________________ 43 लघी० 1 / 3] ज्ञातृव्यापारवादः प्रत्यक्षात्'; तत्किम् इन्द्रियार्थसंयोगंजात् , आत्ममनःसन्निकर्षप्रभवात् , स्वसंवेदनाद्वा ? तत्राद्यविकल्पोऽयुक्तः; चक्षुरादीन्द्रियाणां स्वसम्बद्ध ग्रहणयोग्ये चार्थे ज्ञानजनकत्वाभ्युपगमात् / न च ज्ञातृव्यापारेण सह तेषां सम्बन्धः संभवति; प्रतिनियतै रूपादिभिरेवैषां सम्बन्धसंभवात् , अत्यन्तपरोक्षतया तस्य ग्रहणायोग्यत्वाच्च / अस्तु वा तस्य तैः सम्बन्धः, ग्रहणयोग्यता च; तथाप्य॑सौ चक्षुरादिसहायः स्वविषयविज्ञानमुत्पादयन् अपरज्ञातृव्यापारसहकृत उत्पादयति, 5 असहकृतो वा ? प्रथमपक्षे, अनवस्था-तद्व्यापारस्यापि अपरतद्व्यापारसापेक्षस्य स्वविषयविज्ञानोत्पादकत्वप्रसङ्गात् / द्वितीयपक्षस्त्वनुपपन्नः; अपरतद्व्यापाराऽसहकृतस्यास्य कर्मभूतस्य स्वविषयविज्ञानजनकत्वानुपपत्तेः। तथाहि-ज्ञातृव्यापारः स्वविषयं विज्ञानमपरज्ञातृव्यापारसहकृत एवोत्पादयति, कर्मतया स्वविषयविज्ञानोत्पादकत्वात्, घटादिवत् / तथाभूतस्याप्यस्य 'तेदसहकृतस्य तज्जनकत्वे घटादेरपितन्निरपेक्षस्यैव स्वविषयविज्ञानजनकत्वप्रसङ्गाद् अलं ज्ञातृ- 10 व्यापारपरिकल्पनया। एतेन द्वितीयपक्षोप्यपास्तः; प्रतिपादितदोषाणां तत्राप्यनुषङ्गाऽविशेपात् / न च ग्रहणाऽयोग्ये वस्तुनि आत्ममनःसन्निकर्षप्रभवं प्रत्यक्षं प्रवर्तितुमुत्सहते, तद्योग्य एव सुखादावस्य प्रवृत्तिप्रतीतेः। भवत्कल्पितयोः नित्यनिरंशस्वभावयोः व्यापकाऽणुरूपयोः आत्ममनसोः प्रमाणतोऽप्रसिद्धेश्च / तदप्रसिद्धिञ्च षट्पदार्थपरीक्षायां आत्म-मनोद्रव्यपरीक्षावसरे प्रपञ्चतः प्रतिपादयिष्यामः। नापि स्वसंवेदनात्तत्सिद्धिः; अनभ्युपगमात् , अत्यन्त- 15 परोक्षे तस्मिन् स्वसंवेदनविरोधाच्च / तन्न प्रत्यक्षाज्ज्ञातृव्यापारसिद्धिः / / नाप्यनुमानात् ; “ज्ञातसम्बन्धस्यैकदेशदर्शनादसनिकृष्टेऽर्थे बुद्धिः" [ शाबरभा० 1 / 1 / 5 पृ० 36 ] इत्येवंरूपत्वात्तस्य / 'सम्बन्धप्रतिपत्तिश्च प्रत्यक्षतः, अनुमानाद्वा स्यात् ? न तावत्प्रत्यक्षतः / ज्ञातृव्यापारस्य अत्यन्तपरोक्षतयाभ्युपगमे अर्थप्राकट्यलक्षणहेतोः तत्सम्बद्धत्वेन प्रत्यक्षतः प्रतिपत्तेरनुपपत्तेः, उभयस्वरूपग्रहणे हि 'इदमनेन सम्बद्धम्' इति सम्बन्ध- 20 प्रतीतिर्युक्ता अग्निधूमवत् / नाप्यनुमानात् ; अनवस्थाप्रसङ्गात्-तदपि ह्यनुमानं निश्चितप्रतिबन्धाद्धेतोरुत्पद्यते तत्प्रतिबन्धनिश्चयश्च अनुमानान्तरादिति / प्रथमानुमानात्तन्निश्चये च इतरेतराश्रयः / एतेन अर्थापत्तितोऽपि ज्ञातृव्यापारसिद्धिः प्रत्युक्ता ; 'तंदुत्थापकस्याप्यर्थस्य साध्यसम्बन्धसिद्धावेव गमकत्वोपपत्तेः, नान्यथा अतिप्रसङ्गात् , तत्सिद्धौ चोक्तदोषानुषङ्गः / १-क्षात् किम् भां० / २-संप्रयोगात् आ० / ३-द्धे प्रत्यक्षग्रहण-ब० / 4 इन्द्रियाणाम् / 5 ज्ञातृव्यापारस्य / 6 ज्ञातृव्यापारः / 7 “अथ कारकनिर्वा क्रिया, साऽपीदानी कार्यत्वात् सव्यापारकारककार्या भवेद् इत्यनवस्था / " न्यायमं० पृ० 18 / 8 अपरज्ञातृव्यापार / 9 ज्ञातृव्यापारस्य / 10 कर्मतया स्वविषय विज्ञानोत्पादकस्य / 11 ज्ञातृव्यापाराऽसहकृतस्य / 12 ज्ञातृव्यापारनिरपेक्षस्यैव / 13 “अनुमान ज्ञातसम्बन्धस्यैकदेशदर्शनाद् एकदेशान्तरेऽसन्निकृष्टेऽर्थे बुद्धिः / " शाबरभा• पृ० 36 / 14 “स च सम्बन्धः किमन्वयनिश्चयद्वारेण प्रतीयते, व्यतिरेकनिश्चयद्वारेण वा ? प्रथमपक्षे किं प्रत्यक्षेण, अनुमानेन वा तन्निश्चयः ?" प्रमेयक० पृ. 6 उ०, सन्मति. टी. पृ०२०। 15 अर्थापत्त्युत्यापफ /