________________ लघी० 1 / 3 ]. विपर्ययज्ञाने अनिर्वचनीयार्थख्यातिवादः ज्ञानस्य बाह्यार्थविषयत्वन्नेष्यते तर्हि यावद् रजताकारोल्लेखेन तद्भवति तावन्नीलाद्याकारोल्लेखेनापि कस्मान्न भवति नियामकाऽभावात् ? अथ अनाद्यविद्यावासनैव तन्नियामिका ; कथमेवं देशादिनियमेन तज्ज्ञानोत्पत्तिः स्यात् ? अथ अविद्यायाः इदमेव माहात्म्यम्-यदसन्तमपि देशादिनियमं ज्ञाने दर्शयति इति चेत् ; नैवम् ; असत्ख्यातित्वप्रसङ्गात् ? कथञ्चात्मख्यातिवादिनः छेदाऽभिवातादिप्रतीतिः स्यात् , स्वरूपमात्रसंवित्तौ तदसंभवात् ? न खलु विज्ञानस्वरू- 5 पस्य सुखादेः संवित्तौ तत्प्रतीतिर्दृष्टा / तन्न आत्मख्यातिपक्षोऽप्युपपन्नः। केचित् पुनरनिर्वचनीयार्थख्यातिमत्र उररीकुर्वन्ति / तथाहि-शुक्तिकादौ रजताद्याकारः विपर्ययज्ञाने अनिर्वचनीयार्थ- प्रतिभासमानः सैन् स्यात् , असन् , उभयरूपो वा ? न तावत् ख्याति प्रतिपद्यमानस्थ सन् ;उत्तरकालं बाधकानुत्पत्तिसङ्गतस्तबुद्धेरभ्रान्तत्वप्रसक्तेः। ब्रह्माद्वैतवादिनः प्रतिविधानम्-नाप्यसन ; आकाशकुशेशयवत् प्रतिभासाभावप्रसङ्गात् / नापि 10 सदसद्रूपः ; उभयदोषानुषङ्गात् , सदसतोरैकात्म्यविरोधाच्च / तस्मादयं बुद्धिसन्दर्शितोऽर्थः सत्त्वेनासत्त्वेनोभयधर्मेण वा निर्वक्तुं न शक्यत इत्यनिर्वचनीयार्थख्याति: ; तदसमीक्षिताभिधानम् ; प्रतिभासमानस्यानिर्वचनीयख्यातित्वविरोधात् ; ताहि- ख्यातिः' इति किमयं 'ख्या प्रकथने' इत्यस्य प्रयोगः, 'ख्या प्रथने' इत्यस्य वा ? उभयत्र सतोऽसतश्च वचनीयता प्रतिभास्यता च घटत एव / सँन् खलु सत्त्वेनावग्रहीतुं वक्तुञ्च यात्येव, अन्यथा घटादीनामपि 15 अनिर्वचनीयत्वप्रसङ्गः / असच्चाऽसत्त्वेन; अन्यथा घटोद्यभावस्यापि अनिर्वचनीयतानुषङ्गः / यदि चानिर्वचनीयताऽङ्गीक्रियते तदा 'इदं रजतम्' इति ज्ञानस्य व्यपदेशस्य चानुत्पत्तिरेव स्यात् / सदेव हि पूर्वदृष्टं रजतं देशादिव्यवहितमपि सादृश्यवशात्तत्र प्रतिभाति, तस्मात् 'इदं तत्' इत्युल्लेख एव वचनीयता, तदनुल्लेख एव अवचनीयतेति / तन्न "अनिर्वचनीयार्थख्यातिपक्षोऽप्युपपन्नः। 1 आत्मख्यातेः प्रकारान्तरेण प्रतिविधानम्-न्यायवा० ता० टी० पृ० 85 / भामती पृ० 14 / न्यायमं० पृ० 178 / विवरणप्र० सं० पृ० 34 / सर्वद० सं० द. 16 पं० 600 / प्रमेयक० पृ. 14 पू- / स्या० रत्ना० पृ० 128 / इत्यादिषु द्रष्टव्यम् / 2 सन् असन् आ० / ३-प्रसङ्गात त-भां० / ४-द्धिदर्शि-आ० / 5 " तत्किं मरीचिषु तोयनिर्भासप्रत्ययः तत्त्वगोचरः तथा च समीचीन इति न भ्रान्तो नापि बाध्येत / अद्धा न बाध्येत यदि मरीची न तोयात्मतत्त्वा न तोयात्मना गृह्णीयात् / तोयात्मना तु गृह्णन् कथमभ्रान्तः कथं वाऽबाध्यः / हन्त तोयाभावात्मनां मरीचीनां तोयभावात्मत्वं तावन्न सत् ; तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः। नाप्यसत् ;वस्वन्तरमेव वस्त्वन्तरस्य असत्त्वमास्थीयते'... 'तस्मान्न सत् / नापि सदसत् ; परस्परविरोधात् इत्यनिर्वाच्यमेव आरोपणीयं मरीचिषु तोयमास्थेयम् / " भामती पृ० 13 / “प्रत्येक सदसत्त्वाभ्यां विचारपदवी न यत् / गाहते तदनिर्वाच्यमाहुर्वेदान्तवादिनः // " चित्सुखी पृ० 79 / 6 “अपि च अनिर्वचनीयार्थख्यातिः इत्यत्र ख्यातिरिति किमयं ‘ख्या प्रकथने' इत्यस्य प्रयोगः ‘ख्या प्रथने' इत्यस्य वा ?" स्या. रत्ना० पृ० 133 / 7. स खलु ब०, ज० / 8 वक्तुं या-भां० / 9 घटास्वभा-ज० / १०-वस्य निव-भां० / 11 अनिर्वचनीयख्यातिवादस्य आलोचना-न्यायवा० ता० टी० पृ० 87 / प्रमेयक० पृ. 14 उ० / स्यारत्ना० पृ० 133 अन्येषु च द्वैतवादिग्रन्थेषु द्रष्टव्या /