ब०, ज० / 4 अलौकिकार्थख्याते: समीक्षा-न्यायमं० पृ० 187 / प्रशस्त० कन्द० पृ. 181 / स्या. रत्ना० पृ० 135 / इत्यादिषु द्रष्टव्या / 5 “तत्र यदि रजतमालम्बनं तदियमसत्ख्यातिरेव न विपरीतख्यातिः असत. स्तत्र रजतस्य प्रतिभासात् / अथान्यदेशकालं तदस्त्येवेत्यभिधीयते / इहासन्निहितस्यास्य तेन सत्त्वेन कोगणः " न्यायमं० पृ० 176 / “कलधौतश्चेत् नन्वेवमसख्यातिरेषा भवेत् न पुनर्विपरीतख्यातिः असतः कलधौतस्य प्रतीतेः / " स्या० रत्ना० पृ० 136 / 6 अतोऽयमदोषः भां० / 7 चाक्षुषं ज्ञानं /