________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० विषयत्वं विकल्पानामपि स्यात् / अन्यतोऽपि पूर्वज्ञानात् , उत्तरज्ञानात् , अन्वितरूपात्प्रतिपत्तुर्वा तदेकत्वाध्यवसाय: स्यात् ? न तावत्पूर्वज्ञानात् ; तस्य तत्काले प्रध्वस्तत्वात् / नापि उत्तरज्ञानात् ; तत्काले तयोरभावात् / तथैव तवयस्यापि निर्विकल्पकस्य सविकल्पकस्य वा सतोर्न तदेकत्वाध्यवसायहेतुत्वं युक्तम् ; उभयत्रोभयदोषानुषङ्गात् / नाप्यन्वितरूपात्प्रतिपत्तः तदेकत्वाध्यवसायः ; तस्य सौगतैरनभ्युपगमात् / ततः प्रतीतितो वस्तुव्यवस्थामभ्युपगच्छता एकमेवानुभवसिद्धस्वार्थव्यवसायात्मकं प्रत्यक्षं प्रतिपत्तव्यम् , स्वपरपरिच्छित्तेः सकलव्यवहारिणाञ्च तन्मुखप्रेक्षित्वात्। तस्यैव ‘अविकल्पकम् ' इति नामान्तरकरणे न किञ्चिदनिष्टम् , संज्ञाभेदस्य अर्थभेदाऽप्रसाधकत्वात् / 'जात्याद्युल्लेखः कल्पना' इत्यप्यविरुद्धम् ; जात्यादीनां विशेषणविशेष्यभूतानां परमार्थसतां व्यामोहविच्छेदेनावसायस्य कल्पनात्वोपपत्तेः / ___यदप्युक्तम्-'यद् यदर्थसाक्षात्कारप्रवृत्तं ज्ञानम्' इत्यादि; तत्र कोऽयं विशेषणविशेष्याद्याकारो नाम योऽर्थसाक्षात्करणप्रवृत्ते ज्ञाने प्रतिषिद्ध-थेत्-प्रतिबिम्बम् , उल्लेखो वा ? प्रतिबिम्बम्चेत् ; सिद्धसाध्यता, ज्ञाने तत्प्रतिषेधस्य अस्माभिरप्यभ्युपगमात् , सकलज्ञानानां निराकारत्वप्रतिज्ञानात् / अथ उल्लेखः; तन्निषेधोऽनुपपन्नः; प्रमाणस्य यथावस्थितार्थस्वरूपोद्योतक त्वात् , तत्स्वरूपञ्च जात्यादिविशिष्टं ‘गौः' 'शुक्लः ' 'चरति' इत्यादिप्रत्ययात् प्रसिद्धम् / 15 न खलु प्रतीयमानस्याऽपलापो युक्तः; सर्वत्राऽनाश्वासप्रसङ्गात्। जात्यादिसद्भावः तद्विशिष्टत्वञ्च अर्थानां विषयपरिच्छेदे प्रपञ्चतः प्रतिपादयिष्यते इत्यलमतिप्रसङ्गेन / ___ अथ अस्पष्टाकारता विकल्पस्वरूपम् , तच्चास्य विकल्पकत्वादेव सिद्धयति; तथाहि-यत् सविकल्पकं ज्ञानं तदस्पष्टम् यथा अनुमानम् , तथाचेदं विवादापन्नं ज्ञानम् ; इत्यप्यसाम्प्र तम् ; निर्विकल्पकत्व-सविकल्पकत्वाभ्यां ज्ञानानां स्पष्टत्वाऽस्पष्टत्वयोरप्रसिद्धः, स्वसामग्रीविशेषा२० देव तेषां तत्प्रसिद्धः। कथमन्यथा प्रत्ययत्वात् प्रत्यक्षमपि अनुमानवदस्पष्टं न स्यात् ? अन्यो न्याश्रयश्च; अस्पष्टाकारत्वे हि सिद्धे सविकल्पकत्वसिद्धिः, तत्सिद्धौ च अस्पष्टाकारत्वसिद्धिरिति / किञ्च, अस्य अस्पष्टता विशेषणविशिष्टार्थग्राहित्वात् , एकत्वपरामर्शित्वात् , परोक्षाकारोल्लेखित्वाद्वा स्यात् ? तत्र आद्यपक्षद्वयमयुक्तम् ; वस्तुस्वरूपस्य अस्पष्टत्वाऽहेतुत्वात् / यत् 1 पूर्वज्ञानस्य निर्विकल्पकसविकल्पककाले / 2 तथैतद्वयस्यापि ब०, ज० / ३-हाराणाब०, ज०। 4 स्वार्थव्यवसायात्मकप्रत्यक्ष / 5 “न च जात्यादिरूपत्वमर्थस्याऽसिद्धमजसा / निर्बाधबोधविध्वस्तसमस्ताऽऽरेकितत्त्वतः // 19 // " तत्त्वार्थश्लो० पृ. 186 / 6 पृ० 47 पं० 6 / ७-कारित्व-ज०। 8 "विकल्पज्ञानं हि सङ्केतकालदृष्टत्वेन वस्तु गृहत् शब्दसंसर्गयोग्यं गृह्णीयात् / सङ्केतकालदृष्टत्वञ्च सङ्केतकालोत्पन्नज्ञानविषयत्वम् / यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं सम्प्रत्यसत् तद्वत्पूर्वविनष्टज्ञानविषयत्वमपि सम्प्रति नास्ति वस्तुनः, तद् असद्रूपं वस्तुनो गृह्णद् असन्निहितार्थग्राहित्वात् अस्फुटाभम् / अस्फुटाभत्वादेव च सविकल्पकम् / " न्यायवि० टी० पृ० 21 / ९-तम् विकल्पत्वाविकल्पत्वाभ्याम् भां० /