________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे / [1 प्रत्यक्षपरि० ___ यदप्युक्तम्'-'न खलु दुष्टा यवाः' इत्यादि; तदप्युक्तिमात्रम् ; यतो दुष्टस्य अयमेव धर्मो यत्कार्यानुत्पादकत्वं विपरीतकार्योत्पादकत्वं वा दुष्टभृत्यवत् , तच्चोभयमपि यवादावस्त्येव अङ्कुरलक्षणकार्यानुत्पादकत्वस्य उपयुक्तानामुदरव्यथादिविपरीतकार्योत्पादकत्वस्य च प्रतीतेः। 'ननु दुष्टस्य कार्योत्पादकत्वं विरुद्धम्' इत्यप्यनेन प्रत्युक्तम् ; तस्य हि अविपरीतकार्योत्पादकत्वं 5 विरुद्धं न पुनर्विपरीतकार्योत्पादकत्वम् / अथ कार्योत्पादकत्वमात्रमपि तत्र विरुद्धम् ; तर्हि कथं ततः स्मृतिप्रमोषलक्षणकार्योत्पादः स्यात् ? ततः युक्तो दोषतो विपरीतज्ञानस्य शुक्तिशकलविषयतयोत्पादः / अतो न विषयभेदात्तज्ज्ञानस्य भेदः / पञ्चाङ्गुलादिज्ञानेन अनेकान्ताच्च; न खलु विषयभेदेऽप्यस्य भेदः संभवतीति / किञ्च, रजतज्ञानस्य शुक्तिशकलाऽविषयत्वे किं निर्विषयत्वम् , अतीतरजतविषयत्वं 10 वा स्यात् ? न तावन्निर्विषयत्वम् ; 'रजतमिदम्' इति विषयोल्लेखप्रतीतेः / नाप्यतीतरजतवि षयत्वम् ; अतीततयैव तत्र रजतप्रतिभासप्रसङ्गात् , तथा च तत्प्राप्तथर्थिनाम् अतः प्रवृत्तिर्न प्राप्नोति; अतीतस्य प्राप्तुमशक्यत्वात् / अतः वर्तमानपुरोवर्तिशुक्तिशकलविषयमेव तज्ज्ञानं प्रतिपत्तव्यं तत्रैव प्रवृत्तिहेतुत्वात् , यद् यत्रैव प्रवृत्तिहेतुः तत् तद्विषयमेव यथा सत्यरजते रजतज्ञानम् , वर्तमाने पुरोवर्तिन्येव शुक्तिशकले प्रवृत्तिहेतुश्चेदं ज्ञानमिति / अथ अतीत१५ रजतविषयत्वेऽप्यस्य दोषतोऽतीतस्य रजतस्य शुक्तिकातो भेदाऽग्रहणात् तत्र प्रवृत्तिहेतु त्वम् ; तन्न ; भेदाऽग्रहमात्रस्य पुरुषप्रवृत्तिहेतुत्वानुपपत्तेः, पुरोवर्तितया रजतप्रतिभासो हि तत्प्रवृत्तिहेतुः न पुनर्भेदाऽग्रहः / अथ अतीतरजतविषयत्वेऽप्यस्य रजतप्रतिभासस्य पुरोवर्तिसत्यरजतप्रतिभासतुल्यत्वात् पुरुषप्रवृत्तिहेतुत्वम् , तत्तुल्यता च ततो भेदानवसायः इति चेत्, नन्वेवं वर्तमानानवभासितया अतीतरजतावभासिज्ञानतुल्यताप्यस्यास्ति इति तत्तुल्यतया तदप्र२० वृत्तिहेतुताऽप्यस्य स्याद् अविशेषात् / तथा चाऽयं रजतज्ञानवान् पुरोवर्तिनि शुक्तिशकलल क्षणेऽर्थे प्रवर्तेत निवर्तेत वा युगपत्परस्परविरुद्धक्रियाद्वयमापन्नः किं कुर्यात् ? न च 'तत्तु यंताऽविशेषेऽपि एकत्र स्वोचितव्यवहारप्रवर्तकत्वं नान्यत्र इत्यभिधातुं युक्तम् ; अप्रामाणिकत्वप्रसङ्गात् / ततः शुक्तिशकलस्यैव -- रजतमिदम्' इत्येतज्ज्ञानविषयता प्रतिपत्तव्या / इति न विषयभेदादपि अस्य ज्ञानस्य भेदः। अथ विभिन्नाकारत्वात् तत्र तद्भेदः प्रसाध्यते ; तदयुक्तम् ; यतो" नाऽऽकारभेदादपि तद्भदः चित्रज्ञानेन प्रत्यभिज्ञानेने चानेकान्तात् , तद्धि अनेकाकाराक्रान्तमपि एकमेवें', एवम् 'रजत 1 पृ०५३ ५०६।२-रुद्धमप्यनेन भां० / 3 पञ्चाङ्गुलादिज्ञानस्य / 4 "तत्सिद्धमेतंद विवादाध्यासितं रजतादिविज्ञानं पुरोवर्तिवस्तुविषयं रजतार्थिनः तत्र नियमेन प्रवर्तकत्वात् / " न्यायवा० ता. टी० पृ. 9. / 5 अतीतरजतावभासिज्ञानतुल्यतया / 6 अतिविशेषात् भां० / 7 यथा भां० / 8 'पुरोवर्तिसत्यरजतप्रतिभासः अतीतरजतावभासिज्ञानञ्च / एतदुभयतुल्यता / 9 ज्ञानभेदः / 10 “यतो नाकारभेदादपि ज्ञानस्य भेदः संगच्छते; प्रत्यभिज्ञानेन व्यभिचारात्" स्या. रत्ना० पृ. 115 / ११-ज्ञानेनानेनचा-ब०, ज० / 12 एकमेवं रज-ब०, ज० / एकमेव रज-भां० / 25