________________ लधी० 113.] निर्विकल्पकप्रत्यक्षवादः खलु वस्तुस्वरूपं तन्नाऽस्पष्टत्वहेतुः यथा नीलत्वादि, वस्तुस्वरूपञ्च विशेषणविशिष्टत्वादिकमिति / परोक्षाकारोल्लेखित्वञ्च यत्रास्ति तत्र अस्पष्टत्वमप्यस्तु, नान्यत्र / न हि सर्वत्र विकल्पः परोक्ष एवार्थे प्रवर्तते; वर्तमाने पुरोवर्तिन्यप्यर्थे स्पष्टाकारोल्लेखमुखेन तत्प्रवृत्तिप्रतीतेः / नापि अर्थसन्निधिनिरपेक्षता विकल्पलक्षणम् ; पुरोवर्तिन्यर्थे सत्येव अस्येदन्तया प्रवृत्तेः, न हि ईदृशो विकल्पोऽसन्निहितेऽर्थे संभवति / अतश्च सन्निहितार्थलक्षणत्वेऽपि यदि अस्याऽप्रत्य- 5 क्षता, न किञ्चित् प्रत्यक्षं स्यात् / __नापि अनक्षप्रभवता तल्लक्षणम् ; अक्षाऽन्वयव्यतिरेकानुविधायित्वतः अक्षप्रभवत्वस्यात्रैवावसायात्, न हि निर्विकल्पकम् अक्षव्यापारानन्तरं कदाचिदप्युपलभ्यते / अर्थसाक्षात्कारिणश्वास्याऽक्षप्रभवत्वं भवति / न चाऽविकल्पस्य तत्साक्षात्कारित्वं संभवति; स्वरूपेणाप्यस्याऽप्रसिद्धत्वात् / यत् स्वरूपेणाऽप्रसिद्धं न तद् अर्थसाक्षात्कारि यथा वन्ध्यास्तनन्धयविज्ञानम् , स्वरू- 10 पेणाप्रसिद्धञ्च अविकल्पकत्वाभिमतं विज्ञानमिति / धर्मान्तरारोपोऽपि न तल्लक्षणम् ; विकल्पे हि कस्य धर्मान्तरमारोप्यते ? निर्विकल्पकस्य चेत् ; किं तद्धर्मान्तरम् ? वैशंद्यञ्चत् ; 'वन्ध्यासुतसम्बन्धि तत् तत्रोरोप्यते' इत्यपि किन्न स्यात् ? 'तस्य तद्धर्माधारतयाऽप्रसिद्धः कथं तत् तत्रारोप्यते' इत्यन्यत्रापि समानम् / न खलु निर्विकल्पमपि प्रामाणिकस्य अनन्यमनसो विस्फारिताक्षस्य तद्धर्माधारतया कदाचिदपि प्रसि- 15 द्धम् , इति अक्षव्यापारप्रभवं वैशद्याध्यासितं स्वार्थसाक्षात्कारि व्यवसायात्मकं प्रत्यक्षं प्रतिपत्तव्यम् / ततो भवत्परिकल्पितप्रत्यक्षलक्षणस्याऽनुपंपत्तेः 'स्वसंवेदनेन्द्रिय' इत्यादिना तद्भेदोपवर्णनम् आकाशकुशेशयसौरभव्यावर्णनप्रख्यमित्युपेक्षते / 1 "कुतः पुनरेतद् विकल्पोऽर्थानोत्पद्यत इति ? अर्थसन्निधिनिरपेक्षत्वात् / " न्यायवि० पृ० 15 / 2 विकल्पस्य / ३-णश्वाक्ष-ब०, ज०, भां० / 4 निर्विकल्पकस्य / 5 विकल्पलक्षणम् / 6 वैशद्यारोपस्य भङ्गयन्तरेण विस्तृतचर्चा न्यायविनिश्चयटीकायाम् (पृ. 42-47 ) द्रष्टव्याम् / 7 वन्ध्यासुतसमन्वितं न चारोप्यते ब०, ज०। 8 वैशद्यम् / 9 विकल्पे / 10 वन्ध्यासुतस्य वैशद्यधर्माधारतया / 11 बौद्धसम्मतं केवल निर्विकल्पकप्रामाण्य पक्षं वैयाकरणसम्मतं केवलसविकल्पकप्रामाण्यपक्षञ्च निराकृत्य निर्विकल्पकसविकल्पकोभयप्रामाण्यं व्यवस्थापयितु कुमारिलेन चर्चा कृतास्ति मी० श्लो. प्रत्यक्षसू० श्लो० 86-145 / सैव चर्चा वाचस्पतिमिश्रेण न्यायवा० ता. टीकायाम् (पृ. 133137 ) भट्टजयन्तेन न्यायमञ्जाम् (पृ. 92-100) श्रीधराचार्येण च प्रशस्तपा० कन्दल्यां (पृ. 189-194) भङ्ग्यन्तरेण विस्तरमुपनीता दृश्यते / सामान्यतो निर्विकल्पकप्रामाण्यप्रत्यवस्थानं प्रकरणपञिकायाम् (पृ. 47-51 ) द्रष्टव्यम् / " प्रत्यक्षनिर्देशवदप्यसिद्धमकल्पकं ज्ञापयितु घशक्यम् / विना च सिद्धेर्न च लक्षणार्थो न तावकद्वेषिणि वीर सत्यम् // 33 // " इत्यनेन प्रतिषिहितं युक्तधनुशासने निर्विकल्पकलक्षणम् / निर्विकल्पकस्य विविधरोत्या खण्डनं तु-तत्त्वार्थरा० पृ० 39 / अनेका. प० पू० 2: / सिद्धिवि. टी. प्रत्यक्षसि. पू. 32 / तत्त्वार्थश्लो. पू. 185 / प्रमाणपरी० पु. 53 /