________________ लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० ____किञ्च, आत्मादयो भावाः नित्यैकरूपास्तज्जननस्वभावाः सन्तः तज्जनयन्ति, अतज्जननस्वभावा वा ? न तावदतज्जननस्वभावाः; सर्वस्मात् सर्वस्योत्पत्तिप्रसङ्गात् / अथ तज्जननस्वभावाः; किन्न सर्वदा ते तज्जनयन्ति नित्यानां सर्वदा तज्जननस्वभावानां तेषां सदा सत्त्वात् ? एकप्रमाणोत्सत्तिसमये सकलतदुत्पाद्यप्रमाणोत्पत्तिप्रसङ्गश्च / यदा हि यजनकमस्ति तत् तदोत्पत्तिमत प्रसिद्धम् यथा तत्कालाभिमतं प्रमाणम् , अस्ति च पूर्वोत्तरकालभाविनां निखिलप्रमाणानां तदा नित्याभिमतमात्मादिकारणमिति / तत्सद्भावेऽप्येषामनुत्पत्तौ न कदाचिदप्यतस्तदुत्पत्तिः इत्यखिलं जगत् प्रमाणविकलमापद्यत / तत्करणसमर्थे सत्यप्यात्मादिकारणेऽ भवतां स्वयमेव पश्चाद्भवतां तत्कार्यता च कथमेषामुपपद्यते ? यद् यस्मिन् समर्थे सत्यपि नोत्पद्यते स्वयमेव पश्चाद्यथाकालमुत्पद्यते न तत् तत्कार्यम् यथा सत्यपि कुम्भकारेऽनुत्पद्यमानः 10 पटः, नोत्पद्यते च आत्मादौ तत्करणसमर्थे सत्यप्यखिलप्रमाणानीति / यंत्र यदा यथा यत् प्रमाणमुत्पित्सुः तत्र तदा तथा आत्मादेस्तत्करणसमर्थत्वान्नैकदा सकलप्रमाणोत्पत्तिः; इत्यप्यसमीक्षिताभिधानम् ; स्वभावभूतसामर्थ्यभेदमन्तरेण कार्यस्य कालादिभेदानुपपत्तेः / यस्य स्वभावभूतसामर्थ्यभेदो नास्ति नासौ कालादिभिन्न कार्यकारी यथा निरंशः सौगतपरिकल्पितः क्षणः, नास्ति च स्वभावभूतसामर्थ्यभेदो नित्यैकस्वभावाभिमतस्यात्मादेरिति / स्वभावभूतसा१५ माभेदेऽपि कार्यभेदाभ्युपगमे च पार्थिवपरमाण्वादिकारणभेदपरिकल्पनं व्यर्थम् , एकमेव नित्यैकस्वभावं परमब्रह्मादिकारणं पृथिव्याद्यनेकार्यकारि परिकल्प्यताम्। कारणजातिभेदमन्तरेण कार्यभेदाऽसंभवे शक्तिभेदोऽप्यस्तु, तेमन्तरेणापि तेदेसंभवात् / किञ्च, संकेलेभ्यः साकल्यं भिन्नम् , अभिन्नं वा स्यात् ? भिन्नञ्चेत् ; किमिति पृथक् घटादिवन्नोपलभ्यते" ? किञ्च, भिन्नं सत् तत्तत्र सम्बद्धम् , असम्बद्धं वा ? असम्बद्धं 20 चेत्, कथं तद्धर्म: ? यद् यत्र न सम्बद्धयते न तत् तद्धर्मः यथा सोऽसम्बद्धो विन्ध्यो न तद्धर्मः, कारकेष्वसम्बद्धञ्च तत्साकल्यमिति / सम्बद्धन्चेत्" किं समवायेन, संयोगेन, विशेषणभावेन वा ? न तावत्समवायेन; अस्याऽसिद्धेः, तदसिद्धिश्च षट्सदार्थपरीक्षायां निराकरिष्यमाणत्वात्सिद्धा / नापि संयोगेन; अस्य गुणत्वेन द्रव्येष्वेव संभवात् , साकल्यस्य चाऽद्रव्यत्वात् / 1 “नित्यानां तज्जननस्वभावत्वे सर्वदा तदुत्पत्तिप्रसक्तिः,... ' प्रमेयक पृ० 3 उ० / सन्मति. टी० पृ. 473 / 2 समन्तादुत्साद्य-ज० / ३-करणमिति आ० / ४-द्यते आ० / 5 यच्च ब०, ज०।६ “यदा यत्र यथा यद्भवति यथा च कारणजातिभेदमन्तरेण कार्यभेदो नोपपद्यते तथा तच्छक्तिभेदमन्तरेणापि / " प्रमेयक पृ० 3 / सन्मति० टी० पृ. 473 / 7 परब्रह्म-भां०। ८-भेदसं. भवे ब०, ज० / ९-भवे कारणजातिभेदाभ्युपगमे शक्ति- आ० / 10 कारणशक्तिभेदमन्तरेणापि / 11 कार्यभेदाऽसंभवात् / 12 " तथापि सकलेभ्यः किमेतद्भिन्नमभिन्नं वा"... / स्या० रत्ना० पृ. 70 / 13 "ननु समग्रेभ्यः सामग्री भिन्ना चेत् कथनोपलभ्यते / " न्यायमं. पृ. 14 / १४-भ्येत ब., जा। १५-त कथं स-भां० /