________________ लघी० 1 / 3.] विपर्ययज्ञाने स्मृतिप्रमोषवादः न चाऽसम्बद्धमवर्तमानञ्चेन्द्रियग्राह्यम् " सम्बद्धं वर्तमानञ्च गृह्यते चक्षुरादिना" [ मीमां० नो० सू० 4 श्लो० 84 ] इत्यभिधानात् / अन्यथा विप्रकृष्टाऽशेषार्थानामपि तद्ग्राह्यत्वप्रसङ्गतोऽनुपायसिद्धमशेषस्य अशेषज्ञत्वं स्यात् / न च दोषाणामयं महिमा इत्यभिधातव्यम् ; यतः कोऽयं तन्महिमा नाम-इन्द्रियशक्तेः प्रतिबन्धः, तत्प्रध्वंसः, विपरीतज्ञानाविर्भावो वा ? तत्र आद्यविकल्पद्वयमयुक्तम् ; कार्यानुत्पादप्रसङ्गात्, न हि मणिमन्त्रादिना दहनशक्तेः प्रतिबन्धे 5 प्रध्वंसे वा स्फोटादिकार्योत्पत्तिदृष्टा / तृतीयविकल्पोप्यनुपपन्नः ; न खलु दुष्टा यवा विपरीतं कार्यमाविर्भावयन्तः प्रतीयन्ते / अतः ज्ञानद्वयमेतत्-'इदम्' इति हि प्रत्यक्षं पुरोव्यवस्थितार्थग्राहि, 'रजतम्' इति च अनुभूतरजतस्मरणमिति / रजतोंकारा हि प्रतीती रजतविषयैव न शुक्तिविषया, अन्याकारायाः प्रतीतेः अन्यविषयत्वाऽयोगात् , तद्योगे वा सर्व ज्ञानं सर्वविषयं स्यात्, इति सर्वस्य सर्वदर्शित्वापत्तिः। प्रयोगः-यद् यदाकारं ज्ञानं तत् तद्विषयमेव यथा 10 घटाकारं घटविषयमेव, रजताकारञ्चेदं ज्ञानमिति / यदि च अन्याकारापि प्रतीतिः अन्यविषया स्यात् , तदा अस्याः स्वार्थव्यभिचारतः सर्वत्राप्यनाश्वासान्न कचित् कस्यचित् प्रवृत्तिनिवृत्तिर्वा कुतश्चित् इत्यशेषव्यवहारोच्छेदः / ततः रजताकारं ज्ञानं रजतविषयमेवाभ्युपगन्तव्यम् / न च रजतमप्रतः सन्निहितम् , अतोऽतीतमेव तत् तदा स्मर्यत इति। न तज्ज्ञानं प्रत्यक्षम् ; इन्द्रियार्थ सम्प्रयोगजत्वाऽभावात् , अर्गृहीतरजतस्य 'इदं रजतम्' इति प्रत्ययानुत्पत्तेश्च / यदि हि तत्प्र- 15 त्यक्षं स्यात् तदाऽगृहीतरजतस्यापि इन्द्रियव्यापारात् तदुत्पद्येत / ननु यदि अतीतं रजतं स्मयते तदाऽतीतस्यास्य अतीततयैव प्रतिभासः स्यात्, न तु वर्तमानरजततुल्यतया ; इत्यप्यपेशलम् ; अतीतस्यापि रजतस्य दोषतोऽतीतत्वेनाऽप्रतिभासनात् , वर्तमानस्य च शुक्तिलक्षणार्थस्य ग्राहकं ज्ञानं 'शुक्तिकेयम्' इति तल्लक्षणमर्थ स्वरूपेण 1 'सन्निहितं वर्त्तमानञ्च ..... सिद्धिवि० टी० पृ० 413 / ....."गृह्यते चक्षुरादिभिः' अष्टसह. पृ० 45 / 2 " यदि चाऽप्रत्यक्षमपि चक्षुरध्यक्षयति सर्वस्य सर्ववित्त्वं केन वार्येत ?" प्रश० भा० कन्द० पृ० 180 / ३-बन्धं प्रध्व-आ०, ब०, ज० / 4 “युक्तञ्च दुष्टतायाः कार्याऽक्षमत्वं न पुनः कार्यान्तरसामर्थ्यम् / " बृहती पृ० 53 / “दौर्बल्यञ्च कार्याऽक्षमत्वं न कार्यान्तरोत्पत्तिसमर्थत्वम् / " बृहती पृ० 57 / 5. " इदं रजतमित्यत्र रजतञ्चाऽवभासते / तदेव तेन वेद्यं स्यान्न तु शुक्तिरवेदनात् // 24 // तेनाऽन्यस्यान्यथा भानं प्रतीत्यैव पराहतम् / परस्मिन् भासमाने हि न परं भासते यतः // 25 // " प्रकरणपं० पृ. 33 / 6 "रजतप्रतिप्रत्तिश्च नेयमन्धस्य जायते / तेनेयमिन्द्रियाधीना संयुक्त चेन्द्रियं धियम् // 12 // " प्रकरणपं० पृ० 33 / 7 विषयान्तरसादृश्यमवलम्ब्य अगृहीतविवेकं यत् ज्ञानमुत्पन्न तत्सदृशविषयान्तरे स्मृतिहेतुतां प्रतिपद्यते ‘स्मरामि' इति ज्ञानशून्यस्य / " बृहती पृ. 51 / “उच्यते शुक्तिशकलं गृहीत भेदवर्जितम् // 26 // शुक्तिकाया विशेषा ये रजता दहेतवः / ते न ज्ञाता अभिभवाज ज्ञाता सामान्यरूपता // 27 // अनन्तरञ्च रजते स्मृतिर्जाता तथापि च / मनोदोषात् तदित्यंशपरामर्शविवर्जितम् // 28 // " प्रकरणपं० पृ. 34 / 8 स्वस्वरूपेण ज०।