________________ लघी० 13] कारकसाकल्यवादः हि अज्ञानविरोधिना ज्ञानेनैव व्याप्तम् तत्रास्य अपरेणाव्यवधानात् / साकल्यस्य तु ज्ञानेन व्यवधानान्न तन्मुख्यम् ; प्रयोगः-यद् यत्र अपरेण व्यवहितं न तत्तत्र मुख्यरूपतया साधकतमव्यपदेशमर्हति यथा छिदिक्रियायां कुठारेण व्यवहितोऽयस्कारः, स्वपरप्रमितौ विज्ञानेन व्यवहितं च परपरिकल्पितं साकल्यमिति / उपचारेण तत्प्रामाण्याभ्युपगमे तु न किञ्चिदनिष्टम् , मुख्यरूपतया हि स्वपरप्रमितौ साधकतमस्य ज्ञानस्य उत्पादकत्वात्तस्यापि साधकतमत्वम् , 5 तस्माच्च प्रमाणत्वम् , कारणे कार्योपचारात् 'अन्नं वै प्राणाः' इत्यादिवत् / किञ्च तमँग्रहणस्य प्रकर्षोऽर्थः, प्रकर्षश्च अपकृष्टसव्यपेक्षः, अतो यावन्न पृथक् साधकं साधकतरं वाऽवस्थितम् , न तावत्साधकतमत्वं वक्तुं शक्यते तदपेक्षत्वात्तस्य / सामग्री च अनेककारकस्वभावा, अनेककारकसमुदाये च न कस्यचित् स्वरूपातिशयः शक्यते वक्तुम् , सर्वेषामभिप्रेतकार्य प्रति व्यापाराऽविशेषात् / कर्तृ-कर्म-करणसन्निधौ हि समुत्पद्यमानं प्रती- 10 यते कार्यम् , तदभावे चानुत्पद्यमानं तत्कथं कस्यचिदतिशयो निर्देष्टुं शक्यते ? निःशेषविवक्षायां च अपेक्षणीयस्याभावात् कथं साधकतमत्वम् ? सकलकारककलापरूपा किल सामग्री, तस्याः किमपेक्षं" साधकतमत्वम् ? अपेक्षणीयसद्भावे 'वा न तद्रूपता अस्याः स्यात् / - किञ्च इदं साधकतमत्वं विवक्षातः कस्यचित्स्यात्, सन्निपत्य कार्यजननात्, सहसा कार्योत्पादनाद्वा ? तत्र यद्यपि अनेककारकजन्यं कार्यम् तथापि विवक्षातः कारकाणां प्रवृत्तिः, 15 इति कस्यचिदेव साधकतमत्वं विवक्ष्यते” इति चेत् ; ननु विवक्षा पुरुषेच्छा, नचासति वैल"क्षण्ये तन्निबन्धनों वस्तुव्यवस्था युक्ता अतिप्रसङ्गात् / अथ 'सन्निपत्यकार्यजननम् , तदपि ज्ञाने कर्त्तव्ये सर्वेषामिन्द्रियमनोऽर्थादीनां तुल्यम्, कस्यचिदपि असन्निपत्यजनकत्वाभावात्, इतरेतरसंसर्गे सत्येवास्योत्पत्तेः। नापि सहसैव कार्योत्पादकत्वं साधकतमत्वम् , कर्मण्यपि अस्य गतत्वात् / सीमन्तिनी- 20 समुदाये हि अद्भुतरूपा सीमन्तिनी झटित्यात्मविषयं विज्ञानमुत्पादयति / 1 ज्ञानस्य / 2 साधकतमत्वं / 3 " यद् यत्र अपरेण व्यवहितम्"""प्रमेयक० पृ. 3 उ. / स्या. रत्ना० पृ० 66 / ४-गमे न-आ, ब०, ज० / ५-तमज्ञानस्य ब०। 6 साकल्यस्यापि / 7 प्रगहणस्य-ज० / ननु साधकाद्यपेक्षया साधकतमं भवति अतिशयनस्य एवं रूपत्वात् तदर्थत्वाच्च तमप्रत्ययस्य / तत् किमिदानी साधकादिकं यदपेक्ष्यं स्यात् / " न्यायवि. वि. पृ० 29 पू० / ८-चाव-भां० / 9 अर्थपरिच्छित्तिलक्षण / 10 शक्येत् भां० / ११-पेक्ष्य-व०, ज० / १२-चा तद्रपता स्यात्-भां० / 13 साधकतमरूपता / १४-ते चेत् - ब०, ज०, भां० / 15 वैलक्ष्ये आ० / 16 - नाव्य-भां०। 17 " सन्निपत्यजनकत्वम् अतिशय इतिचेन्न; आरादुपकारकाणामपि कारकत्वाऽनपायात् / ज्ञाने च जन्ये किमसन्निपत्यजनकम् ? सर्वेषामिन्द्रियमनोऽर्थादीनाम् इतरेतरसंसर्गे सति ज्ञाननिष्पत्तेः / " न्यायम• पृ. 13 / 18 सहैव कार्योत्पादकस्वं कर्मण्यस्य-भा० / “अप सहसैव कार्यजननमतिशयः ; सोऽपि कस्याश्चिदवस्थायां करणस्येव कर्मणोऽपि शक्यते वक्तुम् / "एक