________________ 44 __ लघीयत्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० किञ्च, असौ ज्ञातृव्यापारः कारकजन्यः, तदजन्यो वा ? न तावत्तदजन्यः ; तथाहिज्ञातृव्यापारो न कारकाऽजन्यः, व्यापारत्वात् , पाचकादिव्यापारवत् / किञ्च, असौ तदजन्यः सैन् भावरूपः, अभावरूपो वा स्यात् ? अभावरूपत्वे अर्थप्रकाशनलक्षणफलजनकत्वविरोधः / अविरोधे वा फलार्थिनः कारकान्वेषणमफलमेव स्यात् , विश्वमदरिद्रश्च स्यात् कारणाऽभावा५ देवाऽखिलप्राणिनामभिमतफलसिद्धः / अथ भावरूपः; तत्रापि किमसौ नित्यः, अनित्यो वा ? नियंत्वे सर्वस्य सर्वपदार्थप्रतिपत्तिप्रसङ्गात् प्रदीपादिकारकान्वेषणवैयर्थ्यम् , अन्ध-सुप्तादिव्यवहारोच्छेदानुषङ्गश्च स्यात् / अथाऽनित्यः; तदयुक्तम् ; भावस्वभावस्य अजन्यात्मनोऽर्थस्य अनित्यत्वविरोधात् / यो भावस्वभावोऽजन्यार्थो नाऽसौ अनित्यः यथाऽऽकाशादिः, तथाभूत श्वायं ज्ञातृव्यापार इति / अस्तु वा अनित्यः; तथाप्यसौ-कालान्तरस्थायी, क्षणिको वा ? प्रथ१० मपक्षे "क्षणिका हि सा न कालान्तरमवतिष्ठते" [ ] इति वचो विरुद्धयते / द्वितीयपक्षे तु क्षणादूर्ध्वम् अर्थप्रतिभासाभावप्रसङ्गाद् अन्धमूकं जगत्स्यात् / प्रतिक्षणमपरापरव्यापारोपगमे तु तदवस्थः सुप्ताद्यभावदोषानुषङ्गः, कारकाऽजन्यस्यास्य देशकालस्वभावप्रतिनियमाऽयोगात्। अथ कारकजन्योऽसौ, अस्त्वेतत् ; तथापि क्रियारूपः, अक्रियारूपो वा स्यात् ? यदि 15 क्रियारूपः; तदासौ क्रिया परिस्पन्दस्वभावा, अपरिस्पन्दस्वभावा वा स्यात् ? तत्राद्यविकल्पो ऽपेशलः; व्यापकत्वेनाऽऽत्मनः ताभूतक्रियाश्रयत्वानुपपत्तेः / यद् व्यापकं न तत् परिस्पन्दस्वभावक्रियाश्रयः यथा आकाशादिः, व्यापकश्च भवन्मते आत्मेति / यदि वा, परिस्पन्दस्वभावा क्रिया व्यापकद्रव्यवृत्तिर्न भवति यथा ध्वजादिक्रिया, परिस्पन्दस्वभावा च ज्ञातृव्या पारलक्षणा क्रियेति / तथा च तद्व्यापारस्य ज्ञातुरन्यत्राश्रितत्वप्रसङ्गात् कथं ज्ञातृव्यापार२० रूपता प्रमाणता वा स्यात् ? ध्वजाद्याश्रितस्योत्क्षेपणादिव्यापारस्यापि तत्प्रसक्तेः। द्वितीय विकल्पेऽपि अपरिस्पन्दः-परिस्पन्दाभावः, वस्त्वन्तरं वा ? यदि परिस्पन्दाभावः; तदाऽस्य फलजनकत्वानुपपत्तिः अभावस्य कार्यकारित्वविरोधात् , यथा चाऽस्य तत्कारित्वं विरुद्ध यते तथा अभावपरीक्षाप्रस्तावे सप्रपञ्चं प्रपञ्चयिष्यते। वस्त्वन्तरमपि किं चिद्रूपम् , अचिंद्रूपं वा ? चिद्रूपमपि-किं धर्मी, धर्मो वा ? यदि धर्मी; तदासौ प्रमाणं न स्याद् आत्मवत् / धर्मोऽपि 1 “किञ्चासौ ज्ञातृव्यापारः कारकैर्जन्योऽजन्यो वा ?" प्रमेयक० पृ० 7 पू०, सन्मति० टी० पृ० 25 / 2 ज्ञातुा - ब०, ज० / 3 सद् भावरू-आ०, ब०, ज०। “यद्यजन्यः तदाऽसौ अभावरूपः भावरूपो वा ?" प्रमेयक० पृ. 7 पू०, सन्मति० टी० पृ० 25 / 4 “तत्र यदि नित्या; तर्हि सर्वदा वस्तुनः क्रियायोगात् फलनिष्पत्तिप्रसङ्गः / " न्यायमं० पृ. 1815 शाबरभाष्ये तु (पृ. 32) "क्षणिका हि सा न बुद्ध्यन्तरकालमवस्थास्यते" इति / - प्रमेयक० पृ. 7 पू०, सन्मति० टी० पृ० 25, स्या. रत्ना० पृ. 122- इत्येतेषु 'न चिरकालमवतिष्ठते' इति पाठः। 6 परिस्पन्दस्वभाव / 7 क्रिया सा व्यापक आ०, ज०, भां० / 8 ज्ञातृव्यापारता / 9 जडं वा ब०, ज०, भा० /