________________ लघी० 1 / 3] विपर्ययज्ञाने प्रसिद्धार्थख्यातिवादः 'असत्, प्रतिभाति च' इति / प्रतिभासमानत्वमेव हि सत्त्वं पदार्थानाम्। नहि सर्वथाऽसन्तः शशविषाणादयः स्वप्नेऽपि प्रतिभासन्ते / भ्रान्तिवैचित्र्याभावप्रसङ्गश्च तन्निबन्धनाऽभावात्, नहि असत्ख्यातिवादिनो ज्ञानगतमर्थगतं वा वैचित्र्यमस्ति यन्निबन्धनाऽनेकप्रकारा भ्रान्तिः स्यात् / यदप्युक्तम्-'अर्थक्रियाकारित्वाभावात् ' इति / तत्रापि किं ज्ञानसाध्यार्थक्रियाकारित्वाभावोऽभिप्रेतः, ज्ञेयसाध्यार्थक्रियाकारित्वाऽभावो वा ? तत्राद्यपक्षे ज्ञानधर्मतयैवास्य सत्त्वमनुपपन्नम्, 5 न पुनः सर्वथा / नहि अन्यस्य अन्यसाध्यार्थक्रियाकारित्वाभावादसत्त्वम् ; घटस्यापि पटसाध्यामर्थक्रियामकुर्वतोऽसत्त्वप्रसङ्गात् / द्वितीयपक्षस्त्वयुक्तः ; जलहेतोरभिलाषप्रवृत्त्याद्यर्थक्रियाकारित्वस्य तत्र संभवात्। कथमेवमस्य भ्रान्तता इति चेत् ? स्नानाद्यर्थक्रियाकारित्वाऽभावात् / द्विविधा हि अर्थक्रिया-अर्थमात्रनिबन्धना, सत्यार्थनिबन्धना चेति / तत्र अभिलाषादिरूपा अर्थमात्रनिबन्धना / स्नानादिरूपा तु सत्यार्थनिबन्धना / अतः तत्कारिण एवार्थस्य ग्राहकं 10 ज्ञानमभ्रान्तं नान्यत् / ततः असत्ख्यातिपक्षोऽनुपपन्न एव / अन्ये तु प्रसिद्धार्थख्याति प्रतिपन्नाः। तथाहि-प्रतीतिसिद्ध एवार्थो विपर्ययज्ञाने प्रतिभाति / विपर्ययज्ञाने प्रसिद्धार्थख्याति- न चास्य विचार्यमाणस्य असत्त्वं वाच्यम् ; प्रतीतिव्यतिरेकेण अपवादिनः सांख्यस्य रस्य विचारस्यैवासंभवात् / प्रतीति (त्य ) बाधितत्वाच्च, न च पर्यालोचनम्- तत्प्रसिद्धऽर्थे विचारो युक्तः, करतलगताऽऽमलकादेरपि हि प्रतिभास- 15 बलेनैव सत्त्वम् , स च प्रतिभासोन्यत्राप्यविशिष्टः। अथ मरीचिकाचक्रादौ जलाद्यर्थस्य प्रतिभातस्य तद्देशोपसर्पणे सति उत्तरकालं प्रतिभासाभावादसत्त्वम् ; तयुक्तम् / यतो यद्यपि उत्तरकालं सोऽर्थो न प्रतिभाति, तथापि यदा प्रतिभाति तदा तावदस्त्येव, अन्यथा विद्युदादेरपि * स्वप्रतिभासकाले सत्त्वसिद्धिर्न स्यात् / तस्मात् प्रसिद्धार्थख्यातिरेवेयमिति; तदविचारितरमणीयम् ; भ्रान्ताऽभ्रान्तप्रतीतिव्यवहारवार्तोंच्छेदप्रसङ्गात् / न खलु यथावस्थितार्थग्राहित्वाऽ- 20 विशेषे 'काचित्प्रतीतिर्धान्ता काचिच्चाऽभ्रान्ता' इति निर्निबन्धना व्यवस्थितियुक्ता; स्वेच्छाकारित्वप्रसक्तेः / किञ्च, उत्तरकालमुदकादेरभावेऽपि तच्चिह्नस्य भूस्निग्धतादेरुपलम्भः स्यात् / नहि विद्युदादिवद् उदकादेरपि आशुभावी निरन्वयो विनाशः कचिदुपलभ्यते / तन्न प्रसिद्धार्थख्यातिपक्षोऽपि श्रेयान् / 1 “भ्रान्तिवैचित्र्याभावप्रसङ्गश्च; नहि असत्ख्यातिवादिनोऽर्थगतं ज्ञानगतं वा वैचित्र्यमस्ति येन अनेकप्रकारा भ्रान्तिः स्यात् / " प्रमेयक. पृ० 14 पू० / 2 पृ. 60 पं० 18 / 3" द्विविधाहि अर्थक्रियाअर्थमात्रनिबन्धना, अर्थविशेषनिबन्धना च / " स्या. रत्ना० पृ. 126 / 4 असत्ख्यातेः प्रतिविधानम्न्यायवा० ता० टी० पृ. 86 / न्यायमं० पृ. 177 / प्रमेयक० पृ० 14 पू० / स्या० रत्ना० पृ. 125 / इत्यादिषु द्रष्टव्यम् / 5 “नचास्य विचार्यमाणस्य असत्त्वं विचारस्य प्रतीतिव्यतिरेकेण अन्यस्य असंभवात् , प्रतीत्यबाधितत्वाच्च , करतलादेरपि हि प्रतिमासबलेनैव सत्त्वम् / " प्रमेयक० पृ० 14 पू० / स्या० रत्ना० पृ०१२६ / 6 न तत्प्र-ब०, ज०, भां०।७ प्रसिद्धार्थख्यातेः मीमांसा प्रमेयक० मार्तण्डे (पृ. 14 पू० ) स्या. रत्नाकरे च (पृ. 126 ) अवलोकनीया /