________________ 57 लघी० 1 / 3] विपर्ययज्ञाने स्मृतिप्रमोषवादः मिदम्' इत्यादिज्ञानमपि / अतः तज्ज्ञानस्य कुतश्चिद्भेदाऽप्रसिद्धः एकत्वमेवाभ्युपगन्तव्यं तथैव तत्स्वरूपप्रकाशनात्; यस्य यथैव स्वरूपं प्रकाशते तत् तथैवाभ्युपगन्तव्यम् यथा सत्यरजतादौ 'रजतमिदम्' इत्यादिज्ञानस्यैकत्वेन प्रकाशमानं स्वरूपम् एकत्वेनैवाभ्युपगम्यते, एकत्वेनैव प्रकाशते च शुक्तिकाशकले 'रजतमिदम्' इति ज्ञानस्य स्वरूपमिति / न हि प्रतिभासकृतं विशेषमुभयत्र कश्चित्पश्यामः, येन एकत्रैकं ज्ञानम् अन्यत्रं तु द्वयं प्रतिपद्यामहे / एतत्तु- 5 स्यात्-एकं प्रमाणं यथावस्थितवस्तुस्वरूपग्राहित्वात् , अपरं त्वप्रमाणं तद्विपर्ययादिति / ___ अस्तु वा ज्ञानद्वयम् ; तथापि युगपत् , क्रमेण वाऽस्योत्पत्तिः स्यात् ? न तावद्युगपत् ; ज्ञानयोगपद्यप्रसङ्गात् , 'करणस्य क्रमेणैव ज्ञानोत्पादने सामर्थ्यम्' इत्यभ्युपगमक्षतिप्रसङ्गाच्च / क्रमेणोत्पत्तावपि 'इदम्' इति प्रत्यक्षात् पूर्वम् , उत्तरत्र वा रजतस्मृतिः स्यात् ? तत्राद्यविकल्पोऽयुक्तः; तदा स्मृतिबीजस्य संस्कारस्य प्रबोधकप्रत्ययाऽपायात् / प्रबुद्धे च संस्कारे स्मृतिरुत्पद्यते 10 नाप्रबुद्धे अतिप्रसङ्गात् / अथ निर्विकल्पकात् तत्संस्कारप्रबोधः; तर्हि सविकल्पकेन सह रजतस्मृतेयौंगपद्यप्रसङ्गात् सैवाभ्युपगमक्षतिः / 'न च निर्विकल्पकं ज्ञानं कुतश्चित्प्रमाणात्प्रसिद्धम्' इत्युक्तं सविल्कसिद्धौ। अथ पश्चादुलद्यते; तन्न; यस्मात् 'इदम्' इति प्रत्यक्षात् पश्चादुत्पद्यमानं रजतज्ञानं निरुद्धव्यापारेऽपि चक्षुषि उत्पद्येत, तथा च निमीलिताक्षस्यापि तज्ज्ञानानुभवः स्यात् / प्रतीतिविरुद्धा च तत्क्रमोत्पत्तिः, न खलु पूर्व पुरोवर्तिशुक्तिशकलं गृहीत्वा पश्चाद् 15 रजतं स्मरामि इति तत्संवेदनयोः स्वप्नेऽपि क्रमप्रतीतिरस्ति, रजतात्मकं पुरोवर्ति वस्तु सकृदेव प्रतिभाति इत्यखिलजनानां प्रतीतेः, अन्यथा बाधकोपनिपाते सति 'नेदं रजतम् ' इति तादात्म्यप्रतिषेधो न स्याद् अप्रसक्तत्वात्तस्य / अस्ति चायम्-अङ्गुलिनिर्देशेन शुक्तिशकलस्य रजततया प्रतिषेधप्रतीतेः / अतः यद् यत्र प्रतिषिध्यते तत् तत्र प्रसक्तम् यथा क्वचित्प्रदेशे घटः, प्रतिषिध्यते च पुरोवर्तिनि शुक्तिशकले रजतमिति। - नन्वेवमपि घट-भूतलयोरिव शुक्ति-रजतयोः संयोगनिषेधो भविष्यति; इत्यप्यसुन्दरम् ; तद्वदत्र वैयधिकरण्याऽप्रतोतेः, न खलु यथा 'नास्त्यत्र घटः' इति वैयधिकरण्यप्रतीतिः तथा 'नेदं रजतम्' इत्यत्रापि / यत्र च वैयधिकरण्यप्रतीतिर्नास्ति न तत्र संयोगनिषेधः यथा 'नेदं नोलम्' इत्यादौ, नास्ति च 'इदं रजतम्' इत्यादौ वैयधिकरण्यप्रतीतिरिति / यथैव हि अद्वैतवादिना विश्वस्यैकत्वमभ्युपगच्छता पीतस्य नीलात्मकत्वं यदारोपितं तदेव 'नेदं नीलम् ' इत्यनेन 25 प्रतिषिध्यते, तथा शुक्ति-रजतयोर्यत् तादात्म्यं पूर्वविज्ञानेनारोपितं तदेव 'नेदं रजतम्' इत्यनेन बाधकेन अपनीयते, नतु इदमंशो रजतांशो वा निषिध्यते / तथा च सतः शुक्तिशकलस्य या रजतात्मकताप्रतीतिः सो अवस्थितरूपविरुद्धत्वाद् विपरोतख्यातिः न पुनः स्मृतिप्रमोषः / 1 सत्यरजतज्ञाने मिथ्यारजतज्ञाने च / 2 सत्यरजतज्ञाने / 3 मिथ्यारजतज्ञाने / 4 " तस्य किं योगपद्येन पर्यायेण वा प्रादुर्भावः स्यात् ? "स्या० रत्ना० पृ० 119 / 5 पृ० 49 पं० 11 / 6 तत्प्रमोत्पत्तिः भां० / ७-तापि तस्य भां०, आ०। ८-क्तिकाश-भां० / 9 सा च स्थित-ब०, ज० / 20