________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० अन्ये च आत्मख्यातिं मन्यन्ते / तथाहि-शुक्तिकायाम् 'इदं रजतम्' इति रजतं प्रतिविपर्ययज्ञाने अात्मख्याति- भासते, तस्य च बाह्यस्य बाधकप्रत्ययात् प्रतिभासो नोपपद्यते / न वादिनो योगाचारस्य खलु 'यथैव प्रतिभासते तथैवार्थः' इत्यभ्युपगन्तुं युक्तम् ; भ्रान्तत्वा खण्डनम्- ऽभावप्रसङ्गात् / अतः ज्ञानस्यैवायमाकारोऽनाद्यविद्यावासनासाम५ वा॑द् बहिरिव प्रतिभासते इत्यात्मख्यातिः; तदसमीचीनम् ; यतः स्वरूपमात्रसंविन्निष्टत्वे अर्था कारधारित्वे च सिद्धे ज्ञानस्य आत्मख्यातिः सिद्ध्येत, न च तत्सिद्धम् ; उत्तरत्र 'उभयस्यास्य निराकरिष्यमाणत्वात् / स्वाकारमात्रग्राहित्वे च अखिलज्ञानानां भ्रान्ताऽभ्रान्तविवेकः बाध्यबाधकमावश्च न प्राप्नोति, तत्र कस्यचिदपि व्यभिचाराऽभावात् / स्वात्मस्वरूपतया रजताद्या कारस्य संवेदने च 'अहं रजतम्' इति स्वात्मनिष्ठतयैव संवित्तिः स्यात् , नतु 'इदं रजतम्' 10 इति बहिर्निष्ठतया। यत् स्वात्मरूपतया संवेद्यते न तत्र वहिनिष्ठतया संवित्तिः यथा विज्ञान स्वरूपे, स्वात्मरूपतया संवेद्यते च आत्मख्यातिवादिमते रजताद्याकार इति / अथ अनाद्यविद्यावासनावशाद् बहिर्निष्ठत्वेनाऽसौ प्रतीयते; कथमेवं विपरीतख्यातिरेवेयं न स्यात् , ज्ञानादभिन्नस्य रजताद्याकारस्य अन्यथाऽध्यवसायात् ? किर्च, विज्ञानाद्वैते ब्रह्माद्वैते वा इयमात्मख्यातिः स्यात् / तत्र द्विविधेऽप्यद्वये द्वयदर्शन१५ निबन्धनो कथं भ्रान्तिः स्यात् ? अनाद्यविद्योपपप्लवादिति चेत् ; ननु तत्रापि किं स्वरूपं प्रति भाति, अन्यरूपं वा ? यदि स्वरूपम् ; कथं भ्रान्तिः ? अथ अन्यरूपम् ; कथमात्मख्याति: ? अथ आत्मरूपस्यैव भ्रान्तिवशादन्यरूपत्वेनाऽवभासनम् ; नन्विदमितरतराश्रयत्वम् , तथाहिअन्यरूपावभासनाद् बुद्धन्तित्वसिद्धिः, तत्सिद्धेश्च अन्यरूपावभासनसिद्धिरिति / "यदि च 1 "विज्ञानमेव खल्वेतद् गृह्णात्यात्मानमात्मना / बहिर्निरूप्यमाणस्य ग्राह्यस्याऽनुपपत्तितः // बुद्धिः प्रकाशमाना च तेन तेनात्मना बहिः / तद्वहत्यर्थशून्यापि लोकयात्रामिहेदृशीम् // " न्यायमं० पृ. 178 / 2 उभयस्य नि-भां० / 3 “सर्वज्ञानानां स्वाकारग्राहित्वे च भ्रान्ताभ्रान्तविवेको बाध्यबाधकभावश्च न प्राप्नोति तत्र व्यभिचाराभावाऽविशेषात् / " प्रमेयक. पृ० 14 पू० / स्या. रत्ना० पृ० 129 / 4 स्वात्मरूपतया ब०, ज०, भां० / “विज्ञानात्मनो हि प्रतिभासे 'अहं रजतम्' इति प्रतीतिः स्यात् न 'इदं रजतम् / इति / " न्यायमं० पृ० 178 / “स हि इदमनहङ्कारास्पदं रजतमादर्शयति न च आन्तरम् , अहम् इति हि तदा स्यात् प्रतिपत्तुः प्रत्ययादव्यतिरेकात् / " न्यायवा० ता० टी० पृ० 85 / भामती पृ० 14 / 5 “किञ्च, यदन्त यरूपं हि बहिर्वदवभासते इत्यभ्युपगमाद् इयमपि विपरीतख्यातिरेव स्यात् / असत्ख्यातिरपि चेयं भवत्येव बहिः बुद्धरसत्त्वात् / " न्यायमं० पृ० 178 / प्रमेयक० पृ० 14 पू० / स्या. रत्ना० पृ. 129 / 6 रजताद्याकारः / 7 बहिर्निष्टतया / 8 किञ्च ब्रह्मा-आ०, ब०, ज० / ९-न्धनता क-आ०, ब०, ज० / 10 “यदि च ज्ञानस्य बाह्यार्थविषयत्वं नेष्यते तर्हि यथा रजताकारोल्लेखेन तत् प्रवर्तते तथा नीलाद्याकारोल्लेखेनापि किमिति न प्रवर्त्तते नियामकस्य अभावात् ?" स्या० रत्ना० पृ० 130 /