________________ लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० प्रत्यक्षरूपं ज्ञानं निर्विकल्पकम् , अनुमानरूपं तु सविकल्पकम् / तत्र निर्विकल्पकप्रत्यक्षस्य प्रामा प्रत्यक्ष लक्षणम् - "प्रत्यक्षं कल्पनापोढमभ्रान्तम्" [न्यायवि० पृ० 11] ण्यमिति बौद्धस्य पूर्वपक्षः इति / " अभिलापवती प्रतीतिःकल्पना" [ न्यायवि० पृ० 13 ] ततोऽपोढम् / न हि प्रत्यक्षेऽभिलापसंसृष्टार्थग्रहणं संभवति, तद्विषये सङ्केत-व्यवहारकालाs५ ननुयायिनि शब्दसन्निवेशाऽसंभवात् / यः सङ्केतव्यवहारकालाननुयायी न तत्र व्यवहारिभिः शब्दो निवेश्यते यथा उत्पन्नमात्रप्रध्वंसिनि क्वचिदर्थे, नान्वेति च नियतदेशकालाकारं स्वलक्षणं देशान्तरादाविति / अतः कथं तद्वैिशिष्टार्थग्रहणं प्रत्यक्षेण यतः सविकल्पकं तत्स्यात् ? यो यत्र शब्दो न निवेशितो न तद्विशिष्टस्य तस्य ग्रहणं यथा अनिवेशिताऽश्वशब्दस्य गोद्रव्यस्य नाऽश्वशब्दविशिष्टस्य ग्रहणम् , अनिवेशितश्च स्वलक्षणे कश्चिदपि शब्द इति / 10 किञ्च, अतीताद्यर्थ स्ववाचकसंसर्गेण विकल्पयतः पुरोवर्तिनि रूपादौ यदोत्पद्यते ज्ञानं तस्य कथं सविकल्पकता वर्तमानार्थनामसंसर्गस्य तदाऽनुपलब्धेः ? अर्थे च शब्दानामसंभवात् तत्तादाम्याभावाञ्च कथमर्थप्रभवे ज्ञानेऽजनकस्य शब्दस्य आकारसंसर्गः ? यद् यस्याऽजनक 1 "प्रत्यक्षं कल्पनापोढम् , यज्ज्ञानमर्थे रूपादौ नामजात्यादिकल्पनारहितम् / ' न्यायप्रवेश पृ. 7 / "प्रत्यक्षं कल्पनापोढं नामजात्याद्यसंयुतम् // 3 // " प्रमाणस० पृ. 8 / “प्रत्यक्ष कल्पनापोढमभ्रान्तमभिलापिनी। प्रतीतिः कल्पना क्लप्तिहेतुत्वाद्यात्मिका न तु // 1214 // " तत्त्वसं० पृ. 366 / "केचित्त स्वयूथ्या एव अभ्रान्तग्रहणं नेच्छन्ति, भ्रान्तस्यापि पीतशादिज्ञानस्य प्रत्यक्षत्वात् ; तथा हि-न तदनुमानम् अलिङ्गजत्वात् , प्रमाणञ्च अविसंवादित्वात् / अतएव आचार्यदिङ्नागेन लक्षणे न कृतमभ्रान्तग्रहणम् / " तत्त्वसं० पं० पृ. 394 / 2 “अथ कल्पना च कीदृशी? चेदाह-नामजात्यादियोजना / यदृच्छाशब्देषु नाम्ना विशिष्टोऽर्थ उच्यते डित्थ इति / जातिशब्देन जात्या गौरयम् गते / गुणशब्देषु गुणेन शुक्ल इति / क्रियाशब्देषु क्रियया पाचक इति / द्रव्यशब्देषु द्रव्येण दण्डा विषाणी इति / " प्रमाणस० टी० पृ. 12 / “वैभाषिकाः इन्द्रियविज्ञानं वितर्कविचारचैतासकसंप्रयुक्तं कल्पनामिच्छन्ति / योगाचारमतेन च तथागतज्ञानमद्वयं मुक्त्वा सर्वं ज्ञानं ग्राह्यग्राहकत्वेन विकल्पितं कल्पना / जात्यादिसंसृष्टं तु मनोज्ञानं कल्पना इत्यन्ये कथयन्ति / " न्यायबि० टी० टि० पृ. 21 / “कल्पना हि जातिद्रव्यगुणक्रियापरिभाषाकृतो वाग्बुद्धिविकल्पः / " तत्त्वार्थरा० पृ. 39 / 3 प्रत्यक्षविषये स्वलक्षणे / 4 "तत्र स्वलक्षणं तावन्न शब्दैः प्रतिपाद्यते / सङ्केतव्यवहाराप्तकालव्याप्तिवियोगतः // 872 // " तत्त्वसं० / “न च स्वलक्षणस्य सङ्केतव्यवहाराप्तकालव्यापकत्वमस्ति, तस्मान्न तत्र समयः” तत्त्वसं० पं० पृ. 277 / 5 "व्यक्तयात्मानोऽनुयन्त्येते न परस्पररूपतः। देशकाल क्रियाशक्तिप्रतिभासादिभेदतः // 873 // तस्मात् सङ्केतदृष्टोऽर्थो व्यवहारे न दृश्यते / " तत्त्वसं० पृ. 277 / 6 शब्दविशिष्टार्थ / 7 गोशब्दस्य आ० / 8 "न ह्यर्थे शब्दाः सन्ति तदात्माना वा अव्युत्पन्नस्यापि प्रतीतिप्रसङ्गात् / " तत्त्वसं. पं० पृ. 531, न्यायवा. ता. टी. पृ. 133 / “नह्यर्थे शब्दाः सन्ति तदात्माना वा येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरनिति वचनात् / " न्यायप्रवेशव. पृ. 35 / अष्टसह० पृ० 110 / सिद्धिवि०टी० पृ. 75 उ.।