________________ पूर्वपक्षः लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० कर्षादिः, तस्मादन्यः प्रमेयो घटादिः तदन्तरम् तस्येव तद्वत् / ननु प्रमाणत्वञ्च स्यात् अज्ञानत्वञ्च विरोधाऽभावात् , अतः सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकत्वम् ; इत्यनुपपन्नम्। अज्ञानविरोधिना ज्ञानत्वेन प्रमाणत्वस्य व्याप्तत्वात् तंत्र तैद्विरोधसिद्धः। प्रकर्षेण हि संशयादिव्यवच्छेदलक्षणेन मीयते अव्यवधानेन परिच्छिद्यते येनार्थः तत् प्रमाणम् , तत्कथमज्ञा५ नरूपंसन्निकर्षादिस्वभावं घटेत ? न खलु सन्निकर्षादिना किञ्चिन्मीयते, ज्ञानकल्पनानर्थक्यप्रसङ्गात् / अतो 'ज्ञानमेव प्रमाणम्' इति उपपत्तिचक्षुषाऽभ्युपगन्तव्यम् / स्यान्मतिरेषा ते–'ज्ञानमेव प्रमाणम्' इत्यवधारणमनुपपन्नम् , अज्ञानरूपस्यापि सन्निक र्षादेः प्रमाजनकत्वेन प्रमाणत्वोपपत्तेः; तथा हि-"प्रमाजनकं प्रमाणम्" सन्निकर्षवादे यौगस्य व [ ] इति सूत्रं व्याचक्षाणेन भाष्यकारेण "उपलब्धिसाधना नि प्रमाणानि" [न्यायभा० पृ० 18] इत्युक्तम् / तत्र व्याख्यातृणां मतभेदः केचित् “सनिकर्षः अर्थोपलब्धौ साधकतमत्वात् प्रमाणम्” [ ] इति प्रतिपन्नाः, अन्ये तु कारकसाकल्यम् / तत्राद्यमतं तावत् समर्थ्यते / तत्र हि सन्निकर्ष एव अर्थोपलब्धौ साधकतमत्वात् प्रमाणम् / साधकतमत्वं हि प्रमाणत्वेन व्याप्तं न पुनर्ज्ञान त्वमज्ञानत्वं वा, संशयादिवत् प्रमेयार्थवच्च / 'तंच अर्थोपलब्धौ सन्निकर्षस्यास्त्येव / नास१५ निकृष्टेऽर्थे ज्ञानमुत्पत्तुमर्हति" सर्वस्य सर्वत्रार्थे तदुत्पत्तिप्रसङ्गात् / 'तत्सद्भावावेदकञ्च प्रमाणं "व्यवहितार्थानुपलब्धिरेव। यदि ह्यसन्निकृष्टमप्यर्थ चक्षुरादीन्द्रियं गृह्णीयात् , तर्हि व्यवहितमपि किन्न गृह्णीयाद् अविशेषात् ? किश्च, इन्द्रियं कारकम् , 'कारकञ्चासन्निकृष्टं न फलप्रादुर्भावाय प्रभवति; तथा हि-इन्द्रियं नाऽसन्निकृष्टऽर्थे फलमुत्पादयति कारकत्वात् वास्यादिवत् / स्पर्शनादीन्द्रिये च प्राप्यकारित्वं 20 सुस्पष्टम् , तत्साधादिन्द्रियान्तरेष्वपि तत् कल्प्यताम् अविशेषात् / स चैवं प्रसिद्धस्वरूपः स 1 प्रमाणे / 2 अज्ञानेन सह / ३-सिद्धिः आ० / ४-रूपं-ज० / 5 सूत्रमिदम् उपलब्धगौतमीयसूत्रपाठे नोपलभ्यते / 6 वात्स्यायनेन / 7 न्यायवार्तिककृतः उद्योतकराचार्याः-" उपलब्धिहेतुः प्रमाणम् यदुपलब्धिनिमितं तत् प्रमाणम् / अकरणा प्रमाणोत्पत्तिः इतिचेत् ,'न; इन्द्रियार्थसन्निकर्षस्य करणभावात् साधकतमत्वाद्वा न प्रसङ्गः / " न्यायवा० पृ. 5-6 / 8 न्यायमञ्जरीकृतो जयन्तभट्टाः / ९“तदेवं ज्ञानमज्ञानं वा उपलब्धिहेतुः प्रमाणम्'''" न्यायवा० ता० टी० पृ. 22 / 10 साधकतमत्वम् / ११-ति सर्वत्रा-आ०, ब०, ज० / 12 तद्भावा-भां० / 13 “कुड्यान्तरिताऽनुपलब्धेरप्रतिषेधः।" न्यायसू. 1 / 1 / 45/ “अप्राप्यकारित्वे सति इन्द्रियाणां कुड्यान्तरितस्याऽनुपलब्धिर्न स्यात् / " न्यायभा. पृ. 255 / "ननु सन्निकर्षावगमे किं प्रमाणम् ? व्यवहिताऽनुपलब्धिः इति ब्रूमः। यदि हि असन्निकृष्ठमपि चक्षुरादीन्द्रियम् अर्थ गृह्णीयाद् व्यवहितोऽपि ततोऽर्थ उपलभ्येत / " न्यायमं० पृ. 73 / 14 "इन्द्रियाणां कारकत्वेन प्राप्यकारित्वात् / संसृष्टञ्च कारकं फलाय कल्पते इति कल्पनीयः संसर्गः / ..." कारकश्च अप्राप्यकारि च' इति चित्रम् / " न्यायमं• पृ. 73 तथा 479 /