________________ लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० 'ननु यद्यपि सन्निकर्षस्य कारकसाकल्यस्य वाऽज्ञानरूपस्य प्रामाण्यं नोपपद्यते; तथापि न ज्ञानमेव प्रमाणं सिद्धथति, इन्द्रियवृत्तेः अर्थप्रमितौ साधकतमत्वेन 'इन्द्रियवृत्तिः प्रमाणम् / __प्रामाण्योपपत्तेः। इन्द्रियाणां हि वृत्तिः विषयाकारपरिणतिः / न इति सांख्यमतनिरसनम् ___ खलु तेषां प्रतिनियतशब्दाद्याकारपरिणतिव्यतिरेकेण प्रतिनियत५ शब्दाद्यालोचनं घटते / अतो विषयसम्पर्कात् प्रथममिन्द्रियाणां ताद्रूप्यापत्तिः इन्द्रियवृत्तिः, तदनु विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिः / अथ कस्मान्मनोवृत्तिः अक्षवृत्त्यालम्बना न शब्दाद्यालम्बना ? इति चेत्, अबहिर्वृत्तित्वात् , अन्यथा बाह्येन्द्रियकल्पनानर्थक्यं स्यात् / ' इत्यभिदधान: साङ्ख्योऽप्येतेनैव प्रत्याख्यातः / / अचेतनस्वभावाया इन्द्रियवृत्तरप्युपचारादन्यतोऽर्थप्रमितौ साधकतमत्वानुपपत्तेः। का 10 चेयमिन्द्रियवृत्तिः-विषयं प्रति तेषां गमनम् , आभिमुख्यं वा स्यात् , आकारधारित्वं वा ? तत्राद्यपक्षोऽनुपपन्नः; विषयं प्रतीन्द्रियाणां गमनस्य इन्द्रियाप्राप्यकारित्वप्रक्रमे निराकरिष्यमाणत्वात् / द्वितीयपक्षोऽप्ययुक्त; विषयं प्रत्याभिमुख्यस्य प्रगुणतापरपर्यायस्य अर्थपरिच्छितौ साधकतमज्ञानहेतुत्वाद् उपचारत एव साधकतमत्वोपपत्तेः / विषयाकारधारित्वं पुनरिन्द्रियस्य अनु पपन्नम् ; प्रतीतिविरोधात् / न खैलु दर्पणादिवत् तदाकारधारित्वेन श्रोत्रादीन्द्रियं प्रत्यक्षतः 15 प्रतीयते तद्वत्तत्रं विप्रतिपत्त्यभावप्रसङ्गात् / न हि प्रत्यक्षप्रतिपन्नेऽर्थे कश्चिदबालिशो विप्रति १“रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः // " सांख्यका० 28 / “बुद्धिरहङ्कारो मनः चक्षुः इत्येतानि चत्वारि युगपद रूपं पश्यन्ति अयं स्थाणुः अयं पुरुष इति एवमेषां युगपञ्चतुष्टयस्य वृत्तिः... क्रमशश्च-एवं बुद्धयहङ्कारमनश्चक्षुषां क्रमशो वृत्तिदृष्टा चक्षुरूपं पश्यति, मनः सङ्कल्पयति, अहङ्कारोऽभिमानयति बुद्धिरध्यवस्यति / " माठरवृ. पृ. 47 / " इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् / " योगद० व्यासभा० पृ. 27 / “चैतन्यमेव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्या अर्थाकारया तदाकारतामापद्यमानं फलम् / " योगद० तत्त्ववै० पृ. 29 / “अत्रेयं प्रक्रिया-इन्द्रियप्रणालिकया अर्थसन्निकर्षेण लिङ्गज्ञानादिना वा आदौ बुद्धः अर्थाकारा वृत्तिः जायते / " सां० प्र० भा० पृ० 47 / “विषवैश्चित्तसंयोगाद् बुद्धीन्द्रियप्रणालिकात् / प्रत्यक्षं साम्प्रतं ज्ञानं विशेषस्यावधारकम् // 23 // " योगकारिका / “प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च / प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् // " योगवा० पृ. 30 / “बुद्धिः किल त्रैगुण्यविकारः, त्रैगुण्यञ्च अचेतनम् , इत्यचेतनं केवलम् इन्द्रियप्रणालिकया अर्थाकारेण परिणमते....."तेन योऽसौ नीलाकारः परिणामो बुद्धः स ज्ञानलक्षणा वृत्तिः इत्युच्यते / " न्यायवा० ता. टी० पृ० 233 / 2 श्रोत्रादिवृत्तिः प्रत्यक्षं यदि तैमिरिकादिषु / प्रसङ्गः किमतवृत्तिः तद्विकारानुकारिणी // " न्यायवि० पृ. 393 / सिद्धिवि० टी० पृ. 71 पू० / “श्रोत्रादिवृत्तिरध्यक्षम् इत्यप्येतेन चिन्तितम् / तस्या विचार्यमाणाया विरोधश्च प्रमाणतः // 36 // " तत्त्वार्थश्लो० पृ० 187 / तत्त्वोप० पृ. / ३-य प्रवृत्तिः भां० / 4 “न हि स्फटिकमुकुरादिकमिव तदाकारधारित्वेन श्रवणादिकमिन्द्रियं प्रत्यक्षतः प्रतीयते"-स्या० रत्ना० पृ. 72 15 दर्पणादिवत् / 6 श्रोत्रादौ /