________________ लघी० 13] कारकसाकल्यवादः 37 किञ्च सामग्रीजनने व्यापृताः कर्मादयः, तेऽस्यों कारणत्वेन प्रतीयन्ते सौ च प्रमितिलक्षणे फले करणत्वेन, अतश्च फलं प्रति सा एकैव व्याप्रियमाणा कथं विषयान्तरे व्यापृतकर्तृकर्मभ्यामतिशयं प्रतिपद्येत ? अपि च, सामग्रीजनने व्याप्रियमाण आत्मा यदा सामग्रीकरणेता प्रतिपद्यते तदा फलविषये कस्य कर्तृत्वम् आत्मनः सामग्रीजनने व्यापारात् ? न च आत्मा आत्मानं सामग्र्या मध्ये प्रक्षिप्य सामग्री जनयन् पश्चात्तामेव करणत्वेन व्यापारयन् 5 कर्तृतामनुभवति एकस्वरूपस्यैवंविधानेकव्यापारविरोधात् , नित्यैकरूपे वस्तुनि कार्यकारित्वानुपपत्तेश्च / किञ्च, समग्रा एव सामग्री, समग्राणां धर्मो वा ? तत्राद्यपक्षे सर्वेषां फलं प्रति अन्वयव्यतिरेकानुविधानात 'कस्य करणता' इति न विद्मः / करणं हि साधकतमम् , तमार्थश्च प्रकर्षः कार्य प्रति अव्यवधानेन व्यापारः, स चेत् सर्वेषां तुल्यस्तदा कथं कस्यचिदेव करणत्वं 10 सिद्धयेत् ? अर्थं तेषां धर्मः ; स किं नित्यः, अनित्यो वा स्यात् ? न तावन्नित्यः, कादाचित्कस्वात् सुखादिवत् / अथानित्यः; कुतो जायेत तत एव, अन्यतो वा ? न तावदन्यतः ; अनभ्युपगमात् / तत एवचेत् ; तर्हि अयमर्थः सम्पन्नः-समग्रास्तावत् सामग्रीलक्षणं कार्य जनयन्ति, सा च फलम् , तदा तस्या एकत्वात् किमपेक्ष्य साधकतमत्वं स्यात् ? ... किञ्च, समग्राणां भावः सामग्री, भावशब्देन च तेषां सत्ता, स्वरूपमात्रम् , समुदायः, 15 सम्बन्धः, ज्ञानजनकत्वं वाऽभिधोयेते' प्रकारान्तरासंभवात् ? तत्राद्यविकल्पद्वये अतिप्रसङ्गः ; व्यस्तावस्थायामपि तत्सत्तायाः स्वरूपमात्रस्य च सद्भावतः प्रामाण्यप्रसङ्गात् / समुदायोऽपि एकाभिप्रायतालक्षणः, एकदेशे मिलनस्वभावोवा ? तत्राद्यपक्षोऽनुपपन्नः ; विषयेन्द्रियादेः निरभिप्रायत्वात् / द्वितीयपक्षोप्ययुक्तः ; चन्द्राऽर्कादिविषयस्य इन्द्रियादेश्च एकदेशे मिलनाऽसंभवात् / सम्बन्धपक्षोऽपि अनेनैव प्रत्याख्यातः ; चन्द्रादेश्चक्षुरादिना सम्बन्धाऽभावात् तस्याप्राप्यकारित्वात् , रत्वात्, 20 तदप्राप्यकारित्वञ्चाग्रे प्रसाधयिष्यामः / अथ ज्ञानजनकत्वं भावशब्देनाभिधीयते; तर्हि प्रमातृप्रमेययोरपि प्रमाणत्वप्रसङ्गः तजनकत्वाऽविशेषात् , तथाच प्रतीतिसिद्धद्वयवस्थाविलोपः स्यात् / न च तजनकत्वाऽविशेषेऽपि स्वेच्छावशात् क्वचिदेव प्रमात्रादिव्यवस्था युक्ता; सर्वस्य स्वेष्टतत्त्वसिद्धिप्रसङ्गात् इच्छायाः सर्वत्र निरङ्कुशत्वात् / 1 " एवं च साकल्यलक्षणधर्मस्य जनने व्यापृताः कादयः तस्मिन् कर्तृत्वेन प्रतीयन्ते, स च प्रमितिलक्षणे फले करणत्वेन" "स्या० रत्ना० पृ० 68 / 2 तस्यां ब०, ज० / 3 सामग्री। 4 करणत्वलक्षणम् / 5 कारणताम्ब०, ज०। 6 एकरूप ब०, ज०। 7 कारकाणाम् / 8 " यतः तेषां स धर्मः किं नित्यः, अथाऽनित्यः ?..." स्या. रत्ना० पृ०६८ / 9 “सामग्याश्चै कत्वात् अतिरिक्तसाधकान्तरानुपलम्भात् किमपेक्षमस्या अतिशयं ब्रूमः / " न्यायमं० पृ० 13 / 10 “तच इह सत्ता, स्वरूपमात्रम् , समुदायः, सम्बन्धः, ज्ञानजनकत्वं वा व्याक्रित पक्षान्तराऽभावात्.." स्या० रत्ना० पृ. 69 / ११-धीयते आ., भा० / 12 मोलन-आ०, ब., ज० / 13 प्रमातृप्रमेयव्यवस्था /