________________ लघी० 113]. ज्ञातृव्यापारवादः किमात्मनो भिन्नः, अभिन्नो वा ? यद्यभिन्नः; तदा 'आत्मैव' इति प्रमाणतानुपपत्तिः। भेदे तु असम्बन्धात् तस्येति व्यपदेशानुपपत्तिः / तत्कार्यत्वात् 'तस्य 'इति व्यपदेशे, तस्य तत्कारित्वं किं व्यापारान्तरेण, अन्यथा वा ? यदि व्यापारान्तरेण; अनवस्था / अथ अन्यथा; तन्न; निर्व्यापारस्य कार्यकारित्वाभ्युपगमे व्यापारकल्पनानर्थक्यप्रसङ्गात् / अँचिद्रूपमपि वस्त्वन्तरम्-धर्मी, धर्मो वा स्यात् ? यदि धर्मी; लोष्ठवन्न प्रमाणं स्यात् / अथ धर्मः; कस्य ? 5 आत्मनः, अन्यस्य वा ? यद्यन्यस्य; न प्रमाणम् अतिप्रसङ्गात् / अथ आत्मनः; तन्न; अजडस्यास्य जडधर्मत्वविरोधात्। तन्न क्रियारूपो व्यापारो घटते। अक्रियारूपोऽप्यसौ किं बोधरूपः, अबोधरूपो वा ? बोधरूपत्वे अत्यन्तपरोक्षत्वविरोधः, तथाभूतस्य बोधरूपतानुपपत्तेः, तदनुपपत्तिश्च स्वसंवेदनसिद्धौ प्रसाधयिष्यते। अबोधरूपत्वे तु प्रमाणत्वानुपपत्तिः घटादिवत् , चिद्रूपस्यात्मनो अचिद्रूपव्यापारविरोधाच्च / ततो ज्ञातृव्यापारस्य उक्तन्यायेन विचार्य- 10 माणस्यानुपपत्तेः कथं प्रामाण्यं स्यात् ? ____ यदप्युक्तम् -'कारकस्य कारकत्वमपि क्रियावेशवशादेव' इत्यादि ; तत्सत्यमेव ; न हि परिस्पन्दात्मक परिदृश्यमानं कारकव्यापारमपद्रुमहे प्रतिकारकं विचित्रस्य बालादिव्यापारस्य प्रत्यक्षतः प्रतीतेः, अतीन्द्रियस्यैव व्यापारस्य भवत्कल्पितस्याऽपह्नवात् , तस्योक्तप्रकारेण कुतश्चिदपि प्रमाणादप्रतीतेः / न च नित्यैकरूपस्याऽपरिणामिनो ज्ञातुरन्यस्य वा व्यापारादिकार्यकारित्वं 15 घटते / एतच्च "अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः” इत्यत्रं प्रपञ्चतः प्रतिपादयिष्यते। ततः 'प्रमाणं ज्ञातृव्यापारोऽर्थप्राकट्यलक्षणे फले साधकतमत्वात्' इत्यादि, वन्ध्यासुतसौभाग्यव्यावर्णनप्रख्यतां प्रतिपद्यते, इत्युपरम्यते / तदेवम्-अज्ञानात्मनः सन्निकर्षादेविचार्यमाणस्यानुपपत्तेः, उपपत्तौ वा अर्थप्रमितौ मुख्यतः साधकतमत्वानुपपत्तितः प्रामाण्यस्यापि मुख्यतोऽनुपपत्तेः, 'तत्प्रमितौ मुख्यतः साधकतमज्ञानलक्षणप्रमाणोत्पादकत्वाद् उपचारादेव" 20 अत्रास्य प्रामाण्यं प्रेक्षादक्षैः प्रतिपत्तव्यम् / इति युक्तमुक्तम्-'सन्निकर्षादेरज्ञानस्य प्रामाण्यमनुपपन्नम् अर्थान्तरवत्' इति / ननु भवतु ज्ञानमेव प्रमाणम् / तत्तु द्विविधम्-निर्विकल्पकम् , सविकल्पकचेति / तत्र १-त्मैव प्रमा-आ० / 2 व्यापारमन्तरेण / 3 जडमपि ब०, ज०, भां० / 4 आत्मनः / 5 जडः धर्मो यस्य / 6 “अक्रियात्मको हि व्यापारो बोधरूपोऽबोधरूपो वा / 'प्रमेयक० पृ. 7 उ०, सन्मति० टी० पृ० 25 / 7 अत्यन्तपरोक्षस्य / ८-रोधश्च ब०, ज०, भां० / 9 पृ. 42 पं० 2 / 10 “न हि वयं परिस्पन्दात्मकं परिदृश्यमानं व्यापारमपढ्नुमहे, प्रतिकारकं विचित्रस्य ज्वलनादेापारस्य प्रत्यक्षमुपलम्भात् , अतीन्द्रियस्तु व्यापारो नास्ति इति ब्रूमहे / " न्यायमं० पृ० 18 / 11 लघी० प्रमाणप्र. कारि० 8 / 12 फले इत्या-आ०, ब०, ज० / १३-पत्तिः आ०, भां० / 14 अर्थप्रमितौ / १५देव तत्रास्य ब०, ज०,-देव तत्राप्यस्य भा० / १६-ण्यं परीक्षादक्षैः भां० /