________________ 52 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० एतदेवाह-'न वै' इत्यादि / न वै नैव ज्ञानमित्येव ज्ञानमित्येतावतैव प्रमाणम् / कुत एतत् ? अतिप्रसङ्गात् / अतिप्रसङ्गमेव दर्शयति 'संव्यवहार ' इत्याविवृतिव्याख्यानम्- दिना / समीचीनः सङ्गतो वा वादिप्रतिवादिनोऽविप्रतिपत्तिभूतो व्यव हारः हेयोपादेययोर्हानोपादानलक्षणः संज्ञानादिलक्षणो वा, तत्र अनुप५ योगिनः। कस्य ? ज्ञानस्य / पुनरपि कथम्भूतस्य ? इत्यत्राह-'संशय' इत्यादि / इयं शुक्ति का रजतं वा' इति ज्ञानं संशयः। 'रजते शुक्तिका' इति, 'शुक्तिकायां रजतम्' इति वा ज्ञानं विपर्ययः / तत्कारणस्य तत्कारणत्वादेव तदनुपयोगिनः भावाविरोधात् सत्त्वाऽविरोधात् / अयमर्थः-यथा संशयादिहेतोर्ज्ञानस्य ज्ञानत्वे सत्यपि संव्यवहारानुपयोगित्वान्न प्रामाण्यम् , तथा भवत्परिकल्पितनिर्विकल्पकप्रत्यक्षस्यापि / __अत्रे वादिनां विवेकाख्याति-अख्याति-असत्ख्याति-प्रसिद्धार्थख्याति-आत्मख्याति-प्रसिद्धार्थख्याति-सदसत्त्वाद्यनिर्वचनीयार्थख्याति-अलौकिकार्थख्याति-विपरीतार्थख्यातिरूपा विप्रतिपत्तयः सन्ति / तत्र प्रभाकरमतानुसारिणो विवेकाऽख्यातिं विपर्ययज्ञाने प्रतिपन्नाः / तथाहि-'इदं रजतम्' विपर्ययज्ञाने विवेकाऽख्याति- इत्यन्योन्यं विभिन्नं ज्ञानद्वयं प्रत्यक्ष-स्मरणरूपम् विभिन्नकारणप्रभव१० वादिनः प्राभाकरस्य त्वाद् विभिन्न विषयत्वाच्च सिद्धयत्येव / इन्द्रियं हि इदमंशोल्लेखिनः पूर्वपक्षः- प्रत्यक्षस्य कारणम् , संस्कारश्च स्मरणस्य, इति सिद्धमत्र विभिन्नकारणप्रभवत्वम् / ययोश्च विभिन्नकारणप्रभवत्वं तयोरन्योन्यं भेदः यथा प्रत्यक्षानुमानयोः, विभिन्नकारणप्रभवत्वञ्च 'इदम्' 'रजतम्' इति ज्ञानद्वयस्य / विभिन्नविषयत्वञ्चान सुप्रसिद्धम्-'इदम्' इति ज्ञानस्य पुरोवर्तिशुक्तिशकलावलम्बनत्वात् , 'रजतम्' इति ज्ञानस्य च व्यवहितरजतविष२० यत्वात् / यत्र च विभिन्नविषयत्वं तत्रान्योन्यं भेदः यथा रूप-रसादिज्ञाने, अस्ति च विभिन्न विषयत्वम् 'इदं रजतम्' इति ज्ञाने इति / इत्थं प्रत्यक्षात् स्मृतिविभिन्नापि 'प्रमुष्टा' इति न विवेकेन प्रतिभासते इत्यविवेकख्यातिः, न तु एकमेवेदं ज्ञानम् ; तथात्वेन तदुत्पत्तौ कारणाऽभावात् / तत्र हि कारणम्-इन्द्रियम् , अन्यद्वा ? न तावदन्यत् ; उपरतेन्द्रियव्यापारस्यापि तदु त्पत्तिप्रसङ्गात् / नापीन्द्रियम् ; तद्धि रजतसदृशे शुक्तिशकले सम्प्रयुक्तं सत् तत्र निर्विकल्पकमु२५ पजनयत् सविकल्पकमपि तत्रैवोपजनयेत् न रजते; तस्य इन्द्रियेणाऽसम्बन्धाद् अवर्तमानत्वाच / प्रमेयक० पृ० 8 उ० / न्यायवि. वि. पृ० 384 पू० / सन्मति० टी० पृ. 499 / स्या० रत्ना० पृ. * 76 / रत्नाकराव. पृ० 18 / शास्त्रवा० टी० पृ० 156 / इत्यादिषु द्रष्टव्यम् / 1 विपर्ययविषये / २-न्य वि-भां० / 3 " विज्ञानद्वयञ्चैतद् इदमिति प्रत्यक्षं रजतमिति स्मरणम् / " बृह० टी० पृ. 51 / प्रकरणपं० पृ. 43 / 4 “न ह्यन्यसम्प्रयुक्त चक्षुष्यन्यालम्बनस्य ज्ञानस्य उत्पत्तिः संभवति अन्धस्याऽनुत्पादात् / " बृह० पृ. 50 / “न हि तदिन्द्रियजम् तेन सम्प्रयोगाऽभावात् , असंयुक्त च इन्द्रियं विज्ञानं न जनयति" बृह० टी० पृ. 51 / प्रकरणपं० पृ. 34 /