________________ लघी०११३] इन्द्रियवृत्तिवादः पद्यते / नाप्यनुमानतः; तदविनाभाविनो लिङ्गस्याऽसंभवात् / न च प्रतिनियतार्थप्रतिपत्तिरेव लिङ्गमित्यभिधातव्यम् ; तस्याः सारूप्यमन्तरेणाप्युपपत्तेः। तथोपैपत्तिश्चास्याः विज्ञाननिराकारतासिद्धचवसरे प्रसाधयिष्यते / अस्तु वा काचित् तवृत्तिः; तथाप्यसौ तेभ्यो भिन्ना, अभिन्ना वा स्यात् ? यद्यभिन्ना; श्रोत्रादिमात्रमेव सा, तच्च सुषुप्तादावप्यस्तीति सुप्त-प्रबुद्धयोरविशेषप्रसङ्गात् तद्व्यवहाराभावः 5 स्यात् / अथ भिन्ना; किमसौ तत्र सम्बद्धा, असम्बद्धा वा ? यद्यसम्बद्धाः कथं श्रोत्रादेरियं वृत्तिरिति व्यपदिश्येत ? यद् यत्राऽसम्बद्धं न तत् तस्येति व्यपदिश्यते यथा सह्ये विन्ध्यः, असम्बद्धा च श्रोत्रादिना वृत्तिरिति / अथ सम्बद्धा; किं समवायेन, संयोगेन, विशेषणभावेन वा ? न तावत् समवायेन ; अॅस्याऽसिद्धस्वरूपत्वात् , तदसिद्धस्वरूपता चाग्रे निराकरिष्यमाणत्वात् ( प्रसिद्धा ) / तत्स्वरूपसिद्धौ वा नित्यव्यापिनोऽस्य श्रोत्रादेश्च तथाविधस्य सद्भावे 10 “प्रतिनियतदेशा वृत्तिरभिव्यज्यते " [ ] इति दुर्घटम् / नापि संयोगेन; तवृत्तेईव्यान्तरत्वानुषङ्गात् , न हि द्रव्याऽद्रव्ययोः संयोगो युक्त: ; अस्य गुणत्वेन द्रव्याश्रयत्वात् / तथा च इन्द्रियधर्मताभ्युपगमो वृत्तेविरुद्ध यते / नापि विशेषणभावेन; सम्बन्धान्तरेणाऽसम्बद्धेऽर्थे सह्यविन्ध्यादिवत्तस्योऽसंभवात् ! तस्माद् इन्द्रियवृत्तेर्विचार्यमाणायाः सत्त्वाऽसंभवात् कथम् 'विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिः' इति सुघटं स्यात् ? इन्द्रियवृत्तेविषया- 15 कारपरिणतत्वानुपपत्तौ मनोवृत्तेस्तदालम्बनत्वानुपपत्तेः / ततो बाह्यार्थालम्बनैवासौ" युक्ता / न . चैवं बाह्येन्द्रियकल्पनानर्थक्यानुषङ्गः; मनसः'तत्सापेक्षस्यैव'अर्थप्रवृत्तिप्रतीतेः,विज्ञानोत्पत्तौ तेषा मन्योन्यं सहकारिभावात् / न खलु बाह्येन्द्रियनिरपेक्षा मनसो विज्ञानोत्पत्तौ प्रवृत्तिः; अदृष्टपूर्वेऽप्यर्थे ततस्तदुत्पत्तिप्रसङ्गात् / नापि मनोऽनपेक्षा बाह्येन्द्रियाणाम्"; अन्यत्र गतचित्तस्याप्यतो विज्ञानोत्पत्तिप्रसङ्गादिति / ननु सन्निकर्षकारकसाकल्येन्द्रियवृत्तीनाम् उक्तदोषदुष्टत्वान्माभूत् प्रामाण्यम् , "ज्ञातृव्या 1 विषयाकारधारित्वमन्तरेण / 2 सारूप्यमन्तरेणापि प्रतिनियतार्थप्रतिपत्तिः / 3 “न च इन्द्रियेभ्योवृत्तिर्व्यतिरिक्ताऽव्यतिरिक्ता वा घटते..."। प्रमेयक• पृ० 6 पू०, स्या० रत्ना० पृ. 73 / 4 श्रोत्रादेरिन्द्रियस्य वृत्तिः आ० / 5 अस्य सि-भा०। ६।तदपि सि-भां० / 7 प्रमेयक० पृ० 6 पू० / 8 संयोगस्य / 9 विशेषणभावस्य / 10 “तस्मादित्यम् इन्द्रियवृत्तेर्विचार्यमाणायाः सत्त्वाऽसंभवात् कथं विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिः इति सुघटं स्यात्।" स्या० रत्ना० पृ०७३ / 11 मनोवृत्तिः। 12 बाह्येन्द्रियसापेक्षस्यैव / 13 बहिरथें / 14 इन्द्रियमनसाम् / १५-न्योन्य सह-आ० / 16 मनसः / 17 विज्ञान / 18 ‘विज्ञानोत्पत्तौ प्रवृत्तिः' इत्यन्वयः / 19 बाह्येन्द्रियात् / 20 “ज्ञानं हि नाम क्रियात्मकम् , क्रिया च फलानुमेया, ज्ञातृव्यापारमन्तरेण फलाऽनिष्पत्तेः / " न्यायमं• पृ. 17 /