________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० __ किञ्च, 'कोऽयं स्मृतेः प्रमोषो नाम-विनाशः, प्रत्यक्षेण सहैकत्वाध्यवसायः, प्रत्यक्षरूपतापत्तिः, तदित्यंशस्याननुभवः, तिरोभावमानं वा ? यदि विनाशः; तदा साध्यसाधनसम्बन्ध- . स्मृतेः साध्यप्रतिपत्तिकाले विनाशात् तत्रापि स्मृतिप्रमोषः स्यात् / अथ प्रत्यक्षेण सहैकत्वाध्य वसायोऽस्याः प्रमोषः / ननु कुतस्तयोरेकत्वाध्यवसायः-विषयैकत्वाध्यवसायात् , स्वरूपैकत्वा५ ध्यवसायाद्वा ? प्रथमविकल्पे कोऽयं विषयैकत्वाध्यवसायो नाम ? अन्यतरविषयस्यान्यतरविषये आरोपश्चेत् ; किं प्रत्यक्षविषयस्य स्मृतिविषये, तद्विषयस्य वा प्रत्यक्षविषये आरोपः स्यात् ? तत्राद्यपक्षे स्मर्यमाणरजतदेशे स्पष्टतया शुक्तिकायाः प्रतिभासः स्यान्न तु 'इदम्' इत्युल्लेखेन पुरोवर्तितया, तत्रारोप्यमाणत्वात् , यत्र यदारोप्यते तस्य तद्देशे प्रतिभासो भवति यथा मरीचि. कायामारोप्यमाणस्य जलस्य मरीचिकादेशे, स्मृतिविषये रजते आरोप्यते च प्रत्यर्वेविषया 10 शुक्तिकेति / द्वितीयपक्षे तु इदन्तया शुक्तिकायाः स्पष्टः प्रतिभासो न प्राप्नोति, तत्रारोप्यमाणस्य स्मृतिविषयस्याऽस्पष्टत्वात् / तन्न विषयै कत्वाध्यवसायात् स्मृतेः प्रत्यक्षेण सहैकत्वाध्यवसायो युक्तः / नापि स्वरूपैकत्वाध्यवसायात् ; स हि ताभ्यामेव विधीयते, अन्येन वा ? न तावत्ताभ्यामेव ; . अस्वसंविदितस्वभावयोः स्मृति-प्रत्यक्षयोः स्वरूपमात्राध्यवसायेऽप्यसामर्थ्य अन्येन सहैकत्वाध्य१५ वसाये सामर्थ्यानुपपत्तेः / नाप्यन्येन ज्ञानान्तरेण तदेकत्वाध्यवसायः ; तस्यापि अस्वसं विदितस्वभावस्य स्वरूपमात्रस्यापि वार्तानभिज्ञस्य अन्येनैकत्वाध्यवसायवार्ताभिज्ञताऽनुपपत्तेः / किञ्च, तेन तवयस्य प्रतीतस्य एकत्वमध्यवसोयते, अप्रतीतस्य वा ? न तावत्प्रतीतस्य; द्वयप्रतीतौ तदेकत्वाध्यवसायविरोधात् / नाप्यप्रतीतस्य ; अतिप्रसङ्गात् / अर्थं यदैव तवयं प्रतीयते में तदैव तदेकत्वाध्यवसायो येन विरोधः स्यात् , किन्तु पूर्व तवयं प्रतीत्य पश्चादे२० कत्वेनाध्यवसीयत इति; तद्युक्तम् ; संवेदनस्य क्षणिकत्वेन एतावन्तं कालमवस्थित्यनुपपत्तेः / तन्न प्रत्यक्षेण सहकत्वाध्यवसायः स्मृतेः प्रमोषः / १“कोऽयं विप्रमोषो नाम-किमनुभवाकारस्वीकरणम् , स्मरणाकारप्रध्वंसो वा, पूर्वार्थगृहीतित्वं वा, इन्द्रियार्थसन्निकर्षजत्वं वा, इन्द्रियार्थसन्निकर्षाजत्वं वा ?" तत्त्वो० पृ. 25 / "कश्चाय स्मृतेः प्रमोषः ? स्मृतेरभावः, अन्यावभासो वा स्यात् , विपरीताकारवेदित्वं वा, अतीतकालस्य वर्त्तमानतया ग्रहणं वा, अनुभवेन सह क्षीरोदकवदविवेकेन उत्पादो वा ?" प्रमेयक० पृ. 15 उ० / “किं स्मृतेरभावः, उत अन्यावभासः, आहोस्विदन्याकारवेदित्वम् इति विकल्पाः।" सन्मति०टी०पृ०२८ / "किं प्रध्वंसः, उत प्रत्यक्षेण सह एकत्वाध्यवसायः, आहोस्वित् प्रत्यक्षरूपतापत्तिः, उतचित् तदित्यंशस्य अननुभवः, तिरोभावमात्रं वा भवेत् ?" स्या० रत्ना० पृ० 120 / 2 'जलस्य' इति शब्द आदर्श टिप्पण्यां पतितः / 3 विषयैकादेशे ब०, ज० / ४-क्षविषयतः शु-भां। ५-न्तया स्पष्टः आ० / 6 नानेन ज्ञा-भां० / ७-ज्ञस्याऽन्यस्य अन्ये-ब०, ज०, भां० / 8 अथ न यदैव भां० / ९-ते तदैव भां० / 10 न तदेक-आ० /