________________ 31 लघी० 113] सन्निकर्षवादः खनादौ प्रमोत्पत्तिप्रसङ्गः तदविशेषात् / अथ दृश्यता; सा आकाशादावस्त्येव, कथमन्यथा अस्येश्वरप्रत्यक्षता ? करणानाञ्च पाटवम् काचकामलाद्यनुपहतत्वम्, आलोकादिसहकृतत्वं वा ? द्वयमपि आकाशादौ संभवत्येव / धर्मविशेषोऽपि आकाशादिना चक्षुषः संयोगे सहकार्यस्त्येव / न खलु तस्य तेने विरोधः; येन तत्सद्भावे धर्मविशेषस्यापत्तिः प्रध्वंसो वा स्यात् , विरोधे वा न घटाद्युपलम्भः कदाचिदपि स्यात् तदुत्पत्तौ धर्मविशेषस्य सहकारिणो विरोध्याकाशादिसंयोगसद्भावतोऽसंभवात् / अधर्मप्रक्षयस्तु प्रतिबन्धकापाय एव, तस्य च ज्ञानहेतुत्वे सर्व सुस्थम् तस्यैव प्रमा प्रति नियामकत्वोपपत्तेः / द्रव्यमपि नित्यव्यापिरवरूपम् , तद्विपरीतं वा सन्निकर्षस्य सहकारि स्यात् ? नित्यव्यापिस्वरूपञ्चेत् ; तत् नयननभःसन्निकर्षेप्यस्त्येव, अन्यथा कथं दिक्कालाकाशात्मनां नित्यव्यापिद्रव्यस्वरूपता ? अनित्याऽव्यापिस्वरूपश्चेत् ; तत् मनः, नयनम् , आलोको वा स्यात् ? त्रितयमपि आकाशादिनेन्द्रियसन्निकर्षे संभवत्येव 10 घटादिवत् / गुणोऽपि प्रमेयगतः, प्रमातृगतः, उभयगतो वा तत्सहकारी स्यात् ? प्रमेयगतश्चेत्; किन्नाकाशस्य प्रत्यक्षता गुणसद्भावाविशेषात् ? निर्गुणत्वे अस्य द्रव्यत्वानुपपतिः, गुणवत्त्वलक्षणत्वाद् द्रव्यस्य / अरूपित्वातस्याऽप्रत्यक्षत्वे सामान्यादेरप्यप्रत्यक्षत्वप्रसङ्ग इत्युक्तम् / प्रमातृगतोपि अदृष्टः, अन्यो वा गुणो गगनेन्द्रियसन्निकर्षसमयेऽस्त्येव / उभयगतपक्षेपि उभयपक्षोपक्षिप्तदोषानुषङ्गः। कर्मापि अर्थगतम्, इन्द्रियगतं वा तत्सहकारि स्यात् ? न तावदर्थगतम्; 15 प्रमोत्पत्तौ तस्यानङ्गत्वात् , कथमन्यथा स्थिरार्थानामुपलब्धिः ? इन्द्रियगतं तु तत् तत्रास्त्येव, आकाशेन्द्रियसन्निकर्षे नयनोन्मीलनादिकर्मणः सद्भावात् / तस्मात् प्रतिपत्तुः प्रतिबन्धापायरूपैव योग्यता उररीकर्तव्या, तत्रैवोक्ताशेषदोषाणामसंभवात् / यस्य यत्र यथाविधो हि प्रतिबन्धापायः, तस्य तत्र तथाविधाऽर्थपरिच्छित्तिरुत्पद्यते / प्रतिबन्धापायश्च मोक्षविचारावसरे प्रसाधयिष्यते / न चैवं योग्यताया एवार्थपरिच्छित्तौ साधकतमत्वतः प्रमाणत्वात् 'ज्ञानं प्रमाणम्' इति प्रतिज्ञा 20 विरुद्धयते; 'अस्याः स्वार्थग्रहणशक्तिस्वभावायाः स्वार्थावभासिज्ञानलक्षणप्रमाणसामग्रीत्वतः तेंदुत्पत्तावेव साधकतमत्वोपपत्तेः / चक्षुषश्च अप्राप्यकारित्वेने प्रसाधयिष्यमाणत्वान्न घटादिना संयोगः, तदभावान्न रूपादिना सूत्रे। सन्मति० टी० पृ० 100, स्या० रत्नाकर पृ० 56 इत्यादौ तु वैशेषिकसूत्रसम्मत एव पाठः / प्रमेयकमलमार्तण्डे ( पृ० 75 पू०) तु ग्रन्थोक्त एव पाठः। 1 धर्मविशेषस्य / 2 आकाशादिना चक्षुःसंयोगेन / ३-नुपपत्तिः आ०, ब०, ज० / 4 दिक्कालात्मनाम् आ०, भां / 'दिक्कालाकाशात्मनाम्' प्रमेयक० पृ० 5 उ० / ५-शादिसन्नि-ब०, ज० / ६-पत्तेः ब०, ज० / 7 “क्रियागुणवत् समवायिकारणम् इति द्रव्यलक्षणम् / " वैशे० सू० 1 / 1 / 15 / 8 आकाशस्य / 9 इच्छादिः / १०-कर्षेण न-व०,ज० / ११-पत्त प्रति-ब०,ज० / 12 योग्यतायाः। 13 प्रमाणोत्पत्तावेव / १४-त्वेनसाध-भां० /