________________ लघी० 113] . कारकसाकल्यवादः यतस्तदर्थिनां तदुपदेशात्तंत्र प्रवृत्तिः स्यात् ? नित्यत्वात्तज्ज्ञानस्यायमदोषः; इत्यप्यसमीचीनम्। तन्नित्यत्वस्येश्वरनिराकरणावसरे निराकरिष्यमाणत्वात् / ___ कथञ्चैवं वादिनः साध्यसाधनयोः व्याप्तिः सिद्धयेत् यतोऽनुमानं स्यात्, इन्द्रियप्रत्यक्षस्येव मानसप्रत्यक्षस्यापि सन्निकृष्टेष्वेवार्थेषु प्रवृत्तः, व्याप्तिश्चानियतदेशकाला इति कथं सन्निकर्षप्रभवप्रत्यक्षात प्रतीयेत ? ननु सामान्येन व्याप्तिः, तत्र च तत्प्रभवप्रत्यक्षस्य सामध्य- 5 संभवात् कथन्नातस्तैत्सिद्धिः ? इत्यप्यसांप्रतम् ; सामान्येन व्याप्तेः व्याप्तिविचारप्रघट्टके निराकरिष्यमाणत्वात्। तन्न सन्निकर्षस्याज्ञानात्मनोऽनुपचरितं प्रामाण्यं घटते, नापि कारकसाकल्यस्य। अथ मतमेतत्-अव्यभिचारादिविशेषणार्थोपलब्धिजनिका सामग्री प्रमाणम् / न च कारकसाकल्यापर- सामग्र्याः कारककलापरूपत्वात् , तत्र च स्वरूपातिशयाभावान्न कस्व- . नामिकां सामग्री चित्साधकत्वमुपपद्यत इत्यभिधातव्यम् ; कारकसाकल्यस्य करणंताभ्यु- 10 प्रमाणयतो भट्ट- पगमे साधकतमत्वस्योपपत्तेः / न कस्य सामग्येकदेशस्य प्रदीपादेः जयन्तस्य पूर्वपक्षः। क्वचित्कार्ये करणता प्रतीयते / किं तर्हि ? सामग्रीस्वरूपस्य कारकसाकल्यस्यैव; तच्च प्रमातृप्रमेयसद्भावे संपद्यते। अतः सामग्येकदेशकारकसद्भावेऽपि कार्यस्यानुत्पत्तेः नैकदेशस्य करणता, सामग्रीसद्भावेतु तस्यावश्यंभावनोत्पत्तेः तस्या एव सन्निपत्यजनकत्वेन साधकतमत्वादुपपन्नं करणत्वम् / करणं च प्रमाणम् , करणसाधनत्वात् प्रमाण- 15 शब्दस्य / न च साकल्यव्यतिरेकेण कारकान्तरे साधकतमत्वं संभावयितुं शक्यम् / यदि हि तव्यतिरेकैणासकलावस्थायामपि क्वचित्कारके प्रमितिरवकल्प्येत, स्यात्तत्रापि साधकतमत्वास्करणत्वम् , न चासौ तत्रावकल्प्यते प्रतीतिविरोधात् , तस्मात् साकल्यमेव करणम् / ननु करणं कर्तृकर्मापेक्षं भवति, कर्तृकर्मणोश्च सामग्यन्तः-पतितयोः स्वरूपप्रच्युतितः असंभवात् कथं तदपेक्षं साकल्यस्य करणत्वमिति ? तंदविचारितरमणीयम्; साकल्यान्तर्गत- 20 1 अनागतेऽथें / 2 सन्निकर्षवादिनः / ३-क्षसामर्थ्य-। 4 व्याप्तिसिद्धिः। 5 “अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधाऽबोधस्वभावा सामग्री प्रमाणम् / बोधाऽबोधस्वभावा हि तस्य स्वरूपम् , अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम् / " न्यायमं० पृ. 12 / ६-णाभ्यभां० / ७“यत एव साधकतमं करणं करणसाधनश्च प्रमाणशब्दः, तत एव सामग्र्याः प्रमाणत्वं युक्तम् , तद्वयतिरेकेण कारकान्तरे क्वचिदपि तमबर्थसंस्पर्शाऽनुपपत्तेः / अनेककारकसन्निधाने कार्य घटमानम् अन्यतरव्यपगमे च विघटमानं कस्मै अतिशयं प्रयच्छेत् / न च अतिशयः कार्यजन्मनि कस्यचिदवधार्यते सर्वेषां तत्र व्याप्रियमाणत्वात् स च सामग्र्यन्तर्गतस्य न कस्यचिदेकस्य कारकस्य कथयितुं पार्यते / सामग्र्यास्तु सोऽतिशयः सुवचः; सन्निहिता चेत् सामग्री संपन्नमेव फलम् इति सैव अतिशयवती।" न्यायमं० पृ. 13 / 8 " यत्तु किमपेक्षं सामग्र्याः करणत्वम् इति; 'तदन्तर्गतकारकापेक्षम् / इति ब्रूमः। कारकाणां धर्मः सामग्री न स्वरूपहानाय तेषां कल्पते साकल्यदशायामपि तत्स्वरूपप्रत्यभिज्ञानात्... 'तस्मात् अन्तर्गतकारकापेक्षया लब्धकरणभावा सामग्री प्रमाणम् / न्यायमं• पृ० 14 /