________________ लघीयस्त्रयालंकारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरि० मरनेक्षाश्रितज्ञामस्य प्रत्यक्षव्यपदेशः ? इति चेत् ; प्रवृत्तिनिमित्तसद्भावात् / अक्षाश्रितत्त्वं हि प्रत्यक्षशब्दस्य व्युत्पत्तिनिमित्तं गतिक्रियेव गोशब्दस्य / प्रतिनिमित्तं तु एकार्थसमवायिना अक्षाश्रितस्वेनोपलक्षितमर्थसाक्षास्कारित्वम् , गतिक्रियोपलक्षितगोत्ववद् गोशब्दस्य / अन्यद्धि शब्दस्य व्युत्पत्तिनिमित्तम् अन्यद्वाच्यम् , अन्यथा गच्छन्त्येव गौः 'गौः' इत्युच्येत नान्या 5 व्युत्पत्तिनिमित्ताभावात्, जात्यन्तरञ्च गतिक्रियापरिणतं व्युत्पत्तिनिमित्तसद्भावाद् गोशब्द वाच्यं स्यात् / यदि वा, व्युत्पत्तिनिमित्तमप्यत्र विद्यत एव ; तथा हि-अक्षशब्दोयमिन्द्रियवत् आत्मन्यपि प्रवर्तते, 'अक्ष्णोति व्याप्नोति जानाति' इति अक्ष आत्मा इति व्युत्पत्तेः / तमेव क्षीणोपशान्तावरणं क्षीणावरणं वा प्रति नियतस्य ज्ञानस्य प्रत्यक्षशब्दातिशयता सुघटैव / तच्चेदं द्विविधमपि प्रत्यक्षं किंविशिष्टम् ? इत्याह-विज्ञानम् इति / "विविधं स्वपरस१० म्बन्धि "ज्ञानं भासनं यस्य यस्मिन् वा तद्विज्ञानम् , अनेन "स्वस्यैव परस्यैवं वा ज्ञानं ग्राहकम्' जिनभद्रगणिक्षमाश्रमणैः (विशेषावश्यकभाष्ये) मुख्यसंव्यवहाररूपेण प्रत्यक्षं द्विधा विभक्तम् / बौद्धग्रन्थेष्वपि सांव्यवहारिकशब्दस्य निर्देशो दृश्यते यथा 'सांव्यवहारिकस्य इदं प्रमाणस्य लक्षणम्। तत्त्वसं.पं.पृ० 784 / 1 इन्द्रियाऽनाश्रित / 2 “अक्षाश्रितत्त्वञ्च व्युत्पत्तिनिमित्तं शब्दस्य, न तु प्रवृत्तिनिमित्तम् / अनेन सु अक्षाश्रितत्वेन एकार्थसमवेतम् अर्थसाक्षात्कारित्वं लक्ष्यते, तदेव च शब्दस्य प्रवृत्तिनिमित्तम् / ततश्च यत्किञ्चिदर्थस्य साक्षात्कारिज्ञानं प्रत्यक्षमुच्यते। यदि च अक्षाश्रितत्त्वमेव प्रवृत्तिनिमित्तं स्यात् इन्द्रियज्ञानमेव प्रत्यक्षमुच्येत, न मानसादि, यथा गच्छतीति गौः इति गमनक्रियायां व्युत्पादितोऽपि गोशब्दः गमनक्रियोपलक्षितमेकार्थसमवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति, तथा च गच्छति अगच्छति च गवि गोशब्दः सिद्धो भवति / " न्यायबि. टी. पृ० 11 / “यद् इन्द्रियमाश्रित्य उज्जिहीते अर्थसाक्षात्कारिज्ञानं तत् प्रत्यक्षम् इत्यर्थः, एतच्च प्रत्यक्षशब्दव्युत्पत्तिनिमित्तं न प्रवृत्तिनिमित्तम्" इत्यादि, न्यायाव० टो० पृ. 16 / 3 "वैशयांशस्य सद्भावात् व्यवहारप्रसिद्धितः // 181 // " तत्त्वार्थश्लो. पृ० 182 / “इन्द्रियज्ञानमपि व्यवहारे वैशद्यमात्रेण प्रत्यक्षं प्रसिद्धम्".....'न्या० वि० वि० पृ० 48 उ० / इत्यादिना वैशद्यांशमेव प्रवृत्तिनिमित्त ज्ञायते / ४-वेनोपलक्षितत्त्वेनोपलक्षित-ब० / ५-णत व्यु-आ०, ब०, ज० / ६-ब्दस्य वा-भां० / ७'अक्षो रथस्यावयवे व्यवहारे विभीतिके। पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ / इति विश्वः / / श्लोकोऽयं ज. प्रतौ 'इन्द्रियवत् ' इत्यस्यानन्तरमुल्लिखितः / 8 “अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा तमेव प्राप्तक्षयोपशमं प्रक्षीणावरणं वा प्रति नियतं प्रत्यक्षम् / " सर्वार्थसि० पृ. 59 / तत्त्वार्थराज. पृ. 38 / प्रमाणप० पृ. 68 / षड्द० स० टी० पृ० 54 / “तथाच भद्रबाहुः-जीवो अक्खो तं पइ जं वई तं तु होइ पचक्खं / परओ पुण अक्खस्स वन्तं होइ पारोक्खं / " -( नियुक्ति) न्यायाव. टी. टि. पृ० 15 / “जीवो अक्खो अत्थव्वावण भोयण गुणण्णिओ जेण / तं पई वट्टई णाणं जं पच्चक्खं तयं तिविहम् // 89 // " विशेषाव. भा० / 9 संघटैव भां० / 10 “विशब्दः अतिशयप्रकर्षद्वै(वै)विध्यनानात्वेषु वर्तमान। गृह्यते / " सिद्धिवि. टी. पृ. 3 पू० / 11 ज्ञान भा-आ०, ब०, ज० / 12 स्वग्राहकज्ञानवादिनः-विज्ञानाऽद्वैतवादिनो योगाचाराः, पुरुषाद्वैतवादिनः, निरालम्बनज्ञानवादिनो माध्यमिकाश्च / 13 परग्राहकज्ञानवादिनः-परोक्षज्ञानवादिनो मीमांसकाः, ज्ञानान्तरप्रत्यक्षज्ञानवादिनो यौगाः, अस्वसंवेदनज्ञानवादिनः सांख्याः, भूतचैतनिकाश्चार्वाकाश्च /