________________ 25 लघी० 1 / 3] . सन्निकर्षवादः निकर्षः घटप्रकारो भवति-संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, सम्बद्धविशेषणीभावश्चेति / तत्र चक्षुषो द्रव्येण संयोगः, तत्समवेतैर्गुणकर्मसामान्यैः संयुक्तसमवायः, गुणकर्मसमवेतैः सामान्यैः संयुक्तसमवेतसमवायः, श्रोत्रस्य शब्देन समवायः, शब्दत्वेन समवेतसमवाय, घटाभावेन समायेन च सम्बद्धविशेषणीभाव इति / प्रत्यक्षश्चोत्पद्यमानं चतुनिद्विसन्निकर्षादुत्पद्यते, तत्र बाह्ये रूपादौ चतुःसन्निकर्षादेव प्रत्यक्षमु- 5 त्पद्यते-आत्मा हि मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति / सुखादौ तु त्रयसन्निकर्षादेव तत्र चक्षुरादिव्यापाराभावात् / आत्मनि तुः योगिनां द्वयोरेवात्ममनसोः सन्निकर्षादिति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'सन्निकर्ष एव साधकतमत्वात् प्रमाणम्' इत्यादि ... तदसमीक्षिताभिधानम् ; तस्यार्थप्रमितौ साधकतमत्वाऽसंभवात् / यद्सन्निकर्षस्य प्रतिविधानम्- भावे हि प्रमितेर्भाववत्ता यदभावे चाऽभाववत्ता तत्तत्र साधकतमम् / 10 "भावाभावयोस्तद्वत्ता साधकतमत्वम् " [ ] इत्यभिधानात्। न चैतत् सन्निकर्षे सम्भवति, तस्मिन् सत्यपि. क्वचित् प्रमित्यनुपपत्तेः, 'औकाशादिना हि घटवत् चक्षुषः संयोगो विद्यते, न चासौ तत्र प्रमितिमुत्पादयति / न चाकाशघटयोश्चक्षुषा संयोगाविशेषेऽपि प्रमितेर्विशेषो युक्तः; 'तस्याः तद्धेतुकत्वाभावानुषङ्गात् / यदविशेषेऽपि यदू .. 1 “सन्निकर्षः पुनः षोढ़ा भिद्यते..." न्यायवा० पृ० 31 / न्यायमं० पृ० 72 / प्रशस्त० क. पृ० 195 / 2 तत्रसम-भां० / 3 गुणत्वकर्मत्वादिभिः। 4 कर्णविवरवाकाशस्य श्रोत्रत्वात् शब्दस्य च आकाशगुणत्वेन तत्र समवायात् / 5 ‘घटाऽभाववद्भूतलम्' इत्यत्र चक्षुषा संयुक्तं भूतलम् , तद्विशेषणीभूतश्च अभावः इति ।-६-“समवायेऽभावे च विशेषणविशेष्यभावात् / न्यायवा० पृ. 31 / न्यायवा० ता० टी० पृ० 111 / " एतेन समवायेऽपि प्रत्यक्षत्वं प्रकाशितम् , इहेति तन्तुसम्बद्धपटप्रत्ययदर्शनात् / " न्यायमं० पृ. 84 / -इत्यादिना नैयायिकमतेऽस्ति समवायस्य प्रत्यक्षता / वैशेषिकसिद्धान्ते तु-“अतएव अतीन्द्रियः" प्रशस्तपा० भा० 329 / वैशे० उप० पृ० 296 / -इत्यादिना समवायस्य अतीन्द्रियत्वमेव / “सम्बन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वात् , समवायस्य एकतया एकदा भाविभूतसकलाश्रयव्यक्तीनां ज्ञानाऽसंभवात् / " मुक्ता दिन. रामरुद्री पृ. 261 / 7 “द्रव्ये तावत् त्रिविधे महत्यनेकद्रव्यवत्त्वोद्भूतरूपप्रकाशचतुष्टयसन्निकर्षाद् धर्मादिसामय्ये च स्वरूपालोचनमात्रम्....'शब्दस्य यसन्निकर्षात् श्रोत्रसमवेतस्य तेनैव उपलब्धिः....."बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः संयोगादुपलब्धिः ..." प्रशस्त० भा० पृ० 187 / न्यायमं० पृ०७४ / 8 पृ० 28 पं०१३ / ९-वे प्र-आ०, ब०, ज० / “यद्भावे हि प्रमितेभीववत्ता यदभावे च अभाववत्ता ....." / अष्टसह. पृ. 276 / प्रमाणप० पृ० 1 / प्रमेयक० पृ. 4 उ० / 10 “कः खलु साधकतमार्थः :भावाऽभावयोस्तद्वत्ता / " न्यायवा• पृ. 6 / ११-पत्तिः आ० / 12 “क्षितिद्रव्येण संयोगो नयनादेर्यथैव हि / तस्य व्योमादिनाप्यस्तिं न च तज्ज्ञानकारणम् // 124 // " तत्त्वार्थश्लो० पृ० 168 / न हि चक्षुषा घटवदाकाशेः संयोगो विद्यमानोऽपि प्रमित्युत्पादकः'..... "इत्यादिसर्वम् अनयैवाऽऽनुपूा (प्रमेयक• पृ. 4-5, स्याः रत्ना० पृ. 54-61) चर्चितम् / 13 प्रमितेः / 14 चक्षुःसंयोगहेतुकत्व। .. .