________________ लपी० 1 / 3] विपर्ययज्ञाने स्मृतिप्रमोषवादः कारणभेदमात्रात् कार्यभेदः प्रसाध्यते, सामग्रीभेदादा ? प्रथमपक्षे स्मृतिप्रमोषापर-पर्यायायाः " न किञ्चिदेकं ज्ञानं स्यात्, आलोकन्द्रियादिभिरनकैः कारणविवेकाख्यातेः प्रतविधानम् जन्यमानस्य घटादिज्ञानस्याप्यनेकत्वप्रसङ्गात् / द्वितीयपक्षस्त्वयुक्तः; सामग्रीभेदस्यात्राऽसंभवात्, चक्षुरादिकारणकलापस्यैकस्यैव तत्कारणत्वात् / कार्यभेदकल्प्यत्वाच्च तद्भेदस्य, न चात्र कार्यभेदोऽस्ति / ननु 'रजतमिदम्' इति स्मृतिप्रत्यक्षरूपः कार्यभेदोऽत्र विद्यत 5 एव, अतः सामग्रीभेदः कल्प्यत इति चेत् ; न; अन्योन्याश्रयप्रसङ्गात्-सिद्धे हि सामग्रीभेदे 'रजतमिदम्' इत्यत्र स्मृतिप्रत्यक्षरूपतया कार्यभेदसिद्धिः, तत्सिद्धौ च सामग्रीभेदसिद्धिरिति / एतेन ‘ययोविभिन्नकारणप्रभवत्वम्' इत्याद्यनुमानं प्रत्युक्तम् ; तयोहि भेदे सिद्धे विभिन्नकारणप्रभवत्वं सिद्धयेत, तत्सिद्धौ च तयोर्भेदः सिद्धयेदिति / तथा च 'इन्द्रियं हि प्रत्यक्षस्य कारणम्' इत्यादिस्वप्रक्रियाप्रदर्शनमनुपपन्नम्। यदि चान्यत्र इन्द्रियसंस्कारयोः स्मृतिप्रत्यक्ष- 10 कारणत्वेन प्रतिपन्नत्वाद् अत्रापि तत्कार्यभेद इष्यते; तर्हि प्रत्यभिज्ञानस्यापि एकत्वं न स्यात् संस्कारेन्द्रियप्रभवत्वाऽविशेषात् / अथात्र कार्यस्यैक्यदर्शनात् तावत्येकैव सामग्री कल्प्यते; तदितरत्र समानम् / तथा च 'नैकमेवेदं ज्ञानं कारणाभावात् ' इत्याद्ययुक्तम् ; चक्षुरादिसामग्र्या एव तत्कारणत्वात् / न च कार्यप्रतीतौ कारणाभावाऽऽशङ्का युक्ता, तत्प्रतीतेरेव तत्सद्भावप्रसिद्धः / न खलु निर्हेतुका कार्यस्योत्पत्तिरुपलब्धचरी / तन्न कारणभेदादस्य भेदः / नापि विषयभेदात् ; शुक्तिशकलस्यैकस्यैव एतज्ज्ञानविषयत्वात् / पुरोवर्तमानं हि शुक्तिशकलं चक्षुरादयः काचकामलादिदोषोपनिपाताद् रजतरूपतया दर्शयन्ति / कथमन्यथा शुक्तिसन्निधानानपेक्षस्तज्ज्ञानस्य आविर्भावो न भवेत् ? तर्द्धिं तत्र कारणतामात्रेण व्याप्रियेत, विषयतया वा ? तत्राद्यविकल्पोऽयुक्तः; सत्यरजते चक्षुराद्यभाव इव शुक्तिशकलाभावेऽपि रजतज्ञानानुत्पत्तिप्रसङ्गात् / द्वितीयविकल्पे तु सिद्धं शुक्तिविषयत्वं तज्ज्ञानस्य / एकार्थविषयमेक- 20 मेव हि 'इदं रजतम्' इति ज्ञानमनुभूयते, इदंशब्दो त्रि पुरोवर्तितामात्रं परामृशति, रजतशब्दस्तु रजतरूपतामात्रं न पुनर्विषयान्तरम् , तदत्र ज्ञाने कथं भेदाशङ्का स्यात् ? सत्यरजतज्ञानेऽपि तत्प्रसङ्गात् , तयोः स्वरूपमात्रप्रतिभासे विशेषाभावात् / . यच्चान्यत्-'दोषैरिन्द्रियशक्तेः प्रतिबन्धः प्रध्वंसो वा' इत्याद्युक्तम् / तदप्ययुक्तम् ; यतो 'नं तैस्तस्याः प्रतिबन्धः प्रध्वंसो वा विधीयते, किन्तु स्वसन्निधाने 'रजतमिदम्' इति ज्ञान- 25 मेवोत्पाद्यते" / दोषाणां चायमेव महिमा यदविद्यमानेप्यर्थे ज्ञानोत्पादकत्वन्नाम / 1 “तत्र विभिन्नकारणजन्यत्वादिभ्यः सामग्र्यन्तर्गताऽनेककारणभेदात् प्रस्तुतकार्यभेदः सिसाधियिषतः, सामग्रीभेदाद्वा ?" स्या० रत्ना० पृ० 109 / २-लापस्यैव त-आ०, भां० / 3 सामग्रीभेदस्य / 4 कार्यप्रतीतेरेव / 5 कारणसद्भाव / 6 शुक्तिशकलं / ७-त्वं ज्ञानस्य भां० / रजतज्ञानस्य / ह्यदन्यत्र भां० / 9 पृ. 53 पं० 4 / 10 "न दोषैः शक्तः प्रतिबन्धः प्रध्वंसो वा विधीयते" प्रमेयक. पृ० 15 पू० / ११-त्पद्यते आ०, ब० /