________________ लघीयत्रयालंकारे न्यायकुमुदचन्द्र [1 प्रत्यक्षपरि० कारकापेक्षयैवास्य करणत्वोपपत्तेः / साकल्यं हि नाम कारकाणां धर्मः, न च स्वकीयो धर्मः स्वस्यैव स्वरूपापहाराय प्रभवति, साकल्यावस्थायामपि कारकस्वरूपस्य प्रत्यभिज्ञायमानत्वाञ्च न तत्रैषां स्वरूपप्रच्युतिः, तस्मात्तदन्तर्गतकारकापेक्षया लब्धकरणभावं साकल्यं प्रमाणम् , न तु ज्ञानं फलरूपत्वात्तस्य / फलस्य च प्रमाणतानुपपन्नैव; ततो भिन्नत्वात्तस्य , प्रमीयते हि 5 येनार्थः तत्प्रमाणम् इति करणसधिने प्रमाणशब्दव्युत्पादनात् करणस्यैव तद्रूपतोपपन्ना / अथ व्यतिरिक्तफलजनकमपि ज्ञानमेव प्रमाणमुच्यते; तदयुक्तम् ; सर्कललोकाङ्गीकृत-अज्ञानस्वभावस्य शब्दलिङ्गादेरप्रमाणता प्रसङ्गात् / ततो ज्ञानमपि सामन्यनुप्रविष्टमेव, विशेषणज्ञानमिव विशेष्यप्रत्यक्षे, लिङ्गज्ञानमिव लिङ्गिप्रतीतौ, सारूप्यदर्शनमिव उपमाने, शब्दज्ञानमिव तदर्थज्ञाने, प्रमाणत्वं प्रतिपद्यते / तस्मात् 'बोधाबोधस्वभावं कारकसाकल्यं प्रमाणम्' इत्यय१० मेव पक्षः प्रमाणोपपन्न इति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'अव्यभिचारादिविशेषण' इत्यादि ; तदयुक्तम् ; यतो ..'मुख्यतः, उपचारेण वा कारकसाकल्यस्य प्रामाण्यं स्यात् ? मुख्योकारकसाकल्पस्य प्रतिविधानम् 'पंचारभेदेन हि शब्दानां द्विविधा प्रवृत्तिः प्रतीयते, 'अन्नं वै प्राणाः' इत्यादिवत / तत्र न तावन्मुख्यतः, अज्ञानरूपस्यास्य स्वपरप्रमिती 15 मुख्यतः साधकतमत्वाभावतो मुख्यतः प्रमाणत्वस्यानुपपत्तेः / 'तत्प्रमिती मुख्यतः साधकतमत्वं १तत्र तेषां-भां०। 2 "बोधः खलु प्रमाणस्य फलं न साक्षात् प्रमाणम् / " न्यायमं० पृ० 15 / 3 प्रमाणतः। 4 फलस्य। ५-साधन प्रमाण-आ० / 6 " सकल जगद्विदितबोधेतरस्वभावशब्दलिङ्गदीपेन्द्रियादिपरिहारप्रसङ्गात् / " न्यायमं० पृ० 15 / ७-स्वरूपभावस्य-ब०। ८“तस्मात सामग्र्यनुप्रविष्टबोधो विशेषणज्ञानमिव क्वचित् प्रत्यक्ष लिङ्गज्ञानमिव लिङ्गिप्रमितौ सारूप्यदर्शनमिव उपमाने शब्दश्रवणमिव तदर्थाने प्रमाणतां प्रतिपद्यते। अतएव बोधाऽबोधस्वभावा सामग्री प्रमाणम् / " न्यायमं० पृ० 15 / 9 इदं सामग्रीप्रमाणवादिजयन्तमतम् अनयैव प्रक्रियया सन्मतिटीकायां (पृ. 471-72) स्या• रत्नाकरे च (पृ. 62-64 ) वर्तते / स्या. रत्नाकरे तु-“तत्राऽसन्दिग्धनिर्वाधवस्तुबोधविधायिनी। सामग्री चिदचिद्रूपाप्रमाणमभिधीयते // 1 // फलोत्पादाऽविनाभावि स्वभावाऽव्यभिचारि यत् / तत्साधकतमं युक्तं साकल्यान्न परं च तत् // 2 // साकल्यात् सदसद्भावे निमित्तं कर्तृकर्मणोः। गौणमुख्यत्वमित्येवं न ताभ्यां व्यभिचारिता // 3 // संहन्यमानहानेन संहतेरनुपग्रहात् / सामप्रथा पश्यतीत्येवं व्यपदेशो न दृश्यते // 4 // लोचनालोकलिङ्गादेर्निर्देशो यः तृतीयया। स तद्रूपसमारोपादुषया पचतीति वत् // 5 // तदन्तर्गतकर्मादिकारकापेक्षया च सा। करणं कारकाणां हि धर्मोऽसौ न स्वरूपवत् // 6 // सामग्रयन्तःप्रवेशेऽपि स्वरूपं कर्तृकर्मणोः / फलवत् प्रतिभातीति न चतुष्टं विनङ्क्ष्यति // 7 // इति / " एते सप्तश्लोकाः भट्टजयन्तकर्तृकपल्लवगताः समुद्धृताः, परं च मुद्रितन्यायमञ्जयां ते नोपलभ्यन्ते / न्यायमजा (पृ. 15) कर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थबोधविधायिनी बोधाऽबोधस्वभावा सामग्री प्रमाणम् ' इत्यपरोऽपि प्रकारः सामग्र्याः प्रदर्शितः / 10 “तस्य तत्त्वं गौणं मुख्यं वा स्यात् ? नतावद्गौणम्" न्यायविनि वि० पृ०२९ पू० / स्या. रत्ना० पृ. 66 / ११-ल्य प्राभां / 12 " अभिधानधर्मो द्वेधाऽभिधीयते प्रधानं भाक्तश्च।" न्याय वा० पृ. 177 / 13 स्वपरप्रमितौ /