________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० प्रतिपत्तुमसमर्थम् / शुक्तित्वलक्षणविशेषणस्य रजताच्छुक्तेर्भेदकस्याऽग्रहणात् , साधारणात्मना तु रजतान्वयिना स्थितं वस्तु प्रतिपद्यमानं रजतस्मृतिज्ञानस्य 'स्मरामि' इत्याकारशून्यस्य कारणतां प्रतिपद्यते / 'स्मरामि' इत्याकारशून्यत्वमेव चास्याः प्रमोषः। 'रजतमिदम्' इति सामानाधिकरण्यं समीचीनसन्निहितरजतप्रत्ययतुल्यव्यवहारत्वञ्चात्र न दुर्घटम् ; भेदाऽग्रहतः तद्घटनात् / भेदाऽग्रहश्च त्रिप्रकारः ; तथा हि-प्रकाश्ययोर्भेदो न गृह्यते, प्रकाशकयोः भेदो न गृह्यते, सम्यग्ज्ञानाच भेदो न गृह्यते इति च / न चे स्मृतिप्रमोषाभ्युपगमे रजतज्ञानस्य सत्यत्वात् उत्तरज्ञानेन बाध्यतानुपपत्तिरित्यभिधातव्यम् ; 'शुक्तिकेयम्' इति भेदबुद्धौ भेदाऽनध्यवसायनिवारणेन पूर्वप्रत्ययप्रशंसितरजतोचितप्रवृत्त्यादिव्यवहारनिवारणतः तस्या उपपत्तेः / ये तु स्मृतिप्रमोषमनिच्छन्तः शुक्तौ रजतप्रतिपत्तिं विपरीतख्याति प्रतिपद्यन्ते तेषां 10 बाह्यार्थसिद्धिर्न प्राप्नोति; तदृष्टान्तेनाऽशेषप्रत्ययानां निरालम्बनत्वप्रसङ्गात् / यथैव हि रजत प्रत्ययो रजताऽभावेऽपि रजतमवभासयति तथा सर्वे बाह्यार्थप्रत्ययास्तवभासिनः इत्यद्वैतवादिमतसिद्धिः स्यात् / तामनिच्छता तत्र स्मृतिप्रमोष एवाभ्युपगन्तव्य इति / अत्र प्रतिविधीयते / यत्तावदुक्तम्" - 'विभिन्नकारणप्रभवत्वात्' इत्यादि; तत्र किं 1 "शुक्तिकायां रजतज्ञान ‘स्मरामि' इति प्रमोषात् स्मृतिज्ञानमुक्तं युक्तं रजतादिषु / " बृहती पृ. 53 / “स्मरामि इति ज्ञानशून्यानि स्मृतिज्ञानान्येतानि / " बृहती पृ. 55 / 2 "ग्रहणस्मरणे चेमे विवेकाऽनवभासिनी // 33 // सम्यग्रजतबोधात्तु भिन्ने यद्यपि तत्त्वतः / तथापि भिन्ने नाऽभातः भेदाऽग्रहसमत्वतः // 34 // सम्यग्रजतबोधश्च समक्षकार्थगोचरः। ततो भिन्ने अवुवा तु स्मरणग्रहणे इमे // 35 // समानेनैव रूपेण केवलं मन्यते जनः / व्यवहारोऽपि तत्तुल्यः तत एव प्रवर्तते // 37 // समत्वेन च संवित्तेः भेदस्याऽग्रहणेन च / " प्रकरणपं० पृ० 34 / “तथा च रजतस्मृतेः पुरोवर्तिद्रव्यमात्रग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाऽग्रहात् सन्निहितरजतगोचरज्ञानसारूप्येण 'इदम् / 'रजतम् / इति भिन्ने अपि स्मरण-ग्रहणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशञ्च प्रवर्तयतः।" न्यायवा० ता. टी. पृ० 88 / भामती पृ० 14 / ३-हारकत्व-भां०। 4 “बाधकप्रत्ययस्यापि बाधकत्वमतो मतम् // 39 // प्रसज्यमानरजतव्यवहारनिवारणात् // 40 // तत्तुल्यव्यवहारप्रसक्तिरपि युज्यते चातः / तद्विनिवारणकरणाद् बाधकता बाधकस्याऽपि // 43 // " प्रकरणपं० पृ. 35 / “भेदाऽग्रहप्रसजिताऽ भेदव्यवहारबाधनाच्च नेदं रजतमिति विवेकप्रत्ययस्य बाधकत्वमपि उपपद्यते / " न्यायवा. ता० टी० पृ० 88 / भामती पृ० 14 / ५-निराकरणेन भां० / 6 तस्यानुपपत्तेः ब०, ज०। 7 “ये तु विवेकाऽख्यातेर्द्विषन्तः शुक्तौ रजतप्रतीति ख्यापन्ति न ते सङ्ख्याविदः, इत्थं हि तेषां बाह्यार्थसिद्धिर्न प्राप्नोति" स्या० रत्ना० पृ० 107 / ८-रीतार्थख्या-भा० / 9 ‘सोऽयं स्मृतिप्रमोषः तत्त्वाऽग्रहणम् अख्यातिरुच्यते. ते एते प्रहणस्मरणे विविक्ते अपि विविक्ततया न गृह्यते इति विवेकाऽग्रहणम अख्यातिः। (न्याय म० पृ. 179) इत्यादिना भटजयन्ताः स्मृतिप्रमोषम् अख्यातिपदेन व्यपदिशम्ति / अन्ये च वाचस्पतिमिश्रप्रमुखाः भामत्यादौ विवेकाऽख्यातिपदेन / 10 पृ. 52 50 14 / /