________________ लघी० 113]. कारकसाकल्यवादः नापि विशेषणभावेन; सम्बन्धान्तरेणासम्बद्ध वस्तुनि विशेषणभावस्यैवासंभवात् / अस्तु वा केनचित्तत्तत्रैव सम्बद्धम् ; तथापि युगपत् सकलकारकेषु सम्बद्धयते, क्रमेण वा ? युगपंच्चत् ; किमेकं सत, अनेकं वा ? यद्येकम् ; सामान्यादिरूपताप्रसङ्गः, तद्रूपता च सामान्यादिदोषेण दुष्टत्वान्न श्रेयसी / अथानेकम् ; तर्हि यावन्ति कारकाणि तावद्धा तद् भिद्येत ।अथक्रमेण; तर्हि सकलकारकधर्मता साकल्यस्य न स्यात्; यदैव हि तस्यैकेन सम्बन्धो, न तदैवान्येनेति / अर्थी- 5 भिन्नं तत् तेभ्यः; तर्हि तान्येव न साकल्यम् , तदा करणरूपतैव वाऽशेषकारकाणांस्यात्, सापि वा न स्यात् कर्तृकर्मापेक्षत्वात्तस्याः, ते योश्चेत्थमसंभवात् , तथा च कस्य प्रमाणता स्यात् ? ततः कारकसाकल्यस्य स्वरूपेण विचार्यमाणस्यानुपपत्तेर्न प्रामाण्यम् / यत् स्वरूपेण विचार्यमाणं नोपपद्यते न तत्-प्रमाणम् यथा गगनेन्दीवरम, स्वरूपेण विचार्यमाणं नोपपद्यते च परपरिकल्पितं कारकसाकल्यमिति / उपपद्यतां वा तत् ; तथापि न मुख्यतः प्रमाणम् , अज्ञानरूप- 10 स्यास्य उपचारादन्यत्र प्रामाण्यानुपपत्तेः / न च लिङ्ग-शब्दादिना व्यभिचारः; तस्यापि उपचारादेव प्रामाण्याभ्युपगमात्। किञ्च, निर्विकल्पकप्रमित्यपेक्षया सन्निकर्षस्य कारकसाकल्यस्य वा प्रमाजनकत्वेन प्रामाण्यं स्यात् , सविकल्पकप्रमित्यपेक्षया वा ? तत्राद्यपक्षोऽनुपपन्नः; संशयादिहेतुनिर्विकल्पकदर्शनजनकस्यापि सन्निकर्षादेः प्रामाण्यप्रसङ्गात् / न च तेत्रीस्य ते जनकत्वं नास्तीत्यभिधातव्यम्; 15 संशयादेः प्रत्यक्षाभासत्वाभावप्रसङ्गात् / द्वितीयविकल्पोप्ययुक्तः ; सविकल्पकप्रमोत्पत्तौ सन्निकर्षादेनिर्विकल्पकज्ञानेन व्यवधानतः साधकतमत्वानुपपत्तेः / यस्य यदुत्पत्तौ अपरेण व्यवधानं न तस्य तदुत्पत्तौ साधकतमत्वम् यथा छिदिक्रियोत्पत्तौ कुठारेण व्यवहितस्यायस्कारस्य, व्यवधानञ्च निर्विकल्पकेन सविकल्पर्कप्रमोत्पत्तौ सन्निकर्षादेरिति / अतोऽज्ञान रूपस्य सन्निकर्षादेर्न मुख्यत: कथमपि प्रामाण्यमुपपद्यते / 20 1 “अस्तु वा केनचित् 'सम्बन्धेन सम्बद्धं तत् तेषु; तथापि युगपत् सकलेषु सम्बद्ध्यते क्रमेण वा ?....." स्या. रत्नाकर० पृ. 71 / 2 चित्तत्रै-ब०, ज० / तत्-साकल्यम् , तत्रैव-कारकेषु। -3 “सम्बन्धेऽपि सकलकारकेषु युगपत्तस्य सम्बन्धे अनेकदोषदुष्टसामान्यादिरूपतापत्तिः।" प्रमेयक० .. पृ. 3 उ०। 4 “बहुत्वसंख्यातत्पृथक्त्वसंयोगविभागसामान्यानाम् अन्यतमस्वरूपापत्तिः तस्य / " सन्मति० टी० पृ. 473 / 5 एकस्वभावेन स्वभावभेदेन च वृत्तौ सामान्यत्वाऽनवस्थादयः। 6 श्रेयसे भां० / 7 साकल्यम् / 8 "अभेदे तु सर्वकारकाणि करणीभूतान्येव इति कर्तृकर्मव्यवहारोच्छेदप्रसङ्गः / " न्यायमं० पृ. 14 / ९-ल्यं करण-ज०, भां०। 10 करणरूपतायाः। 11 कर्तृकर्मणोश्च / 12 संशयादौ / 13 सन्निकर्षादेः / 14 निर्विकल्पकजनकत्वं / 15 यदुपपत्तौ ब०, ज०, आ० / १६-कोत्पत्तौ ब०, ज०, भां० / १७-न स्वरूप-भां० /