________________ लघी० 113 ] . विवृतिव्याख्यानम् इत्येकान्तो निरस्तः / अथवा विशिष्टं बाधवर्जितं तद् यस्य यस्मिन् वेति ग्राह्यम् / अनेनापि 'भ्रान्तमेव स्वपररूपयोः सकलं ज्ञानम् ' ईत्येकान्तः प्रत्याख्यातः / यदि वा, पि (वि) नाना द्रव्यपर्यायसामान्यविशेषरूपार्थ ( रूपा अर्था ) विषयतया तद् ( ? ) यस्य यस्मिन् वा इति प्रतिपत्तव्यम् , अनेनापि 'द्रव्यमात्रस्य, पर्यायमात्रस्य, सामान्यविशेषयोरन्यतरमात्रस्य, अन्योन्यविभिन्नोभयरूपस्य वा ज्ञानं ग्राहकम्' इत्येकान्तः प्रतिव्यूढः / विगतं वा स्वरूपे पर- 5 रूपे वा अपेक्ष्यं तद् यस्य तत्तथोक्तमिति / अनेनापि “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" [ ] इत्येकान्तः प्रतिक्षिप्तः / तत्रादेकान्तानां च प्रपञ्चतः प्रतिक्षेपोऽप्रे विधास्यत इत्यलमतिप्रसङ्गेन / इदानी द्वितीयं प्रमाणप्रकारं 'परोक्षं शेषम्' इत्यनेन प्ररूपयति / यत् तद्विशद. स्वरूपाज्ज्ञानात् शेषमविशदस्वभावं ज्ञानं तत् परोक्षम् / किंविशिष्टं तत् ? इत्याह-विज्ञा- 10 नम् इति / अस्य च व्याख्यानं 'पूर्वमिव अत्रापि दृष्टव्यम् / तथा च प्रमाणविशेषलक्षणस्य द्विप्रकारस्यैव प्रसिद्धः द्वे एव प्रमाणे प्रसिद्ध, सकलतद्व्यक्तिभेदानामत्रैवान्तर्भावादिति दर्शयन्नाहप्रमाणे इति संग्रहः इति 'द्वे एव प्रमाणे' इत्येवं संग्रहः सकलशास्त्रार्थस्येति / / तत्र प्रमाणस्य यज्ज्ञानमिति सामान्यलक्षणं कृतं तत् 'सन्निकर्षादेः' इत्यादिना समर्थयते / सन्निकर्षः इन्द्रियार्थसम्बन्धः, स आदिर्यस्य कार- 15 विवृतिव्याख्यानम् - कसाकल्येन्द्रियवृत्त्यादेः। कथंभूतस्य ? अज्ञानस्य अचेतनस्य प्रामाण्यमनुपपन्नम् / कस्येव ? अर्थान्तरवत् , अर्थः सन्नि१-परस्वरूप-ब० / 2 विभ्रमैकान्तवादिनः / 3 वा नाना भां० / 4 वेदान्तिनो द्रव्यमात्रवादिनः / 5 बौद्धाः पयायमात्रवादिनः / ६-स्यान्योन्यतरमात्रस्यअ-ब०, ज० / 7 विभिन्नोभयवादिनो योगाः। ८-रूपज्ञानात-ब०, ज०। 9 “जं परदो विण्णाणं तं तु परोक्खत्ति भणिदमत्थेसु // 59 // प्रव० सार पृ० 75 / पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यनिमित्तं प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्य आत्मन उत्पद्यमानं मतिश्रुतं परोक्षम् इत्याख्यायते / " सर्वार्थसि० पृ० 59 / " उपात्ताऽनुपात्तपरप्राधान्यादवगमः परोक्षम् / " तत्त्वार्थरा० वा० पृ० 38 / “अक्षाद् आत्मनः परावृत्तं परोक्षम् , ततः परैः इन्द्रियादिभिः ऊक्ष्यते सिञ्च्यते अभिवर्ध्यत इति परोक्षम् / " तत्त्वार्थश्लो. पृ. 182 / “परोक्षमविशदज्ञानात्मकम् / " प्रमाणप. पृ. 69 / “परोक्षमितरत् / " परीक्षामुख 3 / 1 / “भवति परोक्ष सहायसापेक्षम् / " पञ्चाध्यायी श्लो० 696 / “इतरज्ज्ञेयं परोक्षं ग्रहणेच्छया / " न्यायाव• श्लो. 4 / "अक्खस्स पोग्गलकया जं दविदियमणा परा तेणं / तेहिं तो जंणाणं परोक्खमिह तमणुमाणं व // 9 // " विशेषाव. भा० / “अविशदमविसंवादिज्ञानं परोक्षम् / " सन्मति. टी. पृ. 595 / “अस्पष्ठ परोक्षम् / " प्रमाण० त० 3 / 1 / प्रमाणमी० 3 / 1 / “अक्षाणां परं परोक्षम् , अक्षेभ्यः परतो वर्तत इति पा, परेण इन्द्रियादिना वा ऊक्ष्यते परोक्षम् / " षडद.टी.पृ० 54 / १०विज्ञानशब्दस्य / ज.। १२-कपः आ-भां.।