________________ 36 लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० यदप्युक्तम्-'न ह्येकदेशस्य दीपादेः करणता' इत्यादि ; तदप्यनुपपन्नम् ; प्रतीतिबाधितत्वात् / न हि कश्चिल्लौकिकः परीक्षको वा सामग्र्याः करणत्वं प्रतिपद्यते, 'सामग्र्या पश्यामः' इति तस्याः करणविभक्तथा निर्देशप्रसङ्गात् / न चैवं कश्चिदपि निर्दिशति 'दीपेन पश्यामः, चक्षुषा निरीक्षामहे ' इति तदेकदेशानामेव तन्निर्देशप्रतीतेः / किञ्च, करणमिति योऽयं व्यपदेशः स कर्तृकर्मापेक्षः, कर्ता कार्ये व्यापार्यमाणस्य कारकविशेषस्य करणत्वप्रतीतेः कुठारादिवत् / सामयाश्च करणत्वे कर्तृकर्मणी तदन्तर्गते, ततोऽर्थान्तरभूते वा स्याताम् ? प्रथमपक्षे सामग्रीस्वरूपादभिन्नत्वात् तत्स्वरूपवत् तयोः करणतैवोपपन्ना / नँच करणरूपताया मपि अनयोः कर्तृकर्मरूपता युक्ता परस्परविरोधात् / कर्तृता हि ज्ञानचिर्कीषाप्रयत्नाधारतेष्यते, 10 निवर्त्यत्वादिधर्मयोगित्वं कर्मत्वम् , करणत्वं तु साधकतमत्वम् इत्येषां कथमेकत्र संभवः ? विषयाभावे च निरालम्बनाः सर्वाः संविदः प्रसज्यन्ते, चक्षुरादिवत् आलम्बनकारकस्य प्रमाणान्तःपातित्वात्। कश्चेदानी सामग्र्या प्रमेयं प्रमिमीते ? प्रमातुरपि अस्यामेवान्तीनत्वात् / द्वितीयपक्षोऽप्ययुक्तः; सकलकारकव्यतिरेकेणार्थान्तरभूतयोः कर्तृकर्मणोरभावात् , भावे वा न कारकसाकल्यम्। कार्योत्पत्तौ हि यावतामुपयोगः ते सकलशब्दवाच्याः, कर्तृ कर्मणोश्च व्यतिरेके 15 कथं परिशिष्टानां सकलत्वम् ? - यच्चान्यदुक्तम्-'साकल्यान्तर्गतकारकापेक्षयैवास्य करणत्वोपपत्तेः' इत्यादि; तदप्यसाम्प्रतम् ; 'यंत: पृथगवस्थापेक्षाणि कारकाणि कर्मादिभावं भजन्ते, समुदायावस्थापेक्षाणि तु करणभावं / तथा च यदा कर्मादिता न तैदा करणता, यदा तु 'सौ, न तदा कर्मादिता इति नैक. मपि रूपं व्यवतिष्ठेत अन्योन्यापेक्षत्वात् , कर्मादिरूपं हि करणस्वरूपापेक्षं 'तँच कर्माद्यपेक्षमिति / मितरकारककदम्बसन्निधाने सत्यपि सीमन्तिनीमन्तरेण तद्दर्शनं न सम्पद्यते, आगतमात्रायामेव तस्यां भवति इति तदपि कर्मकारकम् अतिशययोगित्वात् करणं स्यात् / " न्यायमं० पृ० 13 / 1 पृ. 33 पं० 11 / 2 "न च लोकोऽपि सामग्र्याः करणभावमनुमन्यते तस्यां करणविभक्तिमप्रयुजानः / नहि एवं वक्तारो भवन्ति लोकिकाः ‘सामग्र्या पश्यामः' इति, किन्तु 'दीपेन पश्यामः चक्षुषा निरीक्षामहे' इत्याचक्षते।" न्यायमं० पृ० 13 / “लौकिकानां तु कथमसौ भविष्यति, न हि ते सामग्र्या नामापि जानते"..' स्या. रत्ना० पृ० 6 / 3 कर्तृकर्मणोः। 4 " न चैतेषां कर्तृकर्मरूपाणामपि करणत्व परस्परविरोधात्-प्रमेयक० पृ. 3 उ० / सन्मति टी० पृ० 473 / ५“ज्ञानचिकीषोप्रयत्नयोगित्व कर्तृत्वम् / " न्यायमं० पृ. 202 / 6 “निरालम्बनाश्च इदानीं सर्वप्रमितयो भवेयुः आलम्बनकारकस्यं चक्षुरादिवत् प्रमाणान्तःपातित्वात् / " न्यायमं० पृ. 13 / 7 "कश्च सामग्र्याः प्रमेयं प्रमिमीते ? प्रमाताऽपि तस्यामेव लीनः / " न्यायमं० पृ० 13 / 8 सामग्यामेव / 9 पृ० 335020 / 10 “अथ च तानि पृथगवस्थितानि कर्मादिभाव भजन्ते, अथ च तान्येव समुदितानि करणीभवन्ति इति कोऽयं नयः ?" न्यायमं० पृ. 14 / ११-यथा-भां० / १२-तथा-भां० / 13 करणता / 14 करणस्वरूपम् /