________________ लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० पारस्य तु भविष्यति; तमन्तरेण अर्थप्रकाशताख्यफलाऽनिष्पत्तेः / ज्ञातृव्यापारप्रामाण्यवादे प्राभाकरस्य पूर्वपक्षः न हि व्यापारमन्तरेण कार्यस्योत्पत्तिः अतिप्रसङ्गात् / कारकस्य कारकत्वमपि क्रियावेशवशादेव उपपद्यते, 'करोतीति कारकम् / इति व्युत्पत्तेः, इतरथा हि तद् वस्तुमात्रं स्यान्न कारकम् , “क्रियाविष्टं द्रव्यं कारकम् " [ ] इत्यभिधानात् / न च तन्मात्रं फलार्थिभिरुपादीयते; अभिप्रेतप्रयोजनप्रसाधकस्यैव तैरुपादानात् / ततो यथा कारकाणि तन्दुल-सलिला-ऽनल-स्थाल्यादीनि सिद्धस्वभावानि असिद्धस्वभावपाकलक्षणधात्वर्थ साधयितुं संसृज्यन्ते, संसृष्टानि च क्रियामुत्पादयन्ति, तथा आत्मेन्द्रियमनोऽर्थसम्प्रयोगे सति ज्ञातुर्व्यापारोऽर्थप्राकट्यहेतुरुपजायते अंतोऽसौ प्रमाणम् , अर्थ प्राकट्यलक्षणे फले साधकतमत्वात् , यत्पुनः प्रमाणं न भवति न तत् तत्र साधकतमम् यथा 10 सन्निकर्षादि, साधकतमश्च तल्लक्षणे फले ज्ञातृव्यापार इति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'ज्ञातृव्यापारस्य प्रामाण्यं भविष्यति' इत्यादि; तदसमी अचेतनस्वरूपस्य ज्ञातृव्यापा- चीनम् ; यतोऽस्य प्रसिद्धसत्ताकस्य प्रामाण्यं प्रायेंत, अप्रसिद्धसत्तारस्य प्रामाण्यनिरासः- कस्य वा ? न तावदप्रसिद्धसत्ताकस्य; अतिप्रसङ्गात , अनुमानविरो धानुषङ्गाच्च / तथाहि-यदप्रसिद्धसत्ताकं न तत् प्रमाणम् यथा गगनेन्दी१५ वरम् , अप्रसिद्धसत्ताकश्च प्रभाकरमतानुसारिभिरभिप्रेतो ज्ञातृव्यापार इति / अथ प्रसिद्ध सत्ताकस्यास्य प्रामाण्यं प्रायेंत, ननु कुतोऽस्य प्रसिद्धा सत्ता-स्वप्रक्रियोपवर्णनमात्रात् , प्रमाणतो वा ? प्रथमपक्षे सन्निकर्षादेरपि तथा प्रसिद्धसत्ताकस्य प्रामाण्यप्रसङ्गात् कुतोऽप्रतिपक्षा भवत्पक्षसिद्धिः स्यात ? प्रमाणतोऽपि-प्रत्यक्षात , अनुमानादेर्वा तत्सिद्धिः स्यात ? यदि 1 "क्रियावेशवशाच्च कारकं कारकं भवति, अपरथा हि तद् वस्तुस्वरूपमात्रमेव स्यात् न कारकम् / ततश्च न फलार्थिभिः उपादीयतेति व्यवहारविप्रलोपः / " न्यायमं० पृ० 17 / “न द्रव्यमानं कारक न क्रियामात्रम् / किं तर्हि ? क्रियासाधनं क्रियाविशेषयुक्तं कारकम् / " न्यायभा० पृ० 106 / २-याविशिष्टं भां० / 'चत्वारो ह्यर्थनया ह्येते' इति कारिकाविवृतौ। 3 वस्तुमात्रम् / 4 "तस्माद् यथाहि कारकाणि तण्डुलसलिलाऽनलस्थाल्यादीनि सिद्धस्वभावानि साध्यं धात्वर्थमेकं पाकलक्षणमुररीकृत्य संसृज्यन्ते, संसृष्टानि।च क्रियामुत्पादयन्ति, तथा आत्मेन्द्रियमनोऽर्थसन्निकर्षे सति ज्ञानाख्यो व्यापार उपजायते / " न्यायमं० पृ० 17 / 5 "तेन जन्मैव विषये बुद्धेापार इष्यते। तदेव च प्रमारूपं तद्वती करणञ्च धीः // 56 // जन्मैव अस्य क्रिया.... तदेव च अर्थप्रकाशनफलविशेषात् प्रमा तद्योगाद् धीः करणम् / चशब्दात् प्रमाणञ्चोच्यते / " मीमांसाश्लो० पृ० 151 / “अथवा ज्ञानक्रियाद्वारको यः कर्तृभूतस्य आत्मनः कर्मभूतस्य च अर्थस्य परस्परं सम्बन्धो व्याप्तृव्याप्यत्वलक्षणः स मानसप्रत्यक्षावगतो विज्ञानं कल्पयति / " शास्त्रदी० पृ० 202 / 6 ततोऽसौ भां० / 7 स्वप्रक्रियोपवर्णनमात्रात् / 8 " तद्धि प्रत्यक्षमनुमानमन्यद्वा ? यदि प्रत्यक्षं तत्किं स्वसंवेदनं बाह्येन्द्रियजं मनःप्रभवं वा ? "''प्रमेयक० पृ. 6 पू० / सन्मति० टी० पृ. 20 /