________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० च प्रत्ययानां साधकबाधकप्रमाणसद्भावात् सुप्रसिद्धेति / एतच्च विस्तरतो बाह्यार्थसिद्धिप्रघट्टके प्रतिपादयिष्यते इत्यलमतिप्रसङ्गेन / तदेवं' विवेकाख्यातिपक्षस्य विचार्यमाणस्य सर्वथानुपपत्ते त्राग्रहः प्रेक्षादक्षैः कर्तव्य इति / अपरे अख्यातिं मन्यन्ते / तथाहि-'इदं रजतम्' इति ज्ञाने रजतसत्ता विषयभूता तावविपर्ययज्ञानेऽख्याति- नास्ति; अभ्रान्तत्वानुषङ्गात् / रजताभावोऽपि न तदालम्बनम् ; वादिनश्चार्वाकस्य तद्विधिपरत्वेनास्य प्रवृत्तेः / अत एव शुक्तिशकलमपि न तदाल प्रतिविधानम्- म्बनम् / रजताकारेण शुक्तिशकलमालम्बनमित्यप्ययुक्तम् ; अन्यस्य अन्याकारेण ग्रहणाऽप्रतीतेः, न खलु घटाकारेण पटस्य ग्रहणं प्रतीतम् / अतो न किञ्चि दत्र ज्ञाने ख्याति इति सिद्धा अख्यातिः; तदसमीक्षिताभिधानम् ; विशेषतो व्यपदेशाभावप्रस१० ङ्गात् , यत्र हि न किञ्चिदपि प्रतिभाति तत्केन विशेषेण रजतज्ञानमन्यद्वा व्यपदिश्येत ? का चेयमख्यातिः-किं ख्यातेरभावः, ईषत्ख्यातिर्वा ? प्रथमपक्षे भ्रान्ति-सुषुप्तावस्थयोरविशेषप्रसङ्गः, प्रतिभासविशेषात्मकत्वे हि भ्रान्तेः सुषुप्तावस्थातो भेदः स्यान्नान्यथा / अथ ईषख्यातिः अख्यातिः ; ननु किमिदं ख्यातेरीषत्त्वम् ? यथावस्थितार्थाऽप्रतिभासित्वमिति चेत् ; तर्हि विपरीतार्थख्यातिरियं स्यान्नतु अख्यातिः / तन्न अख्यातिपक्षोऽप्युपपन्नः / 15 अपरे तु असत्ख्यातिं मन्यन्ते / तथाहि-'इदं रजतम्' इति प्रतिभासमानं वस्तुस्वरूपं विपर्ययज्ञाने असत्ख्यातिवादि- ज्ञानधर्मः, अर्थधर्मो वा स्यात् ? न तावज्ज्ञानधर्मः; अनहङ्कारानोः सौत्रान्तिकमाध्यमिकयोः स्पदत्वात् , बहिः इदन्तया प्रतिभासमानत्वाच्च / नाप्यर्थधर्मः; निराकरणम्- तत्साध्यार्थक्रियाकारित्वाऽभावात्, बाधकप्रत्ययेन तद्धर्मतयाऽस्य बाध्यमानत्वाच्च / अतः असदेव तत् तत्र प्रतिभातमिति असख्यातिः; तदसमीक्षिताभिधा२० नम् ; असतः प्रख्योपाख्याविरहितस्य खपुष्पादिवत् प्रतिभासाऽसंभवात् / विप्रतिषिद्धञ्चैतत् 1 प्रथमं तावत् प्रभाकरगुरुणा ‘स्मरामि इति स्मृतिप्रमोषात् प्रत्यक्षसम्मितं तत् ' इत्यादिना शाबरभाष्यस्य बृहतीटीकायां (पृ. 56) स्मृतिप्रमोषशब्दः प्रयुक्तः / ब्र० शाङ्करभाष्ये (पृ० 15) विवेकाग्रहपदेन, विवरणप्रमेयसङ्ग्रहे (पृ. 28) न्यायमजया (पृ. 179) न्यायवार्तिकतात्पर्यटीकायाञ्च (पृ. 89) अख्यातिपदेन अस्य उल्लेखो वर्तते। अस्य च विविधरूपेण समीक्षा-तत्त्वोप० लि. पृ. 25 / न्यायवा० ता० टी० पृ. 88 / भामती पृ. 14 / प्रशस्त. कन्द० पृ. 180 / न्यायमं० पृ. 176 / विवरणप्र० सं० पृ. 28 / न्यायलीला० पृ. 41 / सर्वद० सं० द. 16 पं० 344 / प्रमेयक० पृ० 14 उ० / सन्मति० टी० पृ० 28, 372 / न्यायवि० वि० पृ० 34 उ० / स्या० रत्ना० पृ० 104 / इत्यदिषु अवलोक्या / 2 “जलावभासिनि ज्ञाने तावन्न जलसत्ता आलम्बनीभूताऽस्ति अभ्रान्तत्वप्रसङ्गात् " प्रमेयक० पृ० 13 उ० / स्या० रत्ना० पृ० 124 / 3 प्रतिभाति / 4 न पुनरख्यातिः भा०। 5 “इदं रजतम् इति प्रतिभासमानं वस्तु ज्ञानम् , अर्थो वा भवेत् ?" स्या० रत्ना० पृ० 125 / ६-विरहित ख-ज० /