________________ लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० विशिष्यते न तत् तद्धतुकम् यथा परमाणोरविशेषेऽपि विशिष्यमाणौ घटपटौ, सन्निकर्षाविशेषेऽपि विशिष्यते च प्रमितिरिति / तस्माद् यद् यत्रोत्पन्नमव्यवधानेन फलमुत्पादयति तदेव तत्र साधकतमम् यथा अपवरकान्तर्वर्तिपदार्थप्रकाशे प्रदीपः, अव्यवधानेन प्रमितिमुत्पादयति च उत्पन्नं स्वविषये विज्ञानम् , तस्मात्तदेव तत्र साधकतमम् / तस्माच्च प्रमाणम् , न पुनः सन्निकर्षो 5 विपर्ययात्। किञ्च, सन्निकर्षमात्रमत्र प्रमाणम् , तद्विशेषो वा ? न तावत् सन्निकर्षमात्रम् ; संशयादावप्यस्याऽविशेषतः प्रामाण्यप्रसङ्गात्। विशिष्टश्चेत् ; किमिदं तस्य वैशिष्टयं नाम-विशिष्टकारणादात्मलाभः, विशिष्टप्रमोत्पादकत्वं वा ? प्रथमपक्षे घटादिवदाकाशेऽप्यस्य प्रामाण्यप्रसङ्गः, विशिष्ठकारणादात्मलाभस्योभयत्राविशेषात् / तदविशेषे चासौ कथं घटाद्यर्थ एव वैशिष्टयं प्रामा१० ण्यं वा स्वीकुर्यान्नाकाशे ? द्वितीयपक्षोऽप्यनुपपन्नः; विशिष्टप्रमोलादकत्वस्य सन्निकर्षे प्रमिति प्रति साधकतमत्वाभावतोऽसिद्धः, तंदभावश्चानन्तरमेव प्रतिपादितः / सिद्धौ वा कथमाकाशादिपरिहारेण घटादावेवास्य तत् स्यात् ? उभयत्राप्यविशेषगासौ प्रमामुत्पादयेत् नैकत्रापि वा / ननु आकाशादावेवासौ प्रमां नोत्पादयति योग्यताया अभावात्, न घटादौ विपर्ययात् / ननु केयं योग्यता नाम-शक्तिः, प्रतिपत्तुः प्रतिबन्धापायो वा / शक्तिश्चेत् ; किमतीन्द्रिया, सह१५ कारिसन्निधिलक्षणा वा ? तत्राद्यपक्षोऽयुक्तः; अपैसिद्धान्तप्रसङ्गात् / द्वितीयपक्षेतु कारकसाक ल्यपक्षभाव्यशेषदोषानुषङ्गः, सहकारिसान्निध्यस्य कारकसाकल्यस्वरूपानतिक्रमात् / सहकारिकारणञ्च विषयगतातिशयविशेषः, करणपाटवम् , धर्मविशेषः, अधर्मप्रक्षयः, द्रव्यम् , गुणः, कर्म वा स्यात् / यदि विषयगतातिशयविशेषः; किं रूपादिसमवायः, दृश्यता वा ? न तावद्रू पादिसमवायः; अस्य प्रमोत्पत्तिं प्रत्यकारणत्वात् / कथमन्यथा गुणकर्मसामान्येषु तद्रहितेषु 2. प्रमोत्पत्तिः स्यात् ? कथं वा परमाणौ तंदुत्पत्तिर्न स्यात् तत्र तत्समवायसंभवात् ? "मह त्यनेकद्रव्यत्वाद्र्पविशेषाच रूपोपलब्धिः " [वैशे० सू० 4 / 1 / 6 ] इत्यभ्युपगमेऽपि नेत्रमला 1 तस्मात्तत्प्र-ब०, ज० / 2 साधकतमत्वाऽभावात् / ३-ष्टयं वि-आ०, ब०, ज० / 4 सन्निकर्षस्य / ५-सौ घ-व०, ज०। 6 प्रमितिं प्रति साधकतमत्वाभावः। 7 विशिष्टप्रमोत्पादकत्वं / 8 योग्यता भा-भा०, ब०, ज० / “ननु नभसि नयनसन्निकर्षस्य योग्यताविरहात् न संवेदननिमित्तता इत्यपि न साधीयः; तद्योग्यताया एव साधकतमत्वाऽनुषङ्गात् / का चेयं सन्निकर्षस्य योग्यता नाम ?... , प्रमाणपरी० पृ. 51 / 9 विपर्यासात् भां० / १०-क्तिः प्रतिब-आ०, ब०, ज० / 11 “स्वरूपातुद्भवत् कार्य सहकार्युपबृंहितात् / न हि कल्पयितु शक्तं शक्तिमन्यामतीन्द्रियाम् // " (न्यायमं• पृ. 41) इत्यादिना नैयायिकमते स्वरूपसहकारिरूपैव शक्तिः स्वीकृता / 12 किंचित रू-आ०।१३ प्रमोत्पत्तिः / 14 रूपादिसमवाय / तत्र सम-भा० / १५-द्रव्यवस्वा-भां० / वैशेषिकदर्शने तु-"महत्यनेकद्रव्यपत्त्वात् रूपाञ्चोपलब्धिः" "अनेकद्रव्यसमवायात् रूपविशेषाच रूपोपलब्धिः” (411 / 6, 4 ) इति वे