________________ लघी० 1 / 3] निर्विकल्पकप्रत्यक्षवादः मिच्छता व्यवसायात्मकं तत् प्रतिपत्तव्यम् , निर्व्यापारम्य अननुभूयमानस्वरूपस्यास्य अपरप्रकारेण सन्निकर्षाद् भेदाऽप्रसिद्धः। ननु ‘पश्यामि' इत्येवंभूतो विकल्प एवाऽध्यक्षस्य व्यापारः, तत्कथं निर्व्यापारता ? इत्यप्यसुन्दरम् ; तद्व्यवसायात्मकत्वप्रसङ्गात् / न खलु व्यापारः तद्वतो भिन्नो भवद्भिरङ्गीक्रियते; तत्स्वभावत्वात्तस्य / अथ तत्कार्यत्वात् ततो भिन्नोऽसौ; कथं तर्हि तद्व्यापारः ? न हि 5 पुत्रः पितुर्व्यापारो भवति / अस्तु वा; तथापि-यदि अविकल्पकाध्यक्ष व्यवसायस्वभावता न स्यात् तदा तत्प्रभवविकल्पेऽपि कुतोऽसौ स्यात् ? स हि बोधरूपतया, विलक्षणसामग्रीप्रभवतया वा व्यवसायस्वभावतां स्वीकुर्यात् ? यदि बोधरूपतया; तदाऽसौ प्रत्यक्षेऽप्यस्ति, इति तदपि व्यवसायस्वभावतां स्वीकुर्यात् / तदंविशेषेऽपि 'यस्य साक्षादर्थे ग्रहणव्यापारः तन्न निश्चिनोति, यस्य तु तद्व्यापारोपजीवित्वम् अंसौ निश्चिनोति' इति असेः कोशस्य तीक्ष्णता। 10 विलक्षणसामग्रीप्रभवता च अनयोः भेदे सिद्ध सिद्धयेत् , न च विकल्पव्यतिरेकेण अविकल्पकस्वरूपं स्वप्नेऽपि प्रसिद्धम् / एकमेव हीदं स्वार्थव्यवसायात्मकमिन्द्रियादिसामग्रीतः समुत्पन्नं विज्ञानमनुभूयते, न तत्र स्वरूपभेद: सामग्रीभेदो वा कश्चित् कदाचित् कस्यचित् प्रतिभाति अन्यत्र महामोहाक्रान्तान्तःकरणात् सौगतात् / कथञ्चैवं बुद्धिचैतन्ययोर्भेदं प्रतिवर्णयन् साङ्ख्य: प्रतिक्षिप्येत ? विकल्पाऽविकल्पयोरिव अनयोरप्रतिपन्नस्वरूपयोरपि अभ्युपगममा- 15 त्राद् भेदसिद्धिप्रसङ्गात्। तयोरेकत्वाध्यवसायाद् भेदेनाऽप्रतिपत्तिरित्यपि उभयत्र समानम् / किञ्च, उभयो देन स्वरूपसंवितौ अन्यस्य अन्यत्राऽध्यारोपाद् एकत्वाध्यवसायो युक्तः अग्निमाणवकवत् , न च विकल्पाऽविकल्पयोः क्वचित् कदाचित् कस्यचित् संवित्तिरस्ति इत्युक्तम् / एकत्वाध्यवसायश्च अनयोः अन्यतरस्मात् , अन्यतो वा स्यात् ? अन्यतरस्माचेत्; 'किं विकल्पात् , निर्विकल्पकाद्वा ? न तावन्निर्विकल्पकात्; तस्य परामर्शशून्यतया एकत्वाध्य- 20 वसायाऽसमर्थत्वात् / नापि विकल्पात् ; तस्य निर्विकल्पकाऽविषयत्वात् / यद् यद्विषयं न भवति न तत् तस्य केनचिदेकत्वमध्यवस्यति, यथा घटविषयं विज्ञानं परमाण्वविषयत्वान्न तस्य घगदिना एकत्वमध्यवस्यति, निर्विकल्पकाऽविषयञ्चेदं विकल्पज्ञानमिति / तद्विषयत्वे वा स्वलक्षण 1 “अधिगमोऽपि व्यवसायात्मैव, तदनुत्पत्तौ सतोऽपि दर्शनस्य साधनान्तरापेक्षया सन्निधानाऽभेदात् सुषुप्तचैतन्यवत् / सन्निधानं हि इन्द्रियार्थसन्निकर्षः / " अष्टश०, अष्टसह पृ० 75 / 2 बोधरूपताऽविशेषेऽपि / 3 निर्विकल्पकस्य / 4 निर्विकल्पकव्यापार / 5 विकल्पः / 6 निर्विकल्पक-सविकल्पकयोः। 7 "कथश्चैवं कापिलानां बुद्धिचैतन्ययो)दोऽनुपलभ्यमानोऽपि न स्यात् ?" प्रमेयक० पृ. 8 पू० / स्या. रत्ना• पृ. 79 / 8 " तदेकत्वं हि दर्शनमध्यवस्यति, तत्पृष्ठजो व्यवसायो वा, ज्ञानान्तरं वा ?" प्रमाणपरी• पृ. 53 / प्रमेयक. पृ. ९उ.। सन्मति० टी. पृ. 500 / “कोऽयं तदध्यारोपो नाम ? दृश्यप्राप्ययोरेकत्वग्रहणम् इति चेत् / न तर्हि इदं प्रत्यक्षतः संभवतिः तस्य स्वलक्षणपर्यवसितवस्तुविषयत्वेन अभ्यनुज्ञानात् / " "न्यायवि. वि. पृ० 54 उ०। 9 परमाणोः /