________________ 59 लघी० 1 / 3] विपर्ययज्ञाने स्मृतिप्रमोषवादः नापि प्रत्यक्षरूपतापत्तिः; तद्रूपतापत्तौ हि तस्याः स्मृतिरूपतापरित्यागात् प्रत्यक्षरूपतैव स्यान्न स्मृतिरूपता, तत्कथमस्याः प्रमोषः ? अन्यथा मृत्पिण्डस्यापि घटरूपतापत्तौ मृत्पिण्डरूपतापरित्यागेऽपि मृत्पिण्डत्वप्रसङ्गात् मृत्पिण्डप्रमोषोऽपि स्यात् , प्रत्यक्षबाधा उभयत्र समाना / अथ 'तत्' इत्यंशस्याननुभवः स्मृतेः प्रमोषः , 'तद्रजतम् ' इत्याकारा हि प्रतीतिः स्मृतिः, तच्छब्दस्य अनुभूतपरोक्षार्थाभिधायकत्वात् , स यत्र नानुभूयते तत्र स्मृतिः 'प्रमुष्टा' 5 इत्युच्यत इति; तदसाम्प्रतम् ; रजताकारस्याप्यनुभवाभावप्रसङ्गात् , 'तद्रजतम्' इति हि रजतांशसम्बलितमेकमेवेदं स्मरणं भवतेष्यते, तत्र तच्छब्दस्य प्रमोषे रजतांशस्यापि प्रमोषः स्यात् निरंशस्यैकदेशेन प्रमोषानुपपत्तेः / किञ्च, 'प्रमोषः' इत्यत्र प्रशब्देन कोऽर्थोऽभिधीयते-एकदेशापहारः, सर्वापहारो वा ? न तावदेकदेशापहारः; तत्रास्य प्रयोगवैयर्थ्यात् / एकदेशेन हि चौरैर्द्रव्यापहारे मोषशब्द एव 10 लोके प्रयुज्यते, अतः सर्वापहार एव अस्यार्थो युक्तः 'प्रकृष्टो मोषः प्रमोषः' इति / मोषस्य चायं प्रकर्षो यत् सर्वात्मना वस्तुनोऽपहार इति / एवञ्च स्ववचनविरोधः; 'स्मृतिरस्ति, किन्तु प्रमुष्टा' इति / यदि हि सा अस्ति; कथं प्रमुष्टा ? प्रमुष्टा चेत् ; कथमस्ति इति ? .. तिरोभावोऽपि ज्ञानयोगपंद्ये सिद्धे सिद्ध्येत, न च भवतस्तत्सिद्धम् अपसिद्धान्तप्रसङ्गात् / किञ्च, अस्यास्तिरोभावः कार्याऽकर्तृत्वम् , आवृतत्वम् , अभिभूतस्वरूपाया अव. 20 स्थानं वा ? प्रथमपक्षे किं तस्याः कार्यम् , यदकर्तृत्वात् तत्तिरोभावः स्यात् ? परिच्छित्ति. श्वेत्; सा तत्रास्त्येव, रजतपरिच्छित्तेरत्रानुभूयमानत्वात् / द्वितीयपक्षस्त्वयुक्तः; ज्ञानस्य आत्रियमाणत्वानुपपत्तेः। चिरस्थायिनो हि पदार्थस्याब्रियमाणत्वं दृष्टम् , नच ज्ञानं चिरस्थायितना केनचिद् दृष्टमिष्टं वा / तृतीयपक्षोप्यनुपपन्नः ; बलवता हि दुर्बलस्य स्वरूपाभिभवो दृष्टः, यथा सवित्रा तारानिकुरम्बस्य / दुर्बलत्वञ्चास्याः अतीतविषयत्वात् , बाध्यमानत्वाद्वा ? प्रथम- 20 विकल्पे स्मृतिवार्ताच्छेदः, सर्वस्याः स्मृतेरतीतविषयतया दुर्बलत्वतो वर्तमानवस्तुप्रतिभासिज्ञानेन स्वरूपाभिभवप्रसङ्गात् / बाध्यमानत्वं तु विपरीतख्यातिव्यतिरेकेण नोपपद्यते इत्युक्तम् / अतः स्मृतिप्रमोषानुबन्धं परित्यज्य सैवाभ्युपगन्तव्या। यदप्युक्तम्-'विपरीतख्यात्यभ्युपगमे बाह्यार्थसिद्धिर्न स्यात्' इत्यादि ; तदप्यसाम्प्रतम् ; असत्यप्रत्ययानाम् अर्थाऽनालम्बनत्वेऽपि सत्यप्रत्ययानां तदालम्बनत्वप्रसिद्धः। सत्येतरव्यवस्था 25 1 “तद्रजतम् इत्याकारा हि प्रतीतिः स्मृतिः, तच्छब्दस्य अनुभूतपरोक्षार्थाऽऽलम्बनत्वात् / स यत्र नानुभूयते तत्र स्मृतिः प्रमुष्टा इत्यभिधीयते इति / " स्या० रत्ना० पृ० 121 / 2 स्मृतिः प्रमोषस्य अनुभूतपरोक्षार्थाभिधायकतच्छब्दसंवलिताऽनुभूयते तत्र आ०, ब०, ज० / 3 “अपि च प्रमोषशब्दस्य कोऽर्थोऽभिप्रेतः प्रज्ञाशालिना-किमेकदेशापहारः सर्वापहारो वा ? " स्या० रत्ना० पृ० 122 / 4 तत्राप्यस्य ब० / 5 यदि हि नास्ति कथं प्रमुष्टा चेत् कथमस्तीति भां० / ६-पद्ये सिद्धयेत् ब०, ज० / 7 विपरीतख्यातिरेव / 8 पृ० 54 पं० 10 /