________________ 48 लघीयस्यालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० सविकल्पकत्वं स्यात् / उभयपक्षेऽपि उभयदोषानुषङ्गः, एकत्रोभयरूपताविरोधश्च / अतः अभिलापवत्प्रतिभासंरय कल्पनालक्षणत्वाऽनुपपत्तेः 'यो यत्र शब्दो न निवेशितः' इत्यादि प्रत्याख्यातम्। ___ अथ निश्चयः कल्पनोच्यते; सत्यमेतत् ; तद्रहितत्वं तु प्रत्यक्षस्याऽसत्यम् ;प्रमाणस्याऽनिश्चया५ त्म कत्वानुपपत्तेः ; तथाहि-प्रत्यक्षं स्वार्थव्यवसायात्मकं प्रमाणत्वाद् अनुमानवत् / यत्पुनः स्वयमनिश्चितस्वरूपम् अर्थाऽनिश्चयात्मकञ्च न तत्प्रमाणम् , यथा पुरुषान्तरज्ञानं संशयादिज्ञानेश्च। न खलु स्वार्थाऽव्यवसायात्मकत्वं विहाय आत्मान्तरज्ञानस्य संशयादेश्वाऽप्रामाण्ये अन्यन्निबन्धनमस्ति , तच्चे परैः प्रत्यक्षे प्रतिज्ञायमानम् अप्रामाण्यमन्वाकर्षति / निश्चयो हि संशयादिव्यवच्छेदेन अर्थस्वरूपावधारणम् , तद्रूपता च प्रमाणस्य प्रमाणशब्दस्य निरुक्तयैवाऽ१० वसीयते। तथाहि-प्रकर्षेण संशयादिव्यवच्छेदलक्षणेन मीयते परिच्छिद्यते येनाऽर्थः तत् प्रमा णम् , न चैतन्निर्विकल्पके संभवतीति कथं तत्र प्रमाणशब्दस्यापि प्रवृत्तिः ? व्यवहाराऽनुपयोगित्वाच्च न तँत् प्रमाणम् , यद्व्यवहारानुपयोगि न तत् प्रमाणम् यथा गच्छत्तणस्पर्शसंवेदनम् , तथा च परपरिकल्पितं निर्विकल्पकं प्रत्यक्षमिति / व्यवहारञ्चाङ्गीकृत्य भवद्भिः प्रमाणचिन्ता प्रतन्यते, "प्रामाण्यं व्यवहारेण" [प्रमाणवा 0 2 / 5] इत्याद्यभिधानात् / न चाऽविकल्पकस्य 15 प्रवृत्त्यादिव्यवहारप्रसाधकत्वमस्ति; स्वार्थाऽनिश्चायकात् 'ततोऽनध्यवसायादिवद् व्यवहारिणां कचित्प्रवृत्त्याद्यनुपपत्तेः। ननु निर्विकल्पकमपि प्रत्यक्षं व्यतिरिक्तविकल्पोत्पादकत्वतः प्रवर्तकत्वात् प्रमाणतां प्रतिपद्यते ; इत्यपि श्रद्धामात्रम् ; तस्याऽविदितस्वरूपस्य सन्निकर्षादविशेषप्रसङ्गात् , 'तैस्यापि हि इत्थं प्रवर्तकत्वमुपपद्यते / न च चेतनाऽचेतनत्वकृतस्तयोर्विशेषः ; निर्विकल्पकप्रत्यक्षस्यापि 20 चेतनत्वाऽप्रसिद्धः। परनिरपेक्षतया स्वरूपोपदर्शकं हि चेतनमुच्यते, न चाऽविकल्पकाध्यक्षं स्वप्नेऽपि तथा" स्वरूपमुपदर्शयतीति कथं तच्चेतनं यतः सन्निकर्षाद्विशेष्येत ? अतः तद्विशेष -सत्वस्य ज० / 2 “स्वार्थव्यवसितिस्तु स्यात् कल्पना यदि सम्मता। तदा लक्षणमेतत् स्यादसम्भाव्येव सर्वथा // 12 // " तत्त्वार्थश्लो० पृ० 185 / 3 तु तत्प्र-भां० / ४-नं वा-ब०, ज० / 5 स्वार्थाऽव्यवसायात्मकत्वम् / ६-शब्दनिरु-ब०, ज०, भां० / 7 निर्विकल्पकम् / ८-चेदं प-ब०, ज०, भां० / 9 “प्रामाण्यं व्यवहारेण शास्त्र मोहनिवर्त्तनम् / अज्ञातार्थप्रकाशो वा स्वरूपाधिगतेः परम् // " प्रमाणवा० 2 / 5 / 10 अविकल्पकात् / 11 " तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति / अकृते त्वध्यवसाये नीलबोधरूपत्वेनाऽव्यवस्थापितं भवति विज्ञानम् , तथा च प्रमाणफलम् अर्थाधिगमरूपत्वमनिध्पन्नम् , अतः साधकतमत्वाभावात् प्रमाणमेव न स्याज्ज्ञानम् / " न्यायबि० टी० पृ. 27 / “अविकल्पमपि ज्ञान विकल्पोत्पत्तिशक्तिमत् / निःशेषव्यवहाराङ्ग तवारेण भवत्यतः // 1306 // " तत्त्वसं. प्र० 19. / 12 सन्निकर्षस्यापि / १३-तनकृतः-आ०, ब०, ज० / 14 परनिरपेक्षतया /