________________ लघीयसायालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० संयुक्तसमवायादिः / संयुक्तसमवायाञ्च चक्षुषो रूपवत् शब्दरसादौ, दिवाकररूपवत् तत्कर्मप्यपि च ज्ञानमुत्पद्यत अविशेषात्। संयुक्तसमवेतसमवायाच रूपत्ववद् रसत्वादौ, समवायात् शब्दवत् नभोमहत्त्वादौ, समवेतसमवायात् शब्दत्ववत् महापरिमाणत्वादौ / योग्यताभ्यु पगमे सैव नियामिकाऽस्तु अलं सन्निकर्षषट्कोद्घोषणेन / सम्बद्धविशेषणीभावस्तु संयोगा५ दिसम्बन्धाःसंभवादेव प्रत्युक्तः / न हि संम्बन्धान्तरेणाऽसम्बद्ध वस्तुनि से घटते सह्यविन्ध्यवत् / एतेन 'असन्निकृष्टस्य ग्रहणे सर्वस्य सर्वत्रार्थे ज्ञानोत्पत्तिः स्यात्' इति प्रत्युक्तम् ; योग्यस्यैव ग्रहणात् / कथमन्यथा सन्निकृष्टे सर्वत्राप्यर्थे ज्ञानं नोत्पद्यते ? ततो यस्मिन् सत्यपि यन्नो त्पद्यते न तत् तद्धेतुकम् यथा विद्यमानेऽपि यवबीजेऽनुत्पद्यमानो गोधूमाकुरः, विद्यमानेऽपि 10 सन्निकर्षे नोत्पद्यते चार्थपरिच्छित्तिरिति / . यदपि 'सन्निकर्षसद्भावे प्रमाणं व्यवहितार्थानुपलब्धिरेव' इत्युक्तम्"; तदप्ययुक्तम् ; असिद्धत्वात्तस्याः, काचाभ्रेपैटलस्फटिकस्वच्छोदकादिव्यवहितानामप्यर्थानामुपलब्धेः / यदपि 'कारकत्वात्' इत्यादि तत्प्राप्यकारित्वे साधनमुक्तम्"; तदपि चक्षुषोऽप्राप्यकारित्वप्रसाधन प्रस्तावे प्रतिविधास्यते / अतः 'प्रत्यक्षञ्चोत्पद्यमानं चतुः-त्रि-द्विसन्निकर्षांदुत्पद्यते' इत्यादि, वन्ध्या१५ "सुतसौभाग्यत्वादिव्यावर्णनप्रख्यं प्रतिभासते सन्निकर्षस्याऽसंभवे / संभवे वा असाधकतमत्वे ततस्तथा प्रत्यक्षस्यानुपपत्तेः।। ___कथञ्च सन्निकर्षप्रामाण्याभ्युपगमे 'सर्वज्ञवार्तापि स्यात् ? तद्विज्ञानं हि मानसमिन्द्रियजं वा चतुस्त्रिद्विसन्निकर्षाद् वर्तमानेष्वेवार्थेषु स्यात् नातीतानागतेषु, तेषामसत्त्वे तंत्र तद्धतोः सन्निकर्षस्य सत्त्वविरोधात् / यदसन् न तत्र ज्ञानहेतु: सन्निकर्षोस्ति यथा खरविषाणादौ, न 20 सन्ति च अतीतानागता वर्तमानार्थज्ञानोत्पत्तिसमये भावा इति / अथ यदा ते भविष्यन्ति तदा तत्सन्निकर्षात् तत्र ज्ञानमुत्पत्स्यते ; कथमेवमनन्तेनापि कालेन ईश्वरस्याऽशेषज्ञता स्यात् ? वर्त्तमानाशेषार्थग्रहणादस्याशेषज्ञताभ्युपगमेऽपि , कथं तदुपदेशस्य अनागतेऽर्थे प्रामाण्यं स्यात् १-वायत्वम् च ज / २-वद् रसादौ-भां० / 3 दिनकर-भां० / 4 कर्मणोऽपि भां० / 5 ‘ज्ञानमुत्पद्येत अविशेषात् ' इति पूर्वेण अन्वयः। 6 " योग्याऽयोग्यत्वकृतग्रहणाऽग्रहणनियमवादे वा योग्यतैव सन्निकर्षो भवतु किं षट्कघोषणेन ?" न्यायमं० पृ. 49 / ७-षटकोषणेन-आ०, ब०, ज० / 8 सम्बन्धमन्तरेण-आ० / 9 सम्बद्धविशेषणीभावः / १०-द्यते भां० / 11 पृ. 28 पं० 16 / इत्युक्तमसि-आ०, ब०, ज० / १२-भ्रक प-भां० / १३-पि बोधकत्वात् इ-भां० / 14 पृ० 28 पं० 18 / १५-दित्यादि ब०, ज० / १६-सुतभाग्यव्याव-मां० / सौभाग्यव्याव-ब०, ज० / 17 सन्निकर्षात् / १८-क्षानुप-भां० / 19 " यदि सन्निकर्षः प्रमाणं सूक्ष्मव्यवहितविप्रकृष्टानामर्थानामग्रहणप्रसङ्गः..... अतः सर्वज्ञत्वाऽभावः स्यात् / " सर्वार्थसि० पृ० 57 / " सन्निकर्षे प्रमाणे सकलपदार्थपरिच्छेदाभावः तदभावात् / " तत्त्वार्थराज० पृ. 36 / 20 अतीतानागतादौ 21 तद्विज्ञानहेतोः / २२-स्य विरो-आ० /