________________ 47 लघी० 1 / 3] . निर्विकल्पकप्रत्यक्षवादः न तत् तस्याकारमनु विधत्ते यथा रसादुत्पन्नं रसंज्ञानं नाऽजनकरय रूपादेः, नीलाद्यर्थादेवोत्पन्नव्चेन्द्रियज्ञानमिति / ततो यदेव ज्ञानमर्थसंसृष्टं वाचकत्वेन शब्दं प्रतिपद्यते तदेव सविकल्पकम् , नान्यत् / अत एव योगिज्ञानमनेक शब्दार्थप्रतिभासमपि योजनाऽभावान्न सविकल्पकम् , विशेषणविशिष्टार्थग्रहणाभावाच्च अविकल्पकं प्रत्यक्षम् / न खलु विशेषणविशिष्टता प्रत्यक्षेण ग्रहीतुं शक्या, तुल्यकालस्याऽर्थद्वयस्य तत्र प्रतिभासनात् / न च स्वरूपमात्रेण प्रती- 5 यमानयोः विशेषणविशेष्यभावः; अतिप्रसङ्गात् / प्रयोगःयद् यदर्थसाक्षात्करणप्रवृत्त(त्तं )ज्ञानं तत् तत्स्वरूपव्यतिरिक्त-विशेषणविशेष्याकार-तत्संयोजनास्वभाव-कल्पनाकारं न भवति, यथा रूपाद्याकारप्रवृत्तचक्षुरादिज्ञानम् अविषयीकृतगन्धादिविशेषणयोजनाकारं न भवति, तथा च सर्व स्वविषयप्रवृत्तं ज्ञानमिति। ___ तच्च इत्थम्भूतं प्रत्यक्षम् स्वसंवेदन-इन्द्रिय-मनो-योगिप्रत्यक्षविकल्पाच्चतुर्धा भिद्यते / तत्र 10 " सचित्तचैत्तानामात्मसंवेदनं स्वसंवेदनम्" [ न्यायवि० पृ० 16 ] " इन्द्रियार्थसमनन्तरप्रत्ययप्रभवम् इन्द्रियप्रत्यक्षम्' [ ] " स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनःप्रत्यक्षम्' [ न्यायवि० पृ० 18 ] “भूतार्थभावनाप्रकर्षपर्यन्तजं योगिप्रत्यक्षम्" [ न्यायवि० पृ० 20 ] इति / अत्र प्रतिविधीयते। यत्तावदुक्तम् -'कल्पनापोढम्' इत्यादि; तत्र केयं कल्पना-अभिलापव- 15 . प्रतिभासः, निश्चयः, जात्याद्युल्लेखः, अस्पष्टाकारता, अर्थ - सन्निधिनिरपेक्षता, अनक्षप्रभवता, धर्मान्तरारोपो वा ? तत्रापुरस्सरं सविकल्पकप्रामाण्यव्यवस्थापनम- द्यपक्षोऽयुक्तः / प्रतिभासस्याऽभिलापर्वत्त्वानुपपत्तेः। तद्धि तत्स्व भावत्वात् , तद्धेतुत्वाद्वा स्यात् ? न तावत्तत्स्वभावत्वात्, चेतनाऽचेतनयोः विरुद्धधर्माध्यासतः तादात्म्याऽसंभवात् / ययोर्विरुद्धधर्माध्यासः न तयोस्ता- 20 दात्म्यम् यथा जलाऽनलयोः, विरुद्धधर्माध्यासश्च चेतनाऽचेतनरूपतया शब्द-ज्ञानयोरिति / अतः तत्स्वभावशून्यतया प्रत्यक्षस्याऽविकल्पकत्वसाधने सिद्धसाधनम् / नापि तद्धेतुत्वात् ; तद्धि तज्जन्यत्वम् , तज्जनकत्वम्, उभयं वा ? तजन्यत्वेन तद्वत्त्वे, श्रोत्रज्ञानस्य अविकल्पकत्वं न स्यात् , तस्याऽभिलापप्रभवतया तद्वत्त्वप्रसङ्गात् / तजनकत्वात्तद्वत्त्वे, प्रकृति-प्रत्ययादिप्रत्यक्षस्य 1 रासनज्ञानं ज० | २-ज्ञानं ततो आ०, ब०, ज० / 3 पृ० 46 पं० 2 / ४-ल्पना नामभां० / “प्रत्यक्ष कल्पनापोढमभ्रान्तमिति केचन / तेषामस्पष्टरूपा स्यात् प्रतीतिः कल्पनाऽथवा // 8 // स्वार्थव्यबसितिनान्या गतिरस्ति विचारतः। अभिलापवती वित्तिः तद्योग्या वाऽपि सा यतः // 9 // " तत्त्वार्थश्लो० पृ. 185 / “का चेयं कल्पना नाम-ज्ञानस्य स्मरणानन्तरभावित्वम् , शब्दाकारानुविद्धत्व वा, जात्याद्युल्लेखो वा, असदर्थविषयत्वं वा, अन्यापेक्षतया अर्थस्वरूपावधारणं वा, उपचारमानं वा ?" प्रमेयक० पृ० 18 उ०। ५-वत्तानु- आ० /